अध्यायः 354
नरनारायणाभ्यां नारदाय श्रीभगवन्महिमानुवर्णनम् ॥ 1 ॥ बदर्याश्रमे नारदेन चिरतरं तपश्चर्या ॥ 2 ॥
नरनारायणावूचतुः 001
धन्योस्यनुगृहीतोसि यत्ते दृष्टः स्वयम्प्रभुः । 001a
न हि तं दृष्टवान्कश्चित्पद्मयोनिरपि स्वयम् ॥ 001c
अव्यक्तयोनिर्भगवान्दुर्दर्शः पुरुषोत्तमः । 002a
नारदैतद्धि नौ सत्यं वचनं समुदाहृतम् ॥ 002c
नास्य भक्तात्प्रियतरो लोके कश्चन विद्यते । 003a
ततः स्वयं दर्शितवान्स्वमात्मानं द्विजोत्तम ॥ 003c
तपो हि तप्यतस्तस्य यत्स्थानं परमात्मनः । 004a
न तत्सम्प्राप्नुते कश्चिदृते ह्यावां द्विजोत्तम ॥ 004c
या हि सूर्यसहस्रस्य समस्तस्य भवेद्द्युतिः । 005a
स्थानस्य सा भवेत्तस्य स्वयं तेन विराजता ॥ 005c
तस्मादुत्तिष्ठते विप्र देवाद्विश्वभुवः पतेः । 006a
क्षमा क्षमावतां श्रेष्ठ यया भूमिस्तु युज्यते ॥ 006c
तस्माच्चोत्तिष्ठते देवात्सर्वभूतहिताद्रसः । 007a
आपो हि तेन युज्यन्ते द्रवत्वं प्राप्नुवन्ति च ॥ 007c
तस्मादेव समुद्भूतं तेजो रूपगुणात्मकम् । 008a
येन संयुज्यते सूर्यस्ततो लोके विराजते ॥ 008c
तस्माद्देवात्समुद्भूतः स्पर्शस्तु पुरुषोत्तमात् । 009a
येन स्म युज्यते वायुस्ततो लोकान्विवात्यसौ ॥ 009c
तस्माच्चोत्तिष्ठते शब्दः सर्वलोकेश्वरात्प्रभोः । 010a
आकाशं युज्यते येन ततस्तिष्ठत्यसंवृतम् ॥ 010c
तस्माच्चोत्तिष्ठते देवात्सर्वभूतगतं मनः । 011a
चन्द्रमा येन संयुक्तः प्रकाशगुणधारणः ॥ 011c
सद्भूतोत्पादकं नाम तत्स्थानं वेदसञ्ज्ञितम् । 012a
विद्यासहायो यत्रास्ते भगवान्हव्यकव्यभुक् ॥ 012c
ये हि निष्कल्मषा लोके पुण्यपापविवर्जिताः । 013a
तेषां वै क्षेममध्वानं गच्छतां द्विजसत्तम ॥ 013c
सर्वलोके तमोहन्ता आदित्यो द्वारमुच्यते । 014a
'ज्वालामाली महातेजा येनेदं धार्यते जगत् ॥' 014c
आदित्यदग्धसर्वाङ्गा अदृश्याः केनचित्क्वचित् । 015a
परमाणुभूता भूत्वा तु तं देवं प्रविशन्त्युत ॥ 015c
तस्मादपि च निर्मुक्ता अनिरुद्धतनौ स्थिताः । 016a
मनोभूतास्ततो भूत्वा प्रद्युम्नं प्रविशन्त्युत ॥ 016c
प्रद्युम्नाच्चापि निर्मुक्ता जीवं सङ्कर्षणं ततः । 017a
विशन्ति विप्रप्रवराः साङ्ख्या भागवतैः सह ॥ 017c
ततस्त्रैगुण्यहीनास्ते परमात्मानमञ्जसा । 018a
प्रविशन्ति द्विजश्रेष्ठाः क्षेत्रज्ञं निर्गुणात्मकम् । 018c
सर्वावासं वासुदेवं क्षेत्रज्ञं विद्धि तत्त्वतः ॥ 018e
समाहितमनस्काश्च नियताः संयतेन्द्रियाः । 019a
एकान्तभावोपगता वासुदेवं विशन्ति ते ॥ 019c
आवामपि च धर्मस्य गृहे जातौ द्विजोत्तम । 020a
रम्यां विशालामाश्रित्य तप उग्रं समास्थितौ ॥ 020c
ये तु तस्यैव देवस्य प्रादुर्भावाः सुरप्रियाः । 021a
भविष्यन्ति त्रिलोकस्थास्तेषां स्वस्तीत्यथो द्विज ॥ 021c
विधिना स्वेन युक्ताभ्यां यथापूर्वं द्विजोत्तम । 022a
आस्थिताभ्यां सर्वकृच्छ्रं व्रतं सम्यगनुत्तमम् ॥ 022c
'स्वार्थेन विधिना युक्तः सर्वकृच्छ्रव्रते स्थितः ।' 023a
आवाभ्यामपि दृष्टस्त्वं श्वेतद्वीपे तपोधन ॥ 023c
समागतो भगवता सङ्कल्पं कृतवांस्तथा । 024a
सर्वं हि नौ संविदितं त्रैलोक्ये सचराचरे ॥ 024c
यद्भविष्यति वृत्तं वा वर्तते वा शुभाशुभम् । 025a
सर्वं स ते कथितवान्देवदेवो महामुने ॥ 025c
वैशम्पायन उवाच 026
एतच्छ्रुत्वा तयोर्वाक्यं तपस्युग्रे च वर्ततोः । 026a
नारदः प्राञ्जलिर्भूत्वा नारायणपरायणः ॥ 026c
जजाप विधिवन्मन्त्रान्नारायणगतान्बहून् । 027a
दिव्यं वर्षसहस्रं हि नरनारायणाश्रमे ॥ 027c
अवसत्स महातेजा नारदो भगवानृषिः । 028a
तावेवाभ्यर्चयन्देवौ नरनारायणौ च तौ ॥ 028c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये चतुःपञ्चादशधिकत्रिशततमोऽध्यायः ॥ 354 ॥
12-354-2 आकाशयोनिर्भगवानिति ध. पाठः ॥ 12-354-7 सर्वभूतहितो रस इति थ. पाठः ॥ 12-354-15 परमाण्वात्मभूतास्तु तं देशं प्रविशन्त्युतेति थ. पाठः ॥ 12-354-17 विप्रप्रवरास्तेषां शुद्धा गतिर्हि सेति ध. पाठः ॥ 12-354-20 विशालां बदरीम् ॥