अध्यायः 353

श्वेतद्वीपाद्बदर्याश्रममुपागतस्य नारदस्य श्रीनारायणेन संवादः ॥ 1 ॥ शौनक उवाच 001
सौते सुमहदाख्यानं भवता परिकीर्तितम् । 001a
यच्छ्रुत्वा मुनयः सर्वे विस्मयं परमं गताः ॥ 001c
सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम् । 002a
न तथा फलदं सौते नारायणकथा यथा ॥ 002c
पाविताङ्गाः स्म संवृत्ताः श्रुत्वेमामादितः कथाम् । 003a
नारायणाश्रयां पुण्यां सर्वपापप्रमोचनीम् ॥ 003c
दुर्दर्शो भगवान्देवः सर्वलोकनमस्कृतः । 004a
सब्रह्मकैः सुरैः कृत्स्नैरन्यैश्चैव महर्षिभिः ॥ 004c
दृष्टवान्नारदो यत्तु देवं नारायणं हरिम् । 005a
नूनमेनद्ध्यनुमतं तस्य देवस्य सूतज ॥ 005c
यदृष्टवाञ्जगन्नाथमनिरुद्धतनौ स्थितम् । 006a
यत्प्राद्रवत्पुनर्भूयो नारदो देवसत्तमौ । 006c
नरनारायणौ द्रष्टुं कारणं तद्ब्रवीहि मे ॥ 006e
सौतिरुवाच 007
तस्मिन्यज्ञे वर्तमाने राज्ञः पारिक्षितस्य वै । 007a
कर्मान्तरेषु विधिवद्वर्तमानेषु शौनक ॥ 007c
कृष्णद्वैपायनं व्यासमृषिं वेदनिधिं प्रभुम् । 008a
परिपप्रच्छ राजेन्द्रः पितामहपितामहम् ॥ 008c
जनमेजय उवाच 009
श्वेतद्वीपान्निवृत्तेन नारदेन सुरर्षिणा । 009a
ध्यायता भगवद्वाक्यं चेष्टितं किमतः परम् ॥ 009c
बदर्याश्रममागम्य समागम्य च तावृषी । 010a
कियन्तं कालमवसत्कां कथां पृष्टवांश्च सः ॥ 010c
इदं शतसहस्राद्धि भारताख्यानविस्तरात् । 011a
आमन्थ्य मतिमन्थेन ज्ञानोदधिमनुत्तमम् ॥ 011c
नवनीतं यथा दध्नो मलयाच्चन्दनं यथा । 012a
अरण्यकं च वेदेभ्य ओषधीभ्योऽमृतं यथा । 012c
समुद्धृतमिदं ब्रह्मन्कथामृतमिदं तथा ॥ 012e
तपोनिधे त्वयोक्तं हि नारायणकथाश्रयम् । 013a
स ईशो भगवान्देवः सर्वभूतात्मभावनः ॥ 013c
अहो नारायणं तेजो दुर्दर्शं द्विजसत्तम । 014a
यत्राविशन्ति कल्पान्ते सर्वे ब्रह्मादयः सुराः ॥ 014c
ऋषयश्च सगन्धर्वा यच्च किञ्चिच्चराचरम् । 015a
न ततोऽस्ति परं मन्ये पावनं दिवि चेह च ॥ 015c
सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम् । 016a
न तथा फलदं चापि नारायणकथा यथा ॥ 016c
सर्वथा पाविताः स्मेह श्रुत्वेमामादितः कथाम् । 017a
हरेर्विश्वेश्वरस्येह सर्वपापप्रणाशनीम् ॥ 017c
न चित्रं कृतवांस्तत्र यदार्यो मे धनञ्जयः । 018a
वासुदेवसहायो यः प्राप्तवाञ्जयमुत्तमम् ॥ 018c
न चास्य किञ्चिदप्राप्यं मन्ये लोकेष्वपि त्रिषु । 019a
त्रैलोक्यनाथो विष्णुः स यथाऽसीत्साह्यकृत्सखा ॥ 019c
धन्याश्च सर्व एवासन्ब्रह्मंस्ते मम पूर्वजाः । 020a
हिताय श्रेयसे चैव येषामासीज्जनार्दनः ॥ 020c
तपसाऽप्यथ दुर्दर्शो भगवाल्ँलोकपूजितः । 021a
यं दृष्टवन्तस्ते साक्षाच्छ्रीवत्साङ्कविभूषणम् ॥ 021c
तेभ्यो धन्यतरश्चैव नारदः परमेष्ठिजः । 022a
'दृष्टवान्यो हरिं देवं नारायणमजं विभुम् ॥' 022c
न चाल्पतेजसमृषिं वेद्मि नारदमव्ययम् । 023a
श्वेतद्वीपं समासाद्य येन दृष्टः स्वयं हरिः ॥ 023c
देवप्रसादानुगतं व्यक्तं तत्तस्य दर्शनम् । 024a
यद्दृष्टवांस्तदा देवमनिरूद्धतनौ स्थितम् ॥ 024c
बदरीमाश्रमं यत्तु नारदः प्राद्रवत्पुनः । 025a
नरनारायणौ द्रष्टुं किं नु तत्कारणं मुने ॥ 025c
श्वेतद्वीपान्निवृत्तश्च नारदः परमेष्ठिजः । 026a
बदरीमाश्रमं प्राप्य समागम्य च तावृषी । 026c
कियन्तं कालमवसत्प्रश्नान्कान्पृष्टवांश्च ह ॥ 026e
श्वेतद्वीपादुपावृत्ते तस्मिन्वा सुमहात्मनि । 027a
किमब्रूतां महात्मानौ नरनारायणावृषी । 027c
तदेतन्मे यथातत्त्वं सर्वमाख्यातुमर्हसि ॥ 027e
'सौतिरुवाच 028
तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा । 028a
शशास शिष्यमासीनं वैशम्पायनमन्तिके । 028c
तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि ॥ 028e
गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा । 029a
आचचक्षे ततः सर्वमितिहासं पुरातनम् ॥' 029c
वैशम्पायन उवाच 030
नमो भगवते तस्मै व्यासायामिततेजसे । 030a
यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम् ॥ 030c
प्राप्य श्वेतं महाद्वीपं दृष्ट्वा च हरिमव्ययम् । 031a
निवृत्तो नारदो राजंस्तरसा मेरुमागमत् । 031c
हृदयेनोद्वहन्भारं यदुक्तं परमात्मना ॥ 031e
पश्चादस्याभवद्राजन्नात्मनः साध्वसं महत् । 032a
यद्गत्वा दूरमध्वानं क्षेमी पुनरिहागतः ॥ 032c
मेरोः प्रचक्राम ततः पर्वतं गन्धमादनम् । 033a
निपपात च खात्तूर्णं विशालां बदरीमनु ॥ 033c
ततः स ददृशे देवौ पुराणावृषिसत्तमौ । 034a
तपश्चरन्तौ सुमहदात्मनिष्ठौ महाव्रतौ ॥ 034c
तेजसाऽभ्यधिकौ सूर्यात्सर्वलोकविरोचनात् । 035a
श्रीवत्सलक्षणौ पूज्यौ जटामण्डलधारिणौ ॥ 035c
जालपादभुजौ तौ तु पादयोश्चक्रलक्षणौ । 036a
व्यूढोरस्कौ दीर्घभुजौ तथा मुष्कचतुष्किणौ ॥ 036c
षष्टिदन्तावष्टदंष्ट्रौ मेघौघसदृशस्वनौ । 037a
स्वास्यौ पृथुललाटौ च सुभ्रूसुहनुनासिकौ । 037c
आतपत्रेण सदृशे शिरसी देवयोस्तयोः ॥ 037e
एवं लक्षणसम्पन्नौ महापुरुषसञ्ज्ञितौ । 038a
तौ दृष्ट्वा नारदो हृष्टस्ताभ्यां च प्रतिपूजितः ॥ 038c
स्वागतेनाभिभाष्याथ पृष्टश्चानामयं तथा । 039a
बभूवान्तर्गतमतिर्निरीक्ष्य पुरुषोत्तमौ ॥ 039c
सदोगतास्तत्र ये वै सर्वभूतनमस्कृताः । 040a
श्वेतद्वीपे मया दृष्टास्तादृशावृषिसत्तमौ ॥ 040c
इति सञ्चिन्त्य मनसा कृत्वा चाभिप्रदक्षिणम् । 041a
स चोपविविशे तत्र पीठे कुशमये शुभे ॥ 041c
ततस्तौ तपसां वासौ यशसां तेजसामपि । 042a
ऋषी शमदमोपेतौ कृत्वा पौर्वाह्णिकं विधिम् ॥ 042c
पश्चान्नारदमव्यग्रौ पाद्यार्घ्याभ्यामथार्चतः । 043a
पीठयोश्चोपविष्टौ तौ कृतातिथ्याह्निकौ नृपौ ॥ 043c
तेषु तत्रोपविष्टेषु स देशोऽभिव्यराजत । 044a
आज्याहुतिमहाज्वालैर्यज्ञवाटो यथाऽग्निभिः ॥ 044c
अथ नारायणस्तत्र नारदं वाक्यमब्रवीत् । 045a
सुखोपविष्टं विश्रान्तं कृतातिथ्यं सुखस्थितम् ॥ 045c
अपीदानीं स भगवान्परमात्मा सनातनः । 046a
श्वेतद्वीपे त्वया दृष्ट आवयोः प्रकृतिः परा ॥ 046c
नारद उवाच 047
दृष्टो मे पुरुषः श्रीमान्विश्वरूपधरोऽव्ययः । 047a
सर्वे लोका हि तत्रस्थास्तथा देवाः सहर्षिभिः ॥ 047c
अद्यापि चैनं पश्यामि युवां पश्यन्सनातनौ ॥ 048ac
यैर्लक्षणैरुपेतः स हरिरव्यक्तरूपधृत् । 049a
तैर्लक्षणैरुपेतौ हि व्यक्तरूपधरौ युवाम् ॥ 049c
दृष्टौ युवां मया तत्र तस्य देवस्य पार्श्वतः । 050a
इहैव चागतोऽस्म्यद्य विसृष्टः परमात्मना ॥ 050c
को हि नाम भवेत्तस्य तेजसा यशसा श्रिया । 051a
सदृशस्त्रिषु लोकेषु ऋते धर्मात्मजौ युवाम् ॥ 051c
तेन मे कथितः कृत्स्नो धर्मः क्षेत्रज्ञसञ्ज्ञितः । 052a
प्रादुर्भावाश्च कथिता भविष्या इह ये यथा ॥ 052c
तत्र ये पुरुषाः श्वेताः पञ्चेन्द्रियविवर्जिताः । 053a
प्रतिबुद्धाश्च ते सर्वे भक्ताश्च पुरुषोत्तमम् ॥ 053c
तेऽर्चयन्ति सदा देवं तैः सार्धं रमते च सः । 054a
प्रियभक्तो हि भगवान्परमात्मा द्विजप्रियः ॥ 054c
रमते सोऽर्च्यमानो हि सदा भागवतप्रियः । 055a
विश्वभुक्सर्वगो देवो माधवो भक्तवत्सलः ॥ 055c
स कर्ता कारणं चैव कार्यं चातिबलद्युतिः । 056a
हेतुश्चाज्ञाविधानं च तत्त्वं चैव महायशाः ॥ 056c
तपसा योज्य सोत्मानं श्वेतद्वीपात्परं हि यत् । 057a
तेज इत्यभिविख्यातं स्वयं भासावभासितम् ॥ 057c
शान्तिः सा त्रिषु लोकेषु विहिता भावितात्मना । 058a
एतया शुभया बुद्ध्या नैष्ठिकं व्रतमास्थितः ॥ 058c
न तत्र सूर्यस्तपति न सोमोऽभिविराजते । 059a
न वायुर्वाति देवेशे तपश्चरति दुश्चरम् ॥ 059c
वेदीमष्टनलोत्सेधां भूमावास्थाय विश्वकृत् । 060a
एकपादस्थितो देव ऊर्ध्वबाहुरुदङ्मुखः ॥ 060c
साङ्गानावर्तयन्वेदांस्तपस्तेपे सुदुश्चरम् । 061a
यद्ब्रह्मा ऋषयश्चैव स्वयं पशुपतिश्च यत् ॥ 061c
शेषाश्च विबुधश्रेष्ठा दैत्यदानवराक्षसाः । 062a
नागाः सुपर्णा गन्धर्वाः सिद्धा राजर्षयश्च ते ॥ 062c
हव्यं कव्यं च सततं विधियुक्तं प्रयुञ्जते । 063a
कृत्स्नं तु तस्य देवस्य चरणावुपतिष्ठतः ॥ 063c
याः क्रियाः सम्प्रयुक्ताश्च एकान्तगतबुद्धिभिः । 064a
ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम् ॥ 064c
न तस्यान्यः प्रियतरः प्रतिबुद्धैर्महात्मभिः । 065a
विद्यते त्रिषु लोकेषु ततोऽस्यैकान्तिकं गतः ॥ 065c
इह चैवागतोऽस्म्यद्य विसृष्टः परमात्मना । 066a
एवं मे भगवान्देवः स्वयमाख्यातवान्हरिः ॥ 066c
आसिष्ये तत्परो भूत्वा युवाभ्यां सह नित्यशः ॥ 067ac

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये त्रिपञ्चाशदधिकत्रिशततमोऽध्यायः ॥ 353 ॥

12-353-18 केशवेनाभिसङ्गुप्तः प्राप्तवानाहवे जयमिति ट. ध. पाठः ॥ 12-353-26 काः कथाः पृष्टवांश्च स इति ध. पाठः ॥ 12-353-31 हृदयेनोद्वहन्भावमिति ध. पाठः ॥ 12-353-36 जालपादा हंसास्तदङ्कितