अध्यायः 357
श्रीनारायणेन स्वनाभिपद्मे ब्रह्मणः सर्जनम् ॥ 1 ॥ ततो मधुकैटभयोरुत्पादनम् ॥ 2 ॥ ताभ्यां ब्रह्मणो वेदापहरणम् ॥ 3 ॥ हयशिरोरूपिणा हरिणा ब्रह्मणे पुनर्वेदप्रत्यर्पणपूर्वकं मधुकैटभसंहरणम् ॥ 4 ॥ वैशम्पायनेन जनमेजयाय श्रीनारायणमहिमानुवर्णनम् ॥ 5 ॥
शौनक उवाच 001
श्रुतं भगवतस्तस्य माहात्म्यं परमात्मनः । 001a
जन्मधर्मगृहे चैव नरनारायणात्मकम् ॥ 001c
महावराहसृष्टा च पिण्डोत्पत्तिः पुरातनी । 002a
प्रवृत्तौ च निवृत्तौ च यो यथा परिकल्पितः ॥ 002c
तथा स नः श्रुतो ब्रह्मन्कथ्यमानस्त्वयाऽनघ । 003a
हव्यकव्यभुजो विष्णुरुदक्पूर्वे महोदधौ ॥ 003c
यच्च तत्कथितं पूर्वं त्वया हयशिरो महत् । 004a
तच्च दृष्टं भगवता ब्रह्मणा परमेष्ठिना ॥ 004c
किं तदुत्पादितं पूर्वं हरिणा लोकधारिणा । 005a
रूपं प्रभावं महतामपूर्वं धीमतांवर ॥ 005c
दृष्ट्वा हि विबुधश्रेष्ठमपूर्वममितौजसम् । 006a
तदश्वशिरसं पुण्यं ब्रह्मा किमकरोन्मुने ॥ 006c
एतन्नः संशयं ब्रह्मन्पुराणं ब्रह्मसम्भवम् । 007a
कथयस्वोत्तममते महापुरुषसंश्रितम् । 007c
पाविताः स्म त्वया ब्रह्मन्पुण्याः कथय ताः कथाः ॥ 007e
सौतिरुवाच 008
कथयिष्यामि ते सर्वं पुराणं वेदसम्मितम् । 008a
जगौ यद्भगवान्व्यासो राज्ञः पारिक्षितस्य वै ॥ 008c
श्रुत्वाऽश्वशिरसो मूर्तिं देवस्य हरिमेधसः । 009a
उत्पन्नसंशयो राजा एतदेवमचोदयत् ॥ 009c
जनमेजय उवाच 010
यत्तद्दर्शितवान्ब्राह्म देवं हयशिरोधरम् । 010a
किमर्थं तत्समभवद्वपुर्देवोपकल्पितम् ॥ 010c
वैशम्पायन उवाच 011
यत्किञ्चिदिह लोके वै देहबद्धं विशाम्पते । 011a
सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः ॥ 011c
ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणो विराट् । 012a
भूतान्तरात्मा वरदः सगुणो निर्गुणोपि च ॥ 012c
भूतप्रलयमव्यक्तं शृणुष्व नृपसत्तम ॥ 013ac
धरण्यामथ लीनायामप्सु चैकार्णवे पुरा । 014a
ज्योतिर्भूते जले चापि लीने ज्योतिषि चानिले ॥ 014c
वायौ चाकाशसंलीने आकाशे च मनोनुगे । 015a
व्यक्ते मनसि संलीने व्यक्ते चाव्यक्ततां गते ॥ 015c
अव्यक्ते पुरुषं याते पुंसि सर्वगतेऽपि च । 016a
तम एवाभवत्सर्वं न प्राज्ञायत किञ्चन ॥ 016c
तमसो ब्रह्मसम्भूतं तमोमूलमृतात्मकम् । 017a
तद्विश्वभावसञ्ज्ञान्तं पौरुषीं तनुमाश्रितम् ॥ 017c
सोऽनिरुद्ध इति प्रोक्तस्तत्प्रधानं प्रचक्षते । 018a
तदव्यक्तमिति ज्ञेयं त्रिगुणं नृपसत्तम ॥ 018c
