अध्यायः 368

पुलिनवासिना ब्राह्मणेन स्वस्य फलाद्याहारम् प्रार्थयतां नागीयानामवधिनिर्देशपूर्वकम् प्रतिनिवर्तनम् ॥ 1 ॥ भीष्म उवाच 001
अथ तेन नरश्रेष्ठ ब्राह्मणेन तपस्विना । 001a
निराहारेण वसता दुःखितास्ते भुजङ्गमाः ॥ 001c
सर्वे सम्भूय सहिता ह्यस्य नावस्य बान्धवाः । 002a
भ्रातरस्तनया भार्या ययुस्तं ब्राह्मणं प्रति ॥ 002c
तेऽपश्यन्पुलिने तं वै विविक्ते नियतव्रतम् । 003a
समासीनं निराहारं द्विजं जप्यपरायणम् ॥ 003c
ते सर्वे समभिक्रम्य विप्रमभ्यर्च्य चासकृत् । 004a
ऊचुर्वाक्यमसन्दिग्धमातिथेयस्य बान्धवाः ॥ 004c
षष्ठो हि दिवसस्तेऽद्य प्राप्तस्येह तपोधन । 005a
न चाभिभाषसे किञ्चिदाहारं धर्मवत्सल ॥ 005c
अस्मानभिगतश्चासि वयं च त्वामुपस्थिताः । 006a
कार्यं चातिथ्यमस्माभिरीप्सितं तव ऋद्धिमत् ॥ 006c
मूलं फलं वा पर्णं वा पयो वा द्विजसत्तम । 007a
आहारहेतोरन्नं वा भोक्तुमर्हसि ब्राह्मण ॥ 007c
त्यक्ताहारेण भवता वने निवसता त्वया । 008a
बालवृद्धमिदं सर्वं पीड्यते धर्मसङ्करात् ॥ 008c
न हि नो भ्रूणहा कश्चित्पन्नगेष्विह विद्यते । 009a
पूर्वाशी वा कुले ह्यस्मिन्देवतातिथिबन्धुषु ॥ 009c
ब्राह्मण उवाच 010
उपदेशेन युष्माकमाहारोऽयं कृतो मया । 010a
द्विरूनं दशरात्रं वै नागस्यागमनं प्रति ॥ 010c
यद्यष्टरात्रेऽतिक्रान्ते नागमिष्यति पन्नगः । 011a
तदाहारं करिष्यामि तन्निमित्तमिदं व्रतम् ॥ 011c
कर्तव्यो न च सन्तापो गम्यतां च यथागतम् । 012a
तन्निमित्तमिदं सर्वं नैतद्भेत्तुमिहार्हथ ॥ 012c
ते तेन समनुज्ञाता ब्राह्मणेन भुजङ्गमाः । 013a
स्वमेव भवनं जग्मुरकृतार्था नरर्षभ ॥ 013c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टषष्ट्यधिकत्रिशततमोऽध्यायः ॥ 368 ॥

12-368-3 विपिने नियतव्रतमिति ट. पाठः ॥ 12-368-4 समभिक्रम्य उपेत्य ॥ 12-368-6 अस्माभिर्वयं सर्वे कुटुम्बिन इति झ. पाठः ॥ 12-368-9 कश्चिज्जातापद्यनृतोपि वेति झ. पाठः ॥ 12-368-12 भवद्भिरनुशिष्टोस्मि गम्यतां चेति झ. पाठः ॥