अध्यायः 362
भीष्मेण युधिष्ठिरम् प्रत्युञ्छवृत्त्युपाख्यानोपोद्घातकथनम् ॥ 1 ॥
युधिष्ठिर उवाच 001
धर्माः पितामहेनोक्ता मोक्षधर्माश्रिताः शुभाः । 001a
धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हति मे भवान् ॥ 001c
भीष्म उवाच 002
सर्वत्र विहितो धर्मः सत्यः सत्यफलोदयः । 002a
बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया ॥ 002c
यस्मिन्यस्मिंश्च विषये यो यो याति विनिश्चयम् । 003a
स तमेवाभिजानाति नान्यं भरतसत्तम ॥ 003c
इमां च त्वं नरव्याघ्र श्रोतुमर्हसि मे कथाम् । 004a
पुरा शक्रस्य कथितां नारदेन महर्षिणा ॥ 004c
महर्षिर्नारदो राजन्सिद्धस्त्रैलोक्यसम्मतः । 005a
पर्येति क्रमशो लोकान्वायुरव्याहतो यथा ॥ 005c
स कदाचिन्महेष्वास देवराजालयं गतः । 006a
सत्कृतश्च महेन्द्रेण प्रत्यासन्नगतोऽभवत् ॥ 006c
तं कृतक्षणमासीनं पर्यपृच्छच्छचीपतिः । 007a
महर्षे किञ्चिदाश्चर्यमस्ति दृष्टं त्वयाऽनघ ॥ 007c
दृष्टमेव हि विप्रर्षे त्रैलोक्यं सचराचरम् । 008a
जातकौतूहलो नित्यं सिद्धश्चरसि साक्षिवत् ॥ 008c
न ह्यस्त्यविदितं लोके देवर्षे तव किञ्चन । 009a
श्रुतं वाऽप्यनुभूतं वा दृष्टं वा कथयस्व मे ॥ 009c
तस्मै राजन्सुरेन्द्राय नारदो वदतांवरः । 010a
आसीनायोपपन्नाय प्रोक्तवान्विपुलां कथाम् ॥ 010c
यथा येन च कल्पेन स तस्मै द्विजसत्तमः । 011a
कथां कथितवान्पृष्टस्तथा त्वमपि मे शृणु ॥ 011c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्विषष्ट्यधिकत्रिशततमोऽध्यायः ॥ 362 ॥
12-362-2 स्वर्गः सत्यफलं महदिति झ. पाठः ॥ 12-362-3 सर्वेष्वाश्रमेषु स्वर्गो मोक्षश्चास्ति तेषु यत्र यस्य रुचिस्तेन स कृतकृत्यो नान्यं धर्मं बहु मन्यते इति श्लोकद्वयार्थः ॥ 12-362-4 अपिच त्वं नरव्याघ्रेति ट. पाठः ॥ 12-362-11 कल्पेन न्यायेन ॥