अध्यायः 366

ब्राह्मणेन धर्मावगतये नागगृहम् प्रति गमनम् ॥ 1 ॥ ब्राह्मण उवाच 001
अतिभारोद्यतस्यैव भारावतरणं महत् । 001a
पराश्वासकरं वाक्यमिदं मे भवतः श्रुतम् ॥ 001c
अध्वक्लान्तस्य शयनं स्थानक्लान्तस्य चासनम् । 002a
तृषितस्येव पानीयं क्षुधार्तस्येव भोजनम् ॥ 002c
ईप्सितस्येव सम्प्राप्तिरर्थस्य समयेऽतिथे । 003a
एषितस्यात्मनः काले वृद्धस्यैव सुता यथा ॥ 003c
मनसा चिन्तितस्येव प्रीतिस्निग्धस्य दर्शनम् । 004a
प्रह्लादयति मां वाक्यं भवता यदुदीरितम् ॥ 004c
मनश्चक्षुरिवाकाशे पश्यामि विमृशामि च । 005a
प्रज्ञानवचनाद्योयमुपदेशो हि मे कृतः ॥ 005c
बाढमेवं करिष्यामि यथा मे भाषते भवान् । 006a
इमां हि रजनीं साधो निवसस्व मया सह ॥ 006c
प्रभाते यास्यति चवान्पर्याश्वस्तः सुखोषितः । 007a
असौ हि भगवान्सूर्यो मन्दरश्मिरवाङ्मुखः ॥ 007c
भीष्म उवाच 008
ततस्तेन कृतातिथ्यः सोऽतिथिः शत्रुसूदन । 008a
उवास किल तां रात्रिं सह तेन द्विजेन वै ॥ 008c
तत्वं च धर्मसंयुक्तं तयोः कथयतोस्तदा । 009a
व्यतीता सा निशा कृत्स्ना सुखेन दिवसोपमा ॥ 009c
ततः प्रभातसमये सोऽतिथिस्तेन पूजितः । 010a
ब्राह्मणेन यथाशक्त्या स्वकार्यमभिकाङ्क्षता ॥ 010c
ततः स विप्रः कृतकर्मनिश्चयः कृताभ्यनुज्ञः स्वजनेन धर्मकृत् । 011a
यथोपदिष्टं भुजगेन्द्रसंश्रयं जगाम काले सुकृतैकनिश्चयः ॥ 011c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षट्षष्ट्यधिकत्रिशततमोऽध्यायः ॥ 366 ॥

12-366-9 चतुर्थधर्मसंयुक्तमिति झ. पाठः । तत्र चतुर्थधर्मो मोक्षधर्मस्तेन संयुक्तमित्यर्थः ॥ 12-366-11 संश्रयं गृहम् ॥