अध्यायः 369

नागपत्न्या प्रवासादागतं स्वभर्तारम् प्रति ब्राह्मणवचननिवेदनम् ॥ 1 ॥ भीष्म उवाच 001
अथ काले बहुतिथे पूर्णे प्राप्तो भुजङ्गमः । 001a
दत्ताभ्यनुज्ञः स्वं वेश्म कृतकर्मा विवस्वता ॥ 001c
तं भार्याऽप्युपचक्राम पादशौचादिभिर्गुणैः । 002a
उपपन्नां च तां साध्वीं पन्नगः पर्यपृच्छत ॥ 002c
अथ त्वमसि कल्याणि देवतातिथिपूजने । 003a
पूर्वमुक्तेन विधिना युक्ता कर्मसु वर्तसे ॥ 003c
न खल्वस्यकृतार्थेन स्त्रीबुद्ध्या मार्दवीकृता । 004a
मद्वियोगेन सुश्रोणि विमुक्ता धर्मसेतुना ॥ 004c
नागभार्योवाच 005
शिष्याणां गुरुशुश्रूषा विप्राणां वेदधारणम् । 005a
भृत्यानां स्वामिवचनं राज्ञो लोकानुपालनम् ॥ 005c
सर्वभूतपरित्राणं क्षत्रधर्म इहोच्यते । 006a
वैश्यानां यज्ञसंवृत्तिरातिथेयसमन्विता ॥ 006c
विप्रक्षत्रियवैश्यानां शुश्रूषा शूद्रकर्म तत् । 007a
गृहस्थधर्मो नागेन्द्र सर्वभूतहितैषिता ॥ 007c
नियताहारता नित्यं व्रतचर्या यथाक्रमम् । 008a
धर्मो हि धर्मसम्बन्धादिन्द्रियाणां विशेषतः ॥ 008c
अहं कस्य कुतो वाऽपि कः को मे ह भवेदिति । 009a
प्रयोजनमतिर्नित्यमेवं मोक्षाश्रमे वसेत् ॥ 009c
पतिव्रतात्वं भार्यायाः परमो धर्म उच्यते । 010a
तवोपदेशान्नागेन्द्र तच्च तत्त्वेन वेद्मि वै ॥ 010c
साऽहं धर्मं विजानन्ती धर्ननित्ये त्वयि स्थिते । 011a
सत्पथं कथमुत्सृज्य यास्यामि विपथं पथः ॥ 011c
देवतानां महाभाग धर्मचर्या न हीयते । 012a
अतिथीनां च सत्कारे नित्ययुक्ताऽस्म्यतन्द्रिता ॥ 012c
सप्ताष्टदिवसास्त्वद्य विप्रस्येहागतस्य वै । 013a
तच्च कार्यं न मे ख्याति दर्शनं तव काङ्क्षति ॥ 013c
गोमत्यास्त्वेष पुलिने त्वद्दर्शनसमुत्सुकः । 014a
आसीनो वर्तयन्ब्रह्म ब्राह्मणः संशितव्रतः ॥ 014c
अहं त्वनेन नागेन्द्र सत्यपूर्वं समाहिता । 015a
प्रस्थाप्यो मत्सकाशं स सम्प्राप्तो भुजगोत्तमः ॥ 015c
एतच्छ्रुत्वा महाप्राज्ञ तत्र गन्तुं त्वमर्हसि । 016a
दातुमर्हसि वा तस्य दर्शनं दर्शनश्रवः ॥ 016c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनसप्तत्यधिकत्रिशततमोऽध्यायः ॥ 369 ॥

12-369-4 अकृतार्थेन धर्मसेतुना ॥ 12-369-5 विप्राणां वेदपालनमिति ट. पाठः ॥ 12-369-6 सर्वेषामेव वर्णानामातिथेयसमन्वितेति ट. पाठः ॥ 12-369-8 धर्मसम्बन्धात्क्षत्रियाणां विशेषत इति ट. पाठः ॥ 12-369-13 मे माम् प्रति । ख्याति कथयति ॥ 12-369-14 वर्तयन् आवर्तयन् । ब्रह्म वेदम् ॥ 12-369-16 दर्शनश्रवः हे सर्प । दर्शनं दर्शनार्थिन इति ट. पाठः ॥