विद्यासहायवान्देवो विष्वक्सेनो हरिः प्रभुः । 019a
'आदिकर्ता स भूतानामप्रमेयो हरिः प्रभुः ॥ 019c
अप्स्वेव शयनं चक्रे निद्रायोगमुपागतः । 020a
जगतश्चिन्तयन्सृष्टिं चित्रां बहुगुणोद्भवाम् ॥ 020c
तस्य चिन्तयतः सृष्टिं महानात्मगुणः स्मृतः । 021a
अहङ्कारस्ततो जातो ब्रह्मा शुभचतुर्मुखः । 021c
हिरण्यगर्भो भगवान्सर्वलोकपितामहः ॥ 021e
पद्मेऽनिरुद्धात्सम्भूतस्तदा पद्मनिभेक्षणः । 022a
सहस्रपत्रे द्युतिमानुपविष्टः सनातनः ॥ 022c
ददृशेऽद्भुतसङ्काशो लोकानाप्याययन्प्रभुः । 023a
सत्वस्थः परमेष्ठी स ततो भूतगणान्सृजन् ॥ 023c
पूर्वमेव च पद्मस्य पत्रे सूर्यांशुसप्रभे । 024a
नारायणकृतौ बिन्दू अपामास्तां गुणोत्तरौ ॥ 024c
तावपश्यत्स भगवाननादिनिधनोऽच्युतः । 025a
एकस्तत्राभवद्बिन्दुर्मध्वाभो रुचिरप्रभः ॥ 025c
स तामसो मधुर्जातस्तदा नारायणाज्ञया । 026a
कठिनस्त्वपरो बिन्दुः कैटभो राजसस्तु सः ॥ 026c
तावभ्यधातवां श्रेष्ठौ तमोरजगुणान्वितौ । 027a
बलवन्तौ गदाहस्तौ पद्मनालानुसारिणौ ॥ 027c
ददृशातेऽरविन्दस्थं ब्रह्माणममितप्रभवम् । 028a
सृजन्तं प्रथमं वेदांश्चतुरश्चारुविग्रहान् ॥ 028c
ततो विग्रहवन्तस्तान्वेदान्दृष्ट्वाऽसुरोत्तमौ । 029a
सहसा जगृहतुर्वेदान्ब्रह्मणः पश्यतस्तदा ॥ 029c
अथ तौ दानवश्रेष्ठौ वेदान्गृह्य सनातनान् । 030a
रसां विविशतुस्तूर्णमुदक्पूर्वे महोदधौ ॥ 030c
ततो हृतेषु देवेषु ब्रह्मा कश्मलमाविशत् । 031a
ततो वचनमीशानं प्राह वेदैर्विनाकृतः ॥ 031c
ब्रह्मोवाच 032
वेदा मे परमं चक्षुर्वेदा मे परमं बलम् । 032a
वेदा मे परमं धाम वेदा मे ब्रह्म चोत्तरम् ॥ 032c
मम वेदा हृताः सर्वे दानवाभ्यां बलादितः । 033a
अन्धकारा हि मे लोका जाता वेदैर्विना कृताः ॥ 033c
वेदानृते हि किं कुर्यां लोकानां सृष्टिमुत्तमाम् । 034a
अहो बत महद्दुःखं वेदनाशनजं मम ॥ 034c
प्राप्तं दुनोति हृदयं तीव्रं शोकपरायणम् । 035a
को हि शोकार्णवे मग्नं मामितोऽद्य समुद्धरेत् ॥ 035c
वेदांस्तांश्चानयेन्नष्टान्कस्य चाहं प्रियो भवे । 036a
इत्येवं भाषमाणस्य ब्रह्मणो नृपसत्तम ॥ 036c
हरेः स्तोत्रार्थमुद्भूता बुद्धिर्बुद्धिमतां वर । 037a
ततो जगौ परं जप्यं साञ्जलिप्रग्रहः प्रभुः ॥ 037c
ब्रह्मोवाच 038
ॐ नमस्ते ब्रह्महृदय नमस्ते मम पूर्वज । 038a
लोकाद्यभुवनश्रेष्ठ साङ्ख्ययोगनिधे प्रभो ॥ 038c
व्यक्ताव्यक्तकराचिन्त्य क्षेमं पन्थानमास्थितः । 039a
विश्वभुक्सर्वभूतानामन्तरात्मन्नयोनिज । 039c
