अध्यायः 358

वैशम्पायनेन जनमेजयाय एकान्तिधर्मनिरूपणपूर्वकं लोके तत्प्रचारप्रकारप्रतिपादनम् ॥ 1 ॥ जनमेजय उवाच 001
अहो ह्येकान्तिनः सर्वान्प्रीणाति भगवान्हरिः । 001a
विधिप्रयुक्तां पूजां च गृह्णाति शिरसा स्वयम् ॥ 001c
ये तु दग्धेन्धना लोके पुण्यपापविवर्जिताः । 002a
तेषां च या हि निर्दिष्टा पारम्पर्यागता गतिः ॥ 002c
चतुर्थ्यां चैव ते गत्यां गच्छन्ति पुरुषोत्तमम् । 003a
एकान्तिनस्तु पुरुषा गच्छन्ति परमं पदम् ॥ 003c
नूनमेकान्तधर्मोऽयं श्रेष्ठो नारायणप्रियः । 004a
अगत्वा गतयतिस्रो यद्गच्छत्यव्ययं हरिम् ॥ 004c
सहोपनिषदान्वेदान्ये विप्राः सम्यगास्थिताः । 005a
पठन्ति विधिमास्थाय ये चापि यतिधर्मिणः ॥ 005c
तेभ्यो विशिष्टां जानामि गतिमेकान्तिनां नृणाम् । 006a
केनैष धर्मः कथितो देवेन ऋषिणाऽपि वा ॥ 006c
एकान्तिनां च का चर्या कदा चोत्पादिता विभो । 007a
एतन्मे संशयं छिन्धि परं कौतूहलं हि मे ॥ 007c
वैशम्पायन उवाच 008
समुपोढेष्वनीकेषु कुरुपाण्डवयोर्मृधे । 008a
अर्जुने विमनस्के च गीता भगवता स्वयम् ॥ 008c
आगतिश्च गतिश्चैव पूर्वं ते कथिता मया । 009a
गहनो ह्येष धर्मो वै दुर्विज्ञेयोऽकृतात्मभिः ॥ 009c
सम्मितः सामवेदेन पुरैवादियुगे कृतः । 010a
धार्यते स्वयमीशेन राजन्नारायणेन ह ॥ 010c
एतदर्थं महाराज पृष्टः पार्थेन नारदः । 011a
ऋषिमध्ये महाभागः शृण्वतोः कृष्णभीष्मयोः ॥ 011c
गुरुणा च मयाऽप्येव कथितो नृपसत्तम । 012a
यथा तत्कथितं तत्र नारदेन तथा शृणु ॥ 012c
यदाऽऽसीन्मानजं जन्म नारायणमुखोद्गतम् । 013a
ब्रह्मणः पृथिवीपाल तदा नारायणः स्वयम् ॥ 013c
तेन धर्मेण कृतवान्दैवं पित्र्यं च भारत । 014a
फेनपा ऋषयश्चैव तं धर्मं प्रतिपेदिरे ॥ 014c
वैखानसाः फेनपेभ्यो धर्मं तं प्रतिपदिरे । 015a
वैखानसेभ्यः सोमस्तु ततः सोऽन्तर्दधे पुनः ॥ 015c
यदाऽऽसीच्चाक्षुषं जन्म द्वितीयं ब्रह्मणो नृप । 016a
यदा पितामहेनैव सोमाद्धर्मः परिश्रुतः ॥ 016c
नारायणात्मको राजन्रुद्राय प्रददौ च तम् । 017a
ततो योगस्थितो रुद्रः पुरा कृतयुगे नृप ॥ 017c
वालखिल्यानृषीन्सर्वान्धर्ममेनमपाठयत् । 018a
अन्तर्दधे ततो भूयस्तस्य देवस्य मायया ॥ 018c
तृतीयं ब्रह्मणो जन्म यदासीद्वाचिकं महत् । 019a
तत्रैष धर्मः सम्भूतः स्वयं नारायणान्नृप ॥ 019c
