अध्यायः 359
वैशम्पायनेन जनमेजयम् प्रति श्रीव्यासस्य श्रीनारायणादपान्तरतम इति प्रादुर्भावादिकथनम् ॥ 1 ॥
जनमेजय उवाच 001
साख्यं योगः पाञ्चरात्रं वेदारण्यकमेव च । 001a
ज्ञानान्येतानि ब्रह्मर्षे लोकेषु प्रचरन्ति ह ॥ 001c
किमेतान्येकनिष्ठानि पृथङ्निष्ठानि वा मुने । 002a
प्रब्रूहि वै मया पृष्टः प्रवृत्तिं च यथाक्रमम् ॥ 002c
'कथं वैकारिको गच्छेत्पुरुषः पुरुषोत्तमम् । 003a
वदस्व त्वं मया पृष्टः प्रवृत्तिं च यथाक्रमम् ॥' 003c
वैशम्पायन उवाच 004
जज्ञे बहुज्ञं परमत्युदारं यं द्वीपमध्ये सुतमात्मवन्तम् । 004a
पराशरात्सत्यवती महर्षिं तस्मै नमोऽज्ञानतमोनुदाय ॥ 004c
पितामहाद्यं प्रवदन्ति षष्ठं महर्षिमार्षेयविभूतियुक्तम् । 005a
नारायणस्यांशजमेकपुत्रं द्वैपायनं वेदमहानिधानम् ॥ 005c
तमादिकालेषु महाविभूतिर्नारायणो ब्रह्म महानिधानम् । 006a
ससर्ज पुत्रार्थमुदारतेजा व्यासं महात्मानमजं पुराणम् ॥ 006c
जनमेजाय उवाच 007
त्वयैव कथितः पूर्वं सम्भवो द्विजसत्तम । 007a
वसिष्ठस्य सुतः शक्तिः शक्तिपुत्रः पराशरः ॥ 007c
पराशरस्य दायादः कृष्णद्वैपायनो मुनिः । 008a
भूयो नारायणसुतं त्वमेवैनं प्रभाषसे ॥ 008c
किमतः पूर्वकं जन्म व्यासस्यामिततेजसः । 009a
कथयस्वोत्तममते जन्म नारायणोद्भवम् ॥ 009c
वैशम्पायन उवाच 010
वेदार्थवेत्तुर्व्यासस्य धर्मिष्ठस्य तपोनिधेः । 010a
गुरोर्मे ज्ञाननिष्ठस्य हिमवत्पाद आसतः ॥ 010c
कृत्वा भारतमाख्यानं तपः श्रान्तस्य धीमतः । 011a
शुश्रूषां तत्परा राजन्कृतवन्तो वयं तदा ॥ 011c
सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः । 012a
अहं चतुर्थः शिष्यो वै शुको व्यासात्मजस्तथा ॥ 012c
एभिः परिवृतो व्यासः शिष्यैः पञ्चभिरुत्तमैः । 013a
शुशुभे हिमवत्पादे भूतैर्भूतपतिर्यथा ॥ 013c
वेदानावर्तयन्साङ्गान्भारतार्थांश्च सर्वशः । 014a
तमेकमनसं दान्तं युक्ता वयमुपास्महे ॥ 014c
कथान्तरेऽथ कस्मिंश्चित्पृष्टोऽस्माभिर्द्विजोत्तमः । 015a
वेदार्थान्भारतार्थांश्च जन्म नारायणात्तथा ॥ 015c
स पूर्वमुक्त्वा वेदार्थान्भारतार्थांश्च तत्त्ववित् । 016a
नारायणादिदं जन्म व्याहर्तुमुपचक्रमे ॥ 016c
शृणुध्वमाख्यानवरमिदमार्षेयमुत्तमम् । 017a
आदिकालोद्भवं विप्रास्तपसाऽधिगतं मया ॥ 017c
प्राप्ते प्रजाविसर्गे वै सप्तमे पद्मसम्भवे । 018a
नारायणो महायोगी शभाशुभविवर्जितः ॥ 018c
ससृजे नाभितः पूर्वं ब्रह्माणममितप्रभः । 019a
ततः स प्रादुरभवदथैनं वाक्यमब्रवीत् ॥ 019c
मम त्वं नाभितो जातः प्रजासर्गकरः प्रभुः । 020a
सृज प्रजास्त्वं विविधा ब्रह्मन्सजडपण्डिताः ॥ 020c
स एवमुक्तो विमुखश्चिन्ताव्याकुलमानसः । 021a
प्रणम्य वरदं देवमुवाच हरिमीश्वरम् ॥ 021c
का शक्तिर्मम देवेश प्रजाः स्रष्टुं नमोस्तु ते । 022a
अप्रज्ञावानहं देव विधत्स्व यदनन्तरम् ॥ 022c
स एवमुक्तो भगवान्भूत्वाऽथान्तर्हितस्ततः । 023a
चिन्तयामास देवेशो बुद्धिं बुद्धिमतांवरः । 023c
स्वरूपिणी ततो बुद्धिरुपतस्थे हरिं प्रभुम् ॥ 023e
योगेन चैनां निर्योगः स्वयं नियुयुजे तदा । 024a
स तामैश्वर्ययोगस्थां बुद्धिं गतिमतीं सतीम् ॥ 024c
उवाच वचनं देवो बुद्धिं वै प्रभुरव्ययः । 025a
ब्रह्माणं प्रविशस्वेति लोकसृष्ट्यर्थसिद्धये । 025c
ततस्तमीश्वरादिष्टा बुद्धिः क्षिप्रं विवेश सा ॥ 025e
अथैनं बुद्धिसंयुक्तं पुनः स ददृशे हरिः । 026a
भूयश्चैव वचः प्राह सृजेमा विविधाः प्रजाः ॥ 026c
बाढमित्येव कृत्वाऽसौ यथाऽऽज्ञां शिरसा हरेः । 027a
एवमुक्त्वा स भगवांस्तत्रैवान्तरधायत ॥ 027c
प्राप चैनं मुहूर्तेन स्वं स्थानं देवसञ्ज्ञितम् । 028a
तां चैव प्रकृतिं प्राप्य एकीभावगतोऽभवत् ॥ 028c
अथास्य बुद्धिरभवत्पुनरन्या तदा किल । 029a
सृष्टाः प्रजा इमाः सर्वा ब्रह्मणा परमेष्ठिना ॥ 029c
दैत्यदानवगन्धर्वरक्षोगणसमाकुला । 030a
जाता हीयं वसुमती भाराक्रान्ता तपस्विनी ॥ 030c
बहवो बलिनः पृथ्व्यां दैत्यदानवराक्षसाः । 031a
भविष्यन्ति तपोयुक्ता वरान्प्राप्स्यन्ति चोत्तमान् ॥ 031c
अवश्यमेव तैः सर्वैर्वरदानेन दर्पितैः । 032a
बाधितव्याः सुरगणा ऋषयश्च तपोधनाः ॥ 032c
तत्र न्याय्यमिदं कर्तुं भारावतरणं मया । 033a
अथ नानासमुद्भूतैर्वसुधायां यथाक्रमम् ॥ 033c
निग्रहेण च पापानां साधूनां प्रग्रहेण च । 034a
इदं तपस्विनी सत्या धारयिष्यति मेदिनी ॥ 034c
मया ह्येषा हि ध्रियते पातालस्थेन भोगिना । 035a
मया धृता धारयति जगद्विश्चं चराचरम् | 035c
तस्मात्पृथ्व्याः परित्राणं करिष्ये सम्भवं गतः॥ 035e
एवं स चिन्तयित्वा तु भगवान्मधुसूदनः । 036a
रुपाण्यनेकान्यसृजत्प्रादुर्भावभवाय सः ॥ 036c
वाराहं नारसिंहं च वामनं मानुषं तथा । 037a
एभिर्मया निहन्तव्याः दुर्विनीताः सुरारयः ॥ 037c
अथ भूयो जगत्स्रष्टा भोःशब्देनानुनादयन् । 038a
सरस्वतीमुच्चचार तत्र सारस्वतोऽभवत् ॥ 038c
अपान्तरतमा नाम सुतो वाक्सम्भवः प्रभोः । 039a
भूतभव्यभविष्यज्ञः सत्यवादी दृढव्रतः ॥ 039c
तमुवाच नतं मूर्ध्ना देवानामादिरव्ययः । 040a
वेदाख्याने श्रुतिः कार्या त्वया मतिमतांवर ॥ 040c
तस्मात्कुरु यथाज्ञप्तं ममैतद्वचनं मुने । 041a
तेन भिन्नास्तदा वेदा मनोः स्वायम्भुवेन्तरे ॥ 041c
ततस्तुतोष भगवान्हरिस्तेनास्य कर्मणा । 042a
तपसा च सुतप्तेन यमेन नियमेन च ॥ 042c
मन्वन्तरेषु पुत्र त्वमेवं लोकप्रवर्तकः । 043a
भविष्यस्यचलो ब्रह्मन्नप्रधृष्यश्च नित्यशः ॥ 043c
पुनस्तिष्ये च सम्प्राप्ते कुरवो नाम भारताः । 044a
भविष्यन्ति महात्मानो राजानः प्रथिता भुवि ॥ 044c
तेषां त्वत्तः प्रसूतानां कुलभेदो भविष्यति । 045a
परस्परविनाशार्थं त्वामृते द्विजसत्तम ॥ 045c
तत्राप्यनेकधा वेदान्भेत्स्यसे तपसाऽन्वितः । 046a
कृष्णे युगे च सम्प्राप्ते कृष्णवर्णो भविष्यसि ॥ 046c
धर्माणां विविधानां च कर्ता ज्ञानकरस्तथा । 047a
भविष्यसि तपोयुक्तो न च रागाद्विमोक्ष्यसे ॥ 047c
वीतरागश्च पुत्रस्ते परमात्मा भविष्यति । 048a
महेश्वरप्रसादेन नैतद्वचनमन्यथा ॥ 048c
यं मानसं वै प्रवदन्ति विप्राः पितामहस्योत्तमबुद्धियुक्तम् । 049a
वसिष्ठमग्र्यं च तपोनिधानं यस्यातिसूर्यं व्यतिरिच्यते भाः ॥ 049c
तस्यान्वये चापि ततो महर्षिः पराशरो नाम महाप्रभावः । 050a
पिता स ते वेदनिधिर्वरिष्ठो महातपा वै तपसो निवासः ॥ 050c
कानीनगर्भः पितृकन्यकायां तस्मादृषेस्त्वं भविता च पुत्रः ॥ 051ac
भूतभव्यभविष्याणां ज्ञानानां वेत्स्यसे गतिम् । 052a
ये ह्यतिक्रान्तकाः पूर्वं सहस्रयुगपर्ययाः ॥ 052c
तांश्च सर्वान्मयोद्दिष्टान्द्रक्ष्यसे तपसाऽन्वितः । 053a
पुनर्द्रक्ष्यसि चानेकसहस्रयुगपर्ययान् ॥ 053c
अनादिनिधनं लोके चक्रहस्तं च मां मुने । 054a
अनुध्यानान्मम मुने नैतद्वचनमन्यथा । 054c
भविष्यति महासत्व ख्यातिश्चाप्यतुला तव ॥ 054e
- शनैश्चरः सूर्यपुत्रो भविष्यति मनुर्महान् । 055a
तस्मिन्मन्वन्तरे चैव मन्वादिगणपूर्वकः । 055c
त्वमेव भविता वत्स मत्प्रसादान्न संशयः ॥ 055e
[यत्किञ्चिद्विद्यते लोके सर्वं तन्मद्विचेष्टितम् । 056a
अन्यो ह्यन्यं चिन्तयति स्वच्छन्दं विदधाम्यहम् ॥] 056c
एवं सारस्वतमृषिमपान्तरतमं तथा । 057a
युक्त्वा वचनमीशानः साधयस्वेत्यथाब्रवीत् ॥ 057c
सोहं तस्य प्रसादेन देवस्य हरिमेधसः । 058a
अपान्तरतमो नाम्ना ततो जातोऽऽज्ञया हरेः ॥ 058c
पुनश्च जातो विख्यातो वसिष्ठकुलनन्दनः ॥ 059ac
तदेतत्कथितं जन्म मया पूर्वकमात्मनः । 060a
