अध्यायः 356

नरनारायणानुज्ञानेन नारदेन स्वाश्रमम् प्रति गमनम् ॥ 1 ॥ वैशम्पायनेन जनमेजयम् प्रति श्रीव्यासमाहात्म्यकथनम् ॥ 2 ॥ सौतिना श्रीनारायणगुणवर्णनपूर्वकं शौनकादिभ्यस्तदनुग्रहाशंसनम् ॥ 3 ॥ वैशम्पायन उवाच 001
श्रुत्वैतन्नारदो वाक्यं नरनारायणेरितम् । 001a
अत्यन्तं भक्तिमान्देवे एकान्तित्वमुपेयिवान् ॥ 001c
उषित्वा वर्षसाहस्रं नरनारायणाश्रमे । 002a
श्रुत्वा भगवदाख्यानं दृष्ट्वा च हरिमव्ययम् । 002c
जगाम हिमवत्कुक्षावाश्रमं स्वं सुरार्चितम् ॥ 002e
तावपि ख्यातयशसौ नरनारायणावृषी । 003a
तस्मिन्नेवाश्रमे रम्ये तेपतुस्तप सत्तमम् ॥ 003c
त्वमप्यमितविक्रान्तः पाण्डवानां कुलोद्वहः । 004a
पावितात्माऽद्य संवृत्तः श्रुत्वेमामादितः कथाम् ॥ 004c
नैव तस्यापरो लोको नायं पार्थिवसत्तम । 005a
कर्मणा मनसा वाचा यो द्विष्याद्विष्णुमव्ययम् ॥ 005c
मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः । 006a
यो द्विष्याद्विबुधश्रेष्ठं देवं नारायणं हरिम् ॥ 006c
कथं नाम भवेद्द्वेष्य आत्मा लोकस्य कस्यचित् । 007a
आत्मा हि पुरुषव्याघ्र ज्ञेयो विष्णुरिति श्रुतिः ॥ 007c
य एष गुरुरस्माकमृषिर्गन्धवतीसुतः । 008a
तेनैतत्कथितं तात माहात्म्यं परमात्मनः । 008c
तस्माच्छ्रुतं मया चेदं कथितं च तवानघ ॥ 008e
नारदेन तु सम्प्राप्तः सरहस्यः ससङ्ग्रहः । 009a
एष धर्मो जगन्नाथात्साक्षान्नारायणान्नृप ॥ 009c
एवमेष महान्धर्मः स ते पूर्वं नृपोत्तम । 010a
कथितो हरिगीतासु समासविधिकल्पितः ॥ 010c
कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् । 011a
को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत् । 011c
धर्मान्नानाविधांश्चैव को ब्रूयात्तमृते प्रभुम् ॥ 011e
वर्ततां ते महायज्ञो यथासङ्कल्पितस्त्वया । 012a
सङ्कल्पिताश्वमेधस्त्वं श्रुतधर्मा च तत्त्वतः ॥ 012c
सौतिरुवाच 013
एतत्तु महदाख्यानं श्रुत्वा पारीक्षितो नृपः । 013a
ततो यज्ञसमाप्त्यर्थं क्रियाः सर्वाः समारभत् ॥ 013c
नारायणीयमाख्यानमेतत्ते कथितं मया । 014a
पृष्टेन शौनकाद्येह नैमिषारण्यवासिषु ॥ 014c
नारदेन पुरा यद्वै गुरवे तु निवेदितम् । 015a
ऋषीणां पाण्डवानां च शृण्वतोः कृष्णभीष्मयोः ॥ 015c
स हि परमर्षिर्जनभुवनपतिः पृथुधरणिधरः श्रुतिविनयपरः । 016a
शमनियमनिधिर्यमनियमपरो द्विजवर सहितस्तव च भवतु गतिर्हरिरमरहितः ॥ 016c
असुरवधकरस्तपसान्निधिः सुमहतां यशसां च भाजनम् । 017a
एकान्तिनां शरणदोऽभयदो गतिदो गतिदोस्तु वः सुखभागकरः । 017c
मधुकैटभहा कृतधर्मविदां गतिदो भयदो मखभागहरोस्तु शरणं स ते ॥ 017e
त्रिगुणो विगुणश्चतुरात्मधरः पूर्तेष्टयोश्च फलभागहरः । 018a
विदधातु नित्यमजितोऽतिचलो गतिरात्मवतां सुकृतिनामृषीणाम् ॥ 018c
तं लोकसाक्षिणमजं पुरुषं पुराणं रविवर्णमीश्वरं गतिं बहुशः । 019a
प्रणमध्वमेकमतयो यतः सलिलोद्भवोपि तमृषिं प्रणतः ॥ 019c
स हि लोकयोनिरसृतस्य पदं सूक्ष्मं परायणमचलं हि पदम् । 020a
तत्साङ्ख्ययोगिभिरुदाहृतं तं बुद्ध्या यतात्मभिरिदं सनातनम् ॥ 020c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये षट्पञ्चाशदधिकत्रिशततमोऽध्यायः ॥ 356 ॥

12-356-15 गुरवे बृहस्पतये ॥ 12-356-16 स नारायणः ॥ 12-356-17 कृतधर्मः कृतयुगधर्मः सत्यादिस्तद्विदाम् ॥ 12-356-18 चत्वारो वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धाख्या आत्मानस्तान्धारयति स तथा । त्रिगुणातिगश्चतुष्पथधरः इति ध. पाठः ॥ 12-356-19 सलिलमुद्भवो यस्य स नारायणः शेषशायी तमृषिं वासुदेवम् ॥ 12-356-20 लोकस्याव्यक्तादेर्योनिः । अमृतस्य मोक्षस्य पदं स्थानम् । पदं पदनीयम् ॥