अध्यायः 360
वैशम्पायनेन जनमेजयम् प्रति ब्रह्मरुद्रसंवादानुवादः ॥ 1 ॥
जनमेजय उवाच 001
बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु । 001a
को ह्यत्र पुरुषः श्रेष्ठः को वा योनिरिहोच्यते ॥ 001c
वैशम्पायन उवाच 002
बहवः पुरुषा लोके साङ्ख्ययोगविचारणे । 002a
नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह ॥ 002c
बहूनां पुरुषाणां च यथैका योनिरुच्यते । 003a
तथा तं पुरुषं विश्वं व्याख्यास्यामि गुणाधिकम् ॥ 003c
नमस्कृत्वा च गुरवे व्यासाय विदितात्मने । 004a
तपोयुक्ताय दान्ताय वन्द्याय परमर्षये ॥ 004c
इदं पुरुषसूक्तं हि सर्ववेदेषु पार्थिव । 005a
ऋतं सत्यं च विख्यातमृषिसिंहेन चिन्तितम् ॥ 005c
उत्सर्गेणापवादेन ऋषिभिः कपिलादिभिः । 006a
अध्यात्मचिन्तामाश्रित्य शास्त्राण्युक्तानि भारत ॥ 006c
समासतस्तु यद्व्यासः पुरुषैकत्वमुक्तवान् । 007a
तत्तेऽहं सम्प्रवक्ष्यामि प्रसादादमितौजसः ॥ 007c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 008a
ब्रह्मणा सह संवादं त्र्यम्बकस्य विशाम्पते ॥ 008c
क्षीरोदस्य समुद्रस्य मध्ये हाटकसप्रभः । 009a
वैजयन्त इति ख्यातः पर्वतप्रवरो नृप ॥ 009c
तत्राध्यात्मगतिं देव एकाकी प्रविचिन्तयन् । 010a
वैराजसदनान्नित्यं वैजयन्तं निषेवते ॥ 010c
अथ तत्राऽऽसतस्तस्य चतुर्वक्त्रस्य धीमतः । 011a
ललाटप्रभवः पुत्रः शिव आगाद्यदृच्छया । 011c
आकाशेन महायोगी पुरा त्रिनयनः प्रभुः ॥ 011e
ततः खान्निपपाताशु धरणीधरमूर्धनि । 012a
अग्रतश्चाभवत्प्रीतो ववन्दे चापि पादयोः ॥ 012c
तं पादयोर्निपतितं दृष्ट्वा सव्येन पाणिना । 013a
अत्थापयामास तदा प्रभुरेकः प्रजापतिः । 013c
उवाच चैनं भगवांश्चिरस्यागतमात्मजम् ॥ 013e
पितामह उवाच 014
स्वागतं ते महाबाहो दिष्ट्या प्राप्तोसि मेऽन्तिकम् । 014a
कच्चित्ते कुशलं पुत्र स्वाध्यायतपसोः सदा । 014c
नित्यमुग्रतपास्त्वं हि ततः पृच्छामि ते पुनः ॥ 014e
रुद्र उवाच 015
त्वत्प्रसादेन भगवन्स्वाध्यायतपसोर्मम । 015a
कुशलं चाव्ययं चैव सर्वस्य जगतस्त्वथ ॥ 015c
चिरदृष्टोसि भगवन्वैराजसदने मया । 016a
ततोऽहं पर्वतं प्राप्तस्त्विमं त्वत्पादसेवितम् ॥ 016c
कौतूहलं चापि हि मे एकान्तगमनेन ते । 017a
नैतत्कारणमल्पं हि भविष्यति पितामह ॥ 017c
किन्नु तत्सदनं श्रेष्ठं क्षुत्पिपासाविवर्जितम् । 018a
सुरासुरैरध्युषितमृषिभिश्चामितप्रभैः ॥ 018c
गन्धर्वैरप्सरोभिश्च सततं सन्निषेवितम् । 019a
उत्सृज्येमं गिरिवरमेकाकी प्राप्तवानसि ॥ 019c
ब्रह्मोवाच 020
वैजयन्तो गिरिवरः सततं सेव्यते मया । 020a
अत्रैकाग्रेण मनसा पुरुषश्चिन्त्यते विराट् ॥ 020c
रुद्र उवाच 021
बहवः पुरुषा ब्रह्मंस्त्वया सृष्टाः स्वयम्भुवा । 021a
सृज्यन्ते चापरे ब्रह्मन्स चैकः पुरुषो विराट् ॥ 021c
को ह्यसौ चिन्त्यते ब्रह्मंस्त्वयैकः पुरुषोत्तमः । 022a
एतन्मे संशयं छिन्धि महत्कौतूहलं हि मे ॥ 022c
ब्रह्मोवाच 023
बहवः पुरुषाः पुत्र त्वया ये समुदाहृताः । 023a
एवमेतदतिक्रान्तं द्रष्टव्यं नैवमित्यपि ॥ 023c
आधारं तु प्रवक्ष्यामि एकस्य पुरुषस्य ते । 024a
बहूनां पुरुषाणां स यथैका योनिरुच्यते ॥ 024c
तथा तं पुरुषं विश्वं परमं सुमहत्तमम् । 025a
निर्गुणं निर्गुणा भूत्वा प्रविशन्ति सनातनम् ॥ 025c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये षष्ट्यधिकत्रिशततमोऽध्यायः ॥ 360 ॥
12-360-2 साङ्ख्ययोगविचारणा इति ट. पाठः ॥ 12-360-21 स च कः पुरुषो विराडिति ट. ध. पाठः ॥