नारायणप्रसादेन तदा नारायणांशजम् ॥ 060c
मया हि सुमहत्तप्तं तपः परमदारुणम् । 061a
पुरा मतिमतां श्रेष्ठाः परमेण समाधिना ॥ 061c
एतद्वः कथितं सर्वं यन्मां पृच्छत पुत्रकाः । 062a
पूर्वजन्म भविष्यं च भक्तानां स्नेहतो मया ॥ 062c
वैशम्पायन उवाच 063
एष ते कथितः पूर्वः सम्भवोऽस्मद्गुरोर्नृप । 063a
व्यासस्याक्लिष्टमनसो यथा पृष्टः पुनः शृणु ॥ 063c
साङ्ख्यं योगः पाञ्चरात्रं वेदाः पाशुपतं तथा । 064a
ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै ॥ 064c
साङ्ख्यस्य वक्ता कपिलः परमर्षिः स उच्यते । 065a
हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः ॥ 065c
अपान्तरतमाश्चैव वेदाचार्यः स उच्यते । 066a
प्राचीनगर्भं तमृषिं प्रवदन्तीह केचन ॥ 066c
उमापतिर्भूतपतिः श्रीकण्ठो ब्रह्मणः सुतः । 067a
उक्तवानिदमव्यग्रो ज्ञानं पाशुपतं शिवः ॥ 067c
पाञ्चरात्रस्य कृत्स्नस्य वक्ता तु भगवान्स्वयम् । 068a
सर्वेषु च नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते ॥ 068c
यथागमं यथाज्ञानं निष्ठा नारायणः प्रभुः । 069a
न चैनमेवं जानन्ति तमोभूता विशाम्पते ॥ 069c
तमेव शास्त्रकर्तारं प्रवदन्ति मनीषिणः । 070a
निष्ठां नारायणमृषिं नान्योस्तीति च वादिनः ॥ 070c
निःसंशयेषु सर्वेषु नित्यं वसति वै हरिः । 071a
ससंशयान्हेतुबलान्नाध्यावसति माधवः ॥ 071c
पाञ्चरात्रविदो ये तु यथाक्रमपरा नृप । 072a
एकान्तभावोपगतास्ते हरिं प्रविशन्ति वै ॥ 072c
साङ्ख्यं च योगं च सनातने द्वे वेदाश्च सर्वे निखिलेन राजन् । 073a
सर्वैः समस्तैर्ऋषिभिर्निरुक्तो नारायणो विश्वमिदं पुराणम् ॥ 073c
शुभाशुभं कर्म समीरितं यत्प्रवर्तते सर्वलोकेषु किञ्चित् । 074a
तस्मादृषेस्तद्भवतीति विद्याद्दिव्यन्तरिक्षे भुवि चाप्सु चेति ॥ 074c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये एकोनषष्ट्यधिकत्रिशततमोऽध्यायः ॥ 359 ॥
12-359-1 साङ्ख्यं योगः पञ्चरात्रं वेदाः पाशुपतं तथा इति थ. पाठः । साङ्ख्यं योगः पाशुपतं वेदारण्यकमेवचेति ध. पाठः ॥ 12-359-5 पितामहस्याद्यो नारायणस्तमारभ्य यं षष्ठं वदन्तीति योज्यम् । नारायणस्याङ्गजमिति ध. पाठः ॥ 12-359-9 पूर्वजं जन्मेति ट. पाठः ॥ 12-359-19 नाभिजं पुत्रमिति ध. पाठः ॥ 12-359-34 द्वयं तरस्विनी सत्येति ध. पाठः । इयं सरस्वती सत्येति ट. पाठः ॥ 12-359-55 शनैश्वरभ्राता । सप्तर्षिगुणपूर्वक इति थ. पाठः ॥