अध्यायः 364
श्रेयःसाधनम् पृष्टेनातिथिना ब्राह्मणम् प्रति नानामार्गप्रदर्शनपूर्वकं स्वस्यापि संशयोत्कीर्तनम् ॥ 1 ॥
ब्राह्मण उवाच 001
समुत्पन्ने विधानेऽस्मिन्वाङ्माधुर्येण तेऽनघ । 001a
मित्रत्वमभिसम्पन्नः किञ्चिद्वक्ष्यामि तच्छृणु ॥ 001c
गृहस्थधर्मं विप्रेन्द्र श्रुत्वा धर्मगतं त्वहम् । 002a
धर्मं परमकं कुर्यां को हि मार्गो भवेद्द्विज ॥ 002c
अहमात्मानमास्थाय एक एवात्मनि स्थितम् । 003a
द्रष्टुमिच्छन्न पश्यामि बद्धः साधारणैर्गुणैः ॥ 003c
यावदेतदतीतं मे वयः पुत्रफलाश्रितम् । 004a
तावदिच्छामि पाथेयमादातुं पारलौकिकम् ॥ 004c
अस्मिन्हि लोकसम्भारे परं पारमभीप्सतः । 005a
उत्पन्ना मे मतिरियं कुतो धर्ममयः प्लवः ॥ 005c
संयुज्यमानानि निशाम्य लोके निर्यात्यमानानि च सात्विकानि । 006a
दृष्ट्वा तु धर्मध्वजकेतुमालां प्रकीर्यमाणामुपरि प्रजानाम् ॥ 006c
न मे मनो रज्यति भोगरागैर्दृष्ट्वा गतिं प्रार्थयतः परत्र । 007a
तेनातिथे बुद्धिबलाश्रयेण धर्मेण धर्मे विनियुङ्क्ष्व मां त्वम् ॥ 007c
सोऽतिथिर्वचनं तस्य श्रुत्वा धर्माभिभाषिणः । 008a
प्रोवाच वचनं श्लक्ष्णं प्राज्ञो मधुरया गिरा ॥ 008c
अहमप्यत्र मुह्यामि ममाप्येष मनोरथः । 009a
न च सन्निश्चयं चामि बहुद्वारे त्रिविष्टपे ॥ 009c
केचिन्मोक्षं प्रशंसन्ति केचिद्यज्ञफलं द्विजाः । 010a
वानप्रस्थाश्रयाः केचिद्गार्हस्थ्यं केचिदाश्रिताः ॥ 010c
राजधर्माश्रयाः केचित्केचिदात्मफलाश्रयाः । 011a
गुरुधर्माश्रयाः केचित्केचिद्वाक्संयमाश्रयाः ॥ 011c
मातरं पितरं केचिच्छुश्रूषन्तो दिवं गताः । 012a
अहिंसया परे स्वर्गं सत्येन च तथाऽपरे ॥ 012c
आहवेऽभिमुखाः केचिन्निहतास्त्रिदिवं गताः । 013a
केचिदुञ्छव्रतैः सिद्धाः स्वर्गमार्गं समाश्रिताः ॥ 013c
केचिदध्ययने युक्ता वेदव्रतपराः शुभाः । 014a
बुद्धिमन्तो गताः स्वर्गं तुष्टात्मानो जितेन्द्रियाः ॥ 014c
आर्जवेनापरे युक्ता निहतानार्जवैर्जनैः । 015a
ऋजवो नाकपृष्ठे वै शुद्धात्मानः प्रतिष्ठिताः ॥ 015c
एवं बहुविधैर्लोकैर्धर्मद्वारैरनावृतैः । 016a
ममापि मतिराविद्धा मेघलेखेव वायुना ॥ 016c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुःषष्ट्यधिकत्रिशततमोऽध्यायः ॥ 364 ॥
12-364-1 समुत्पन्नाभिधानोस्मीति झ. पाठः । तत्र आभिधानी बन्धनरज्जुः । अश्वाभिधानीमादत्त इति ब्राह्मणात् । तेनाभिधानशब्दोपि बन्धनवाची । जातबन्धन इत्यर्थः ॥ 12-364-2 कृत्वा पुत्रगतं त्वहमिति झ. पाठः ॥ 12-364-5 कुतः कुत्राश्रमे । प्लवः संसाराब्धितरणसाधनम् ॥ 12-364-6 निशाम्य आलोच्य । निर्यात्यमानानि निपीड्यमानानि । सात्विकानि देवादीनि । धर्मस्य यमस्य ध्वजाः पताका दण्डोपमा रोगादयस्तेषां माला सन्ततिस्तां दृष्ट्वा मे मनो न रज्यतीत्युत्तरेण सम्बन्धः । समूह्यमानानि यथा हि लोके निहन्यमानानि तथाहि तानि इति ।प्रकीर्यमाणानीति च. ट. पाठः ॥