अध्यायः 363

महापद्मपुरवासिना विप्रेणातिथिम् प्रति सत्कारपूर्वकम् प्रश्नारम्भः ॥ 1 ॥ भीष्म उवाच 001
आसीत्किल नरश्रेष्ठ महापद्मे पुरोत्तमे । 001a
गङ्गाया दक्षिणे तीरे कश्चिद्विप्रः समाहितः ॥ 001c
सौम्यः सोमान्वये जातो जितात्मा गोत्रतो भृगुः । 002a
धर्मनित्यो जितक्रोधो नित्यतप्तो जितेन्द्रियः ॥ 002c
तपःस्वाध्यायनिरतः सत्यः सज्जनसम्मतः । 003a
न्यायप्राप्तेन वित्तेन स्वेन शीलेन चान्वितः ॥ 003c
ज्ञाति सम्बन्धिविपुले पुत्रपौत्रप्रतिष्ठिते । 004a
कुले महति विख्याते विशिष्टां वृत्तिमास्थितः ॥ 004c
स पुत्रान्बहुलाल्ँलब्ध्वा विपुले कर्मणि स्थितः । 005a
कुलधर्माश्रितो राजन्धरर्मचर्यास्थितोऽभवत् ॥ 005c
ततः स धर्मं वेदोक्तं तथा शास्त्रोक्तमेव च । 006a
शिष्टाचीर्णं च धर्मं च त्रिविधं चिन्त्य चेतसा ॥ 006c
किन्नु मे स्याच्छुभं कृत्वा किं कृतं किं परायणम् । 007a
इत्येवं चिन्तयन्नित्यं न च याति विनिश्चयम् ॥ 007c
तस्यैवं चिन्त्यमानस्य धर्मं परममास्थितः । 008a
कदाचिदतिथिः प्राप्तो ब्राह्मणः सुसमाहितः ॥ 008c
स तस्मै सत्क्रियां चक्रे क्रियायुक्तेन हेतुना । 009a
विश्रान्तं सुसमासीनमिदं वचनमब्रवीत् ॥ 009c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रिषष्ट्यधिकत्रिशततमोऽध्यायः ॥ 363 ॥

12-363-2 सोमान्वये अत्रिगोत्रे ॥