अध्यायः 365
अतिथिना ब्राह्मणम् प्रति श्रेयःसाधनावगमनाय पद्माख्यनागसमीपगमनचोदना ॥ 1 ॥
अतिथिरुवाच 001
उपदेशं तु ते विप्र करिष्येऽहं यथाक्रमम् । 001a
गुरुणा मे यथाख्यातमर्थतत्त्वं तु मे शृणु ॥ 001c
यत्र पूर्वाभिसर्गे वै धर्मचक्रं प्रवर्तितम् । 002a
नैमिषे गोमतीतीरे तत्र नागह्रदो महान् ॥ 002c
समग्रैस्त्रिदशैस्तत्र इष्टमासीद्द्विजर्षभ । 003a
यत्रेन्द्रातिक्रमं चक्रे मान्धाता राजसत्तमः ॥ 003c
कृताधिवासो धर्मात्मा तत्र चक्षुःश्रवा महान् । 004a
पद्मनाभो महानागः पद्म इत्येव विश्रुतः ॥ 004c
स वाचा कर्मणा चैव मनसा च द्विजर्षभः । 005a
प्रसादयति भूतानि त्रिविधे वर्त्मनि स्थितः ॥ 005c
साम्ना भेदेन दानेन दणडेनेति चतुर्विधम् । 006a
विषमस्थं समस्थं च चक्षुर्ध्यानेन रक्षति ॥ 006c
तमतिक्रम्य विधिना प्रष्टुमर्हसि काङ्क्षितम् । 007a
स ते परमकं धर्मं न मिथ्या दर्शयिष्यति ॥ 007c
स हि सर्वातिथिर्नागो बुद्धिशास्त्रविशारदः । 008a
गुणैरनुपमैर्युक्तः समस्तैराभिकामिकैः ॥ 008c
प्रकृत्या नित्यसलिलो नित्यमध्ययने रतः । 009a
तपोदमाभ्यां संयुक्तो वृत्तेनानवरेण च ॥ 009c
यज्वा दानपतिः क्षान्तो वृत्ते च परमे स्थितः । 010a
सत्यवागनसूयुश्च शीलवान्नियतेन्द्रियः ॥ 010c
शेषान्नभोक्ता वचनानुकूलो हितार्जवोत्कृष्टकृताकृतज्ञः । 011a
अवैरकृद्भूतहिते नियुक्तो गङ्गाह्रदाम्भोभिजनोपपन्नः ॥ 011c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चषष्ट्यधिकत्रिशततमोऽध्यायः ॥ 365 ॥
12-365-4 चक्षुःश्रवाः सर्पः ॥ 12-365-5 त्रिविधे कर्मज्ञानोपास्त्यात्मके ॥ 13-365-6 चतुर्विधं यथा स्यात्तया । चक्षुः चक्षुरादि । ध्यानेन वस्तुतत्त्वानुसन्धानेन ॥ 13-365-7 अतिक्रम्योपगम्य ॥ 12-365-8 आभिकामिकैरभीप्सितैः ॥