सुपर्णो नाम तमृषिः प्राप्तवान्पुरुषोत्तमात् । 020a
तपसा वै सुतप्तेन दमेन नियमेन च ॥ 020c
त्रिः परिक्रान्तवानेतत्सुपर्णो धर्ममुत्तमम् । 021a
यस्मात्तस्माद्व्रतं ह्येतत्त्रिसौपर्णमिहोच्येत ॥ 021c
ऋग्वेदपाठपठितं व्रतमेतद्धि दुश्चरम् । 022a
सुपर्णाच्चाप्यधिगतो धर्म एष सनातनः ॥ 022c
वायुना द्विपदांश्रेष्ठ प्रथितो जगदायुषा । 023a
वायोः सकाशात्प्राप्तश्च ऋषिभिर्विघसाशिभिः ॥ 023c
तेभ्यो महोदधिश्चैव प्राप्तवान्धर्ममुत्तमम् । 024a
अन्तर्दधे ततो भूयो नारायणसमाहृतः ॥ 024c
यदा भूयः श्रवणजा सृष्टिरासीन्महात्मनः । 025a
ब्रह्मणः पुरुषव्याघ्र तत्र कीर्तयतः शृणु ॥ 025c
जगत्स्रष्टुमना देवो हरिर्नारायणः स्वयम् । 026a
चिन्तयामास पुरुषं जगत्सर्गकरं प्रभुम् ॥ 026c
अथ चिन्तयतस्तस्य कर्णाभ्यां पुरुषः स्मृतः । 027a
प्रजासर्गकरो ब्रह्मा तमुवाच जगत्पतिः ॥ 027c
सृज प्रजाः पुत्र सर्वा मुखतः पादतस्तथा । 028a
श्रेयस्तव विधास्यामि बलं तेजश्च सुव्रत ॥ 028c
धर्मं च मत्तो गृह्णीष्व सात्वतं नाम नामतः । 029a
तेन सृष्टं कृतयुगं स्थापयस्व यथाविधि ॥ 029c
ततो ब्रह्मा नमश्चक्रे देवाय हरिमेधसे । 030a
धर्मं चाग्र्यं स जग्राह सरहस्यं ससङ्ग्रहम् ॥ 030c
आरण्यकेन सहितं नारायणमुखोद्गतम् । 031a
उपदिश्य ततो धर्मं ब्रह्मणेऽमिततेजसे ॥ 031c
तं कार्तयुगधर्माणं निराशीः कर्मसञ्ज्ञितम् । 032a
जगाम तमसः पारं यत्राव्यक्तं व्यवस्थितम् ॥ 032c
ततोऽथ वरदो देवो ब्रह्मा लोकपितामहः । 033a
असृजत्स ततो लोकान्कृत्स्नान्स्थावरजङ्गमान् ॥ 033c
ततः प्रावर्तत तदा आदौ कृतयुगं शुभम् । 034a
ततो हि सात्वतो धर्मो व्याप्य लोकानवस्थितः ॥ 034c
तेनैवाद्येन धर्मेण ब्रह्मा लोकविसर्गकृत् । 035a
पूजयामास देवेशं हरिं नारायणं प्रभुम् ॥ 035c
धर्मप्रतिष्ठाहेतोश्च मनुं स्वारोचिषं ततः । 036a
अध्यापयामास तदा लोकानां हितकाम्यया ॥ 036c
ततः स्वारोचिषः पुत्रं स्वयं शङ्खपदं नृप । 037a
अध्यापयत्पुराऽव्यग्रः सर्वलोकपतिर्विभुः ॥ 037c
ततः शङ्खपदश्चापि पुत्रमात्मजमौरसम् । 038a
दिशापालं सुधर्माणमध्यापयत भारत । 038c
सोऽन्तर्दधे ततो भूयः प्राप्ते त्रेतायुगे पुनः ॥ 038e
नासत्ये जन्मनि पुरा ब्रह्मणः पार्थिवोत्तम । 039a
धर्ममेतं स्वयं देवो हरिर्नारायणः प्रभुः ॥ 039c
तज्जगादारविन्दाक्षो ब्रह्मणः पश्यतस्तदा । 040a
सनत्कुमारो भगवांस्ततः प्राधीतवान्नृप ॥ 040c
सनत्कुमारादपि च वीरणो वै प्रजापतिः । 041a
कृतादौ कुरुशार्दूल धर्ममेतदधीतवान् ॥ 041c
वीरणश्चाप्यधीत्यैनं रैभ्याय मुनये ददौ । 042a
रैभ्यः पुत्राय शुद्धाय सुव्रताय सुमेधसे ॥ 042c
कुक्षिपालाय च ददौ विशालाय च धर्मिणे । 043a
ततोऽप्यन्तर्दधे भूयो नारायणमुखोद्गतः ॥ 043c
अण्डजे जन्मनि पुनर्ब्रह्मणे हरियोनये । 044a
एष धर्मः समुद्भूतो नारायणमुखात्पुनः ॥ 044c
गृहीतो ब्रह्मणा राजन्प्रयुक्तश्च यथाविधि । 045a
अध्यापिताश्च मुनयो नाम्ना बर्हिषदो नृप ॥ 045c
बर्हिषद्भ्यश्च सम्प्राप्तः सामवेदान्तगं द्विजम् । 046a
ज्येष्ठं नामाभिविख्यातं ज्येष्ठसामव्रतो हरिः ॥ 046c
ज्येष्ठाच्चाप्यनुसङ्क्रान्तो राजानमविकम्पनम् । 047a
अन्तर्दधे ततो राजन्नेष धर्मः प्रभो हरेः ॥ 047c
यदिदं सप्तमं जन्म पद्मजं ब्रह्मणो नृप । 048a
तत्रैष धर्मः कथितः स्वयं नारायणेन ह ॥ 048c
पितामहाय शुद्धाय युगादौ लोकधारिणे । 049a
पितामहश्च दक्षाय धर्ममेतं पुरा ददौ ॥ 049c
ततो ज्येष्ठे तु दौहित्रे प्रादाद्दक्षो नृपोत्तम । 050a
आदित्ये सवितुर्ज्येष्ठे विवस्वाञ्जगृहे ततः ॥ 050c
त्रेतायुगादौ च ततो विवस्वान्मनवे ददौ । 051a
मनुश्च लोकभूत्यर्थं सुतायेक्ष्वाकवे ददौ ॥ 051c
इक्ष्वाकुणा च कथितो व्याप्य लोकानवस्थितः । 052a
गमिष्यति क्षयान्ते च पुनर्नारायणं नृप ॥ 052c
यतीनां चापि यो धर्मः स ते पूर्वं नृपोत्तम । 053a
कथितो हरिगीतासु समासविधिकल्पितः ॥ 053c
नारदेन सुसम्प्राप्तः सरहस्यः ससङ्ग्रहः । 054a
एष धर्मो जगन्नाथात्साक्षान्नारायणान्नृप ॥ 054c
एवमेव महान्धर्म आद्यो राजन्सनातनः । 055a
दुर्विज्ञेयो दुष्करश्च सात्वतैर्धार्यते सदा ॥ 055c
धर्मज्ञानेन चैतेन सुप्रयुक्तेन कर्मणा । 056a
अहिंसाधर्मयुक्तेन प्रीयते हरिरीश्वरः ॥ 056c
एकव्यूहविभागो वा क्वचिद्द्विव्यूहसञ्ज्ञितः । 057a
त्रिव्यूहश्चापि सङ्ख्यातश्चतुर्व्यूहश्च दृश्यते ॥ 057c
हरिरेव हि क्षेत्रज्ञो निर्ममो निष्कलस्तथा । 058a
जीवश्च सर्वभूतेषु पञ्चभूतगुणातिगः ॥ 058c
मनश्च प्रथितं राजन्पञ्चेन्द्रियसमीरणम् । 059a
एष लोकनिधिः श्रीमानेष लोकविसर्गकृत् ॥ 059c
अकर्ता चैव कर्ता च कार्यं कारणमेव च । 060a
यथेच्छति तथा राजन्क्रीडते पुरुषोऽव्ययः ॥ 060c
एष एकान्तिधर्मस्ते कीर्तितो नृपसत्तम । 061a
मया गुरुप्रसादेन दुर्विज्ञेयोऽकृतात्मभिः ॥ 061c
एकान्तिनो हि पुरुषा दुर्लभा बहवो नृप । 062a
यद्येकान्तिभिराकीर्णं जगत्स्यात्कुरुनन्दनः ॥ 062c
अहिंसकैरात्मविद्भिः सर्वभूतहिते रतैः । 063a
भवेत्कृतयुगप्राप्तिराशीःकर्मविवर्जिता ॥ 063c
एवं स भगवान्व्यासो गुरुर्मम विशाम्पते । 064a
कथयामास धर्मज्ञो धर्मराजे द्विजोत्तमः ॥ 064c
ऋषीणां सन्निधौ राजञ्शृण्वतोः कृष्णभीष्मयोः । 065a
तस्याप्यकथयत्पूर्वं नारदः सुमहातपाः ॥ 065c
देवं परमकं ब्रह्म श्वेतं चन्द्राभमच्युतम् । 066a
यत्र चैकान्तिनो यान्ति नारायणपरायणाः । 066c
'तदेव परमं स्थानं मुक्तानां केवलं भवेत् ॥' 066e
जनमेजय उवाच 067
एवं बहुविधं धर्मं प्रविबुद्धैर्निषेवितम् । 067a
न कुर्वन्ति कथं विप्रा अन्ये नानाव्रते स्थिताः ॥ 067c
वैशम्पायन उवाच 068
तिस्रः प्रकृतयो राजन्देहबन्धेषु निर्मिताः । 068a
सात्विकी राजसी चैव तामसी चैव भारत ॥ 068c
देहबन्धेषु पुरुषः श्रेष्ठः कुरुकुलोद्वह । 069a
सात्विकः पुरुषव्याघ्र भवेन्मोक्षाय निश्चितः ॥ 069c
अत्रापि स विजानाति पुरुषं ब्रह्मवित्तमम् । 070a
नारायणां परं मोक्षे ततो वै सात्विकः स्मृतः ॥ 070c
मनीषितं च प्राप्नोति चिन्तयन्पुरुषोत्तमम् । 071a
एकान्तभक्तः सततं नारायणपरायणः ॥ 071c
मनीषिणो हि ये केचिद्यतयो मोक्षधर्मिणः । 072a
तेषां विच्छिन्नतृष्णानां योगक्षेमवहो हरिः ॥ 072c
जायमानं हि पुरुषं यं पश्येन्मधुसूदनः । 073a
सात्विकस्तु स विज्ञेयो भवेन्मोक्षे च निश्चितः ॥ 073c
साङ्ख्ययोगेन तुल्यो हि धर्म एकान्तिसेवितः । 074a
नारायणात्मके मोक्षे ततो यान्ति परां गतिम् ॥ 074c
नारायणेन दृष्टस्तु प्रतिबुद्धो भवेत्पुमान् । 075a
एवमात्मेच्छया राजन्प्रतिबुद्धो न जायते ॥ 075c
राजसी तामसी चैव व्यामिश्रे प्रकृती स्मृते । 076a
तदात्मकं हि पुरुषं जायमानं विशाम्पते । 076c
प्रवृत्तिलक्षणैर्युक्तं नावेक्षति हरिः स्वयम् ॥ 076e
पश्यत्येनं जायमानं ब्रह्मा लोकपितामहः । 077a
रजसा तपसा चैव मानसं समभिप्लुतम् ॥ 077c
कामं देवाश्च ऋषयः सत्वस्था नृपसत्तम । 078a
हीनाः सत्वेन सूक्ष्मेण ततो वैकारिकाः स्मृताः ॥ 078c
जनमेजय उवाच 079
कथं वैकारिको गच्छेत्पुरुषः पुरुषोत्तमम् । 079a
वद सर्वं यथादृष्टं प्रवृत्तिं च यथाक्रमम् ॥ 079c
वैशम्पायन उवाच 080
सुसूक्ष्मं तत्त्वसंयुक्तं संयुक्तं त्रिभिरक्षरैः । 080a
पुरुषः पुरुषं गच्छेन्निष्क्रियं पञ्चविंशकम् ॥ 080c
एवमेकं साङ्ख्ययोगं वेदारण्यकमेव च । 081a
परस्पराङ्गान्येतानि पाञ्चरात्रं च कथ्यते ॥ 081c
एष एकान्तिनां धर्मो नारायणपरात्मकः ॥ 082ac
यथा समुद्रात्प्रसृता जलौघास्तमेव राजन्पुनराविशन्ति । 083a
इमे तथा ज्ञानमहाजलौघा नारायणं वै पुनराविशन्ति ॥ 083c
एष ते कथितो धर्मः सात्वतो यदुबान्धव । 084a
कुरुष्वैनं यथान्यायं यदि शक्तोसि भारत ॥ 084c
एवं हि स महाभागो नारदो गुरवे मम । 085a
श्वेतानां यतिनां चाह एकान्तगतिमव्ययाम् ॥ 085c
व्यासश्चाकथयत्प्रीत्या धर्मपुत्राय धीमते । 086a
स एवायं मया तुभ्यमाख्यातः प्रसृतो गुरोः ॥ 086c
इत्थं हि दुश्चरो धर्म एष पार्थिवसत्तम । 087a
यथैव त्वं तथैवान्ये न भजन्ति च मोहिताः ॥ 087c
कृष्ण एव हि लोकानां भावनो मोहनस्तथा । 088a
संहारकारकश्चैव कारणं च विशाम्पते ॥ 088c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये अष्टपञ्चाशदधिकत्रिशततमोऽध्यायः ॥ 358 ॥

12-358-2 दग्धेन्धनाः नष्टवासनाः । पारम्पर्यागता गुरुसम्प्रदायागतागतिर्ज्ञानम् ॥ 12-358-23 प्रथितो गदता पुरेति थ. पाठः ॥ 12-358-25 यदा भूयस्तमश्चास्य बुद्धिरासीन्महात्मनः इति ट. पाठः ॥ 12-358-26 जगत्सर्गकरः प्रभुरिति थ. ध. पाठः ॥ 12-358-31 नासिक्ये जन्मनीति थ. ध. पाठः ॥ 12-358-42 रौच्याय मनवे ददाविति थ. ध. पाठः । सुव्रताय सुधन्वन इति ट. ध. पाठः ॥ 12-358-44 ब्रह्मणो हरिमेधस इति ट. ध. पाठः ॥ 12-358-49 युगादौ लोकसाक्षिणे इति ट. पाठः ॥ 12-358-58 निर्मलो निष्कलस्तथेति ट. पाठः ॥ 12-358-59 अतश्च प्रथितो राजन्पञ्चेन्द्रियसमीरित इति थ. ध. पाठः ॥ 12-358-63 कृतयुगप्राप्तिरीदृशैः कर्मवर्जितैरिति ट. ध. पाठः । आशीःकर्म काम्यङ्कर्म ॥ 12-358-70 नारायणपरो मोक्ष इति झ. ट. पाठः ॥ 12-358-72 यतयो मोक्षकाङ्क्षिण इति ट. ध. पाठः ॥ 12-358-77 एनं राजसं ब्रह्मा पश्यति प्रवृत्तिमर्गे नियोजयतीत्यर्थः । ब्रह्मा रुद्रोऽथवा पुनरिति थ. ध. पाठः ॥ 12-358-81 परस्परान्यान्येतानीति ट. पाठः ॥ 12-358-87 धर्मः पुण्यः पार्थिवसत्तमेति थ. पाठः ॥ 12-358-88 संसारकारकश्चैवेति ध. पाठः ॥