अहं प्रसादजस्तुभ्यं लोकधाम स्वयम्भुवः ॥ 039e
त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम् । 040a
चाक्षुषं वै द्वितीयं मे जन्म चासीत्पुरातनम् ॥ 040c
त्वत्प्रसादात्तु मे जन्म तृतीयं वाचिकं महत् । 041a
त्वत्तः श्रवणजं चापि चतुर्थं जन्म मे विभो ॥ 041c
नासत्यं चापि मे जन्म त्वत्तः पञ्चममुच्यते । 042a
अण्डजं चापि मे जन्म त्वत्तः षष्ठं विनिर्मितम् ॥ 042c
इदं च सप्तमं जन्म पद्मजन्मेति वै प्रभो । 043a
सर्गेसर्गे ह्यहं पुत्रस्तव त्रिगुणवर्जित ॥ 043c
प्रथमः पुण्डरीकाक्षः प्रधानगुणकल्पितः । 044a
त्वमीश्वरः स्वभावश्च भूतानां त्वं प्रभावन ॥ 044c
त्वया विनिर्मितोऽहं वै वेदचक्षुर्वयोतिग । 045a
ते मे वेदा हृताश्चक्षुरन्धो जातोस्मि जागृहि । 045c
ददस्व चक्षूंषि मम प्रियोऽहं ते प्रियोसि मे ॥ 045e
एवं स्तुतः स भगवान्पुरुषः सर्वतोमुखः । 046a
जहौ निद्रामथ तदा वेदकार्यार्थमुद्यतः ॥ 046c
ऐश्वर्येण प्रयोगेण द्वितीयां तनुमास्थितः । 047a
सुनासिकेन कायेन भूत्वा चन्द्रप्रभस्तदा । 047c
कृत्वा हयशिरः शुभ्रं वेदानामालयं प्रभुः ॥ 047e
तस्य मूर्धा समभवद्द्यौः सनक्षत्रतारका । 048a
केशाश्चास्याभवन्दीर्घा रवेरंशुसमप्रभाः ॥ 048c
कर्णावाकाशपाताले ललाटं भूतधारिणी । 049a
गङ्गासरस्वती पुण्ये भ्रुवावास्तां महाद्युती ॥ 049c
चक्षुषी सोमसूर्यौं ते नासा सन्ध्या पुनः स्मृता । 050a
ॐकारस्त्वथ संस्कारो विद्युज्जिह्वा च निर्मिता ॥ 050c
दन्ताश्च पितरो राजन्सोमपा इति विश्रुताः । 051a
गोलोको ब्रह्मलोकश्च ओष्ठावास्तां महात्मनः । 051c
ग्रीवा चास्याभवद्राजन्कालरात्रिर्गुणोत्तरा ॥ 051e
एतद्धयशिरः कृत्वा नानामूर्तिभिरावृतम् । 052a
अन्तर्दधौ स विश्वेशो विवेश च रसां प्रभुः ॥ 052c
रसां पुनः प्रविष्टश्च योगं परममास्थितः । 053a
शैक्ष्यं स्वरं समास्थाय उद्गीतं प्रासृजत्स्वरम् ॥ 053c
सस्वरः सानुनादी च सर्वशः स्निग्ध एव च । 054a
बभूवान्तर्जलगतः सर्वभूतगुणोदितः ॥ 054c
ततस्तावसुरौ कृत्वा वेदान्समयबन्धनान् । 055a
रसातले विनिक्षिप्य यतः शब्दस्ततो द्रुतौ ॥ 055c
एतस्मिन्नन्तरे राजन्देवो हयशिरोधरः । 056a
जग्राह वेदानखिलान्रसातलगतान्हरिः ॥ 056c
प्रादाच्च ब्रह्मणे भूयस्ततः स्वां प्रकृतिं गतः ॥ 057ac
स्थापयित्वा हयशिरा उदक्पूर्वे महोदधौ । 058a
वेदानामालयश्चापि बभूवाश्वशिरास्ततः ॥ 058c
अथ किञ्चिदपश्यन्तौ दानवौ मधुकैटभौ । 059a
यत्र देवा विनिक्षिप्तास्तत्स्थानं शून्यमेव च ॥ 059c
तत उत्तममास्थाय वेगं बलवतां वरौ । 060a
पुनरुत्तस्थतुः शीघ्रं रसानामालयात्तदा ॥ 060c
ददृशाते च पुरुषं तमेवादिकरं प्रभुम् । 061a
श्वेतं चन्द्रविशुद्धाभमनिरुद्धतनौ स्थितम् । 061c
भूयोप्यमितविक्रान्तं निद्रायोगमुपागतम् ॥ 061e
आत्मप्रमाणरचिते अपामुपरि कल्पिते । 062a
शयने नागभोगाढ्ये ज्वालामालासमावृते ॥ 062c
निष्कल्मषेण सत्वेन सम्पन्नं रुचिरप्रभम् । 063a
तं दृष्ट्वा दानवेन्द्रौ तौ महाहासममुञ्चताम् ॥ 063c
ऊचतुश्च समाविष्टौ रजसा तमसा च तौ । 064a
अयं स पुरुषः श्वेतः शेते निद्रामुपागतः ॥ 064c
अनेन नूनं वेदानां कृतमाहरणं रसात् । 065a
कस्यैष कोनु खल्वेष किञ्च स्वपिति भोगवान् । 065c
इच्युच्चारितवाक्यौ तौ बोधयामासतुर्हरिम् ॥ 065e
युद्धार्थिनौ हि विज्ञाय विबुद्धः पुरुषोत्तमः । 066a
निरीक्ष्य चासुरेन्द्रौ तौ ततो युद्धे मनोदधे ॥ 066c
अथ युद्धं समभवत्तयोर्नारायणस्य वै ॥ 067ac
रजस्तमोविष्टतनू तावुभौ मधुकैटभौ । 068a
ब्रह्मणोपचितिं कुर्वञ्जधान मधुसूदनः ॥ 068c
ततस्तयोर्वधेनाशु वेदापहरणेन च । 069a
शोकापनयनं चक्रे ब्रह्मणः पुरुषोत्तमः ॥ 069c
ततः परिवृतो ब्रह्मा हरिणा वेदसत्कृतः । 070a
निर्ममे स तदा लोकान्कृत्स्नान्स्थावरजङ्गमान् ॥ 070c
दत्त्वा पितामहायाग्र्यां मतिं लोकविसर्गिकीम् । 071a
तत्रैवान्तर्दधे देवो यत एवागतो हरिः ॥ 071c
तौ दानवौ हरिर्हत्वा कृत्वा हयशिरस्तनुम् । 072a
पुनः प्रवृत्तिधर्मार्थं तामेव विदधे तनुम् ॥ 072c
एवमेष महाभागो बभूवाश्वशिरा हरिः । 073a
पौराणमेतत्प्रख्यातं रूपं वरदमैश्वरम् ॥ 073c
यो ह्येतद्ब्राह्मणो नित्यं शृणुयाद्धारयीत वा । 074a
न तस्याध्ययनं नाशमुपगच्छेत्कदाचन ॥ 074c
आराध्य तपसोग्रेण देवं हयशिरोधरम् । 075a
पाञ्चालेन क्रमः प्राप्तो रामेण पथि देशिते ॥ 075c
एतद्धयशिरो राजन्नाख्यानं तव कीर्तितम् । 076a
पुराणं वेदसमितं यन्मां त्वं परिपृच्छसि ॥ 076c
यांयामिच्छेत्तनुं देवः कर्तुं कार्यविधौ क्वचित् । 077a
तातां कुर्याद्विकुर्वाणः स्वयमात्मानमात्मना ॥ 077c
एष वेदनिधिः श्रीमानेष वै तपसोनिधिः । 078a
एष योगश्च साङ्ख्यं च ब्रह्म चाग्र्यं हविर्विभुः ॥ 078c
नारायणपरा वेदा यज्ञा नारायणात्मकाः । 079a
तपो नारायणपरं नारायणपरा गतिः ॥ 079c
नारायणपरं सत्यमृतं नारायणात्मकम् । 080a
नारायणपरो धर्मः पुनरावृत्तिदुर्लभः ॥ 080c
प्रवृत्तिलक्षणश्चैव धर्मो नारायणात्मकः । 081a
नारायणात्मको गन्धो भूमौ श्रेष्ठतमः स्मृतः ॥ 081c
अपां चापि गुणा राजन्रसा नारायणात्मकाः । 082a
ज्योतिषां च परं रूपं स्मृतं नारायणात्मकम् ॥ 082c
नारायणात्मकश्चापि स्पर्शो वायुगुणः स्मृतः । 083a
नारायणात्मकश्चैव शब्द आकाशसम्भवः ॥ 083c
मनश्चापि ततो भूतमव्यक्तगुणलक्षणम् । 084a
नारायणपरं कालो ज्योतिषामयनं च यत् ॥ 084c
नारायणपरा कीर्तिः श्रीश्च लक्ष्णीश्च देवताः । 085a
नारायणपरं साङ्ख्यं योगो नारायणात्मकः ॥ 085c
कारणं पुरुषो ह्येषां प्रधानं चापि कारणम् । 086a
स्वभावश्चैव कर्माणि दैवं येषां च कारणम् ॥ 086c
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । 087a
विविधा च तथा चेष्टा दैवं चैवात्र पञ्चमम् ॥ 087c
पञ्चकारणसङ्ख्यातो निष्ठा सर्वत्र वै हरिः । 088a
तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतोमुखैः ॥ 088c
तत्त्वमेको महायोगी हनिर्नारायणः प्रभुः । 089a
ब्रह्मादीनां सलोकानामृषीणां च महात्मनाम् ॥ 089c
साङ्ख्यानां योगिनां चापि यतीनामात्मवेदिनाम् । 090a
मनीषितं विजानाति केशवो न तु तस्य ते ॥ 090c
ये केचित्सर्वलोकेषु दैवं पित्र्यं च कुर्वते । 091a
दानानि च प्रयच्छन्ति तप्यन्ते च तपो महत् ॥ 091c
सर्वेषामाश्रयो विष्णुरैश्वरं विधिमास्थितः । 092a
सर्वभूतकृतावासो वासुदेवेति चोच्यते ॥ 092c
अयं हि नित्यः परमो महर्षिर्महाविभूतिर्गुणवान्गुणाख्यः । 093a
गुणैश्च संयोगमुपैति शीघ्रं कालो यथर्तावृतुसम्प्रयुक्तः ॥ 093c
नैवास्य विन्दन्ति गतिं महात्मनो न चागतिं कश्चिदिहानुपश्यति । 094a
ज्ञानात्मकाः संयमिनो महर्षयः पश्यन्ति नित्यं पुरुषं गुणाधिकम् ॥ 094c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये सप्तपञ्चाशदधिकत्रिशततमोऽध्यायः ॥ 357 ॥
12-357-3 हव्यकव्यभुजः । मूलविभुजादित्वात्कः । अकारान्तः शब्दः । उदक्पूर्वे ऐशानकोणे । महोदधौ तत्समीपे । इदमुत्तरान्वयि ॥ 12-357-5 अपूर्वं प्रागदृष्टम् ॥ 12-357-6 अपूर्वम् अद्भुतम् ॥ 12-357-10 तत् अश्वशिरोरूपम् ॥ 12-357-11 ईश्वरबुद्धिजैः ईश्वरसङ्कल्पमात्रजैः ॥ 12-357-23 लोकनाथो महान्प्रभुरिति ट. पाठः ॥ 12-357-38 लोकाद्यनिधनश्रेष्ठेति ट. पाठः ॥ 12-357-46 देवकार्यार्थमुद्यत इति ट. ध. पाठः ॥ 12-357-53 ओमिति प्रासृजत्स्वरमिति थ. ध. पाठः ॥ 12-357-74 शृणुयाच्छ्रावयेत वेति थ. ध. पाठः ॥ 12-357-90 केशवो ननु वै गतिरिति ट. पाठः ॥ 12-357-93 गुणवान्निर्गुणाख्य इति थ. पाठः ॥ 12-357-94 पुरुषं गुणातिगमिति ट. पाठः ॥