अध्यायः 367
पुलिनवासिना ब्राह्मणेन स्वस्य फलाद्याहारं प्रार्थयतां नागीयानामवधिनिर्देशपूर्वकम् प्रतिनिवर्तनम् ॥ 1 ॥
भीष्म उवाच 001
स वनानि विचित्राणि तीर्थानि च सरांसि च । 001a
अभिगच्छन्क्रमेण स्म कञ्चिन्मुनिमुपस्थितः ॥ 001c
तं स तेन यथोद्दिष्टं नागं विप्रेण ब्राह्मणः । 002a
पर्यपृच्छद्यथान्यायं श्रुत्वैव च जगाम सः ॥ 002c
सोऽभिगम्य यथान्यायं नागायतनमर्थवित् । 003a
प्रोक्तवानहमस्मीति भोःशब्दालङ्कृतं वचः ॥ 003c
तत्तस्य वचनं श्रुत्वा रूपिणी धर्मवत्सला । 004a
दर्शयामास तं विप्रं नागपत्नी पतिव्रता । 004c
सा तस्मै विधिवत्पूजां चक्रे धर्मपरायणा । 005a
स्वागतेनागतं कृत्वा किं करोमीति चाब्रवीत् ॥ 005c
ब्राह्मण उवाच 006
विश्रान्तोऽभ्यर्चितश्चास्मि भवत्या श्लक्ष्णया गिरा । 006a
द्रष्टुमिच्छामि भवति देवं नागमनुत्तमम् ॥ 006c
एतद्धि परमं कार्यमेतन्मे परमेप्सितम् । 007a
अनेन चार्थेनास्म्यद्य सम्प्राप्तः पन्नगाश्रमम् ॥ 007c
नागभार्योवाच 008
आर्यः सूर्यरथं वोढुं गतोऽसौ मासचारिकः । 008a
सप्ताष्टभिर्दिनैर्विप्र दर्शयिष्यत्यसंशयम् ॥ 008c
एतद्विदितमार्यस्य विवासकरणं तव । 009a
भर्तुर्भवतु किञ्चान्यत्क्रियतां तद्वदस्व मे ॥ 009c
ब्राह्मण उवाच 010
अनेन निश्चयेनाहं साध्वि सम्प्राप्तवानिह । 010a
प्रतीक्षन्नागमं देवि वत्स्याम्यस्मिन्महावने ॥ 010c
सम्प्राप्तस्यैव चाव्यग्रमावेद्योऽहमिहागतः । 011a
ममाभिगमनं प्राप्तो वाच्यश्च वचनं त्वया ॥ 011c
अहमप्यत्र वत्स्यामि गोमत्याः पुलिने शुभे । 012a
कालं परिमिताहारो यथोक्तं परिपालयन् ॥ 012c
ततः स विप्रस्तां नागीं समाधाय पुनःपुनः । 013a
वेदवित्पुलिनं नद्याः प्रययौ ब्राह्मणर्षभः ॥ 013c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तषष्ट्यधिकत्रिशततमोऽध्यायः ॥ 367 ॥
12-367-9 विवासकरणं प्रवासकारणम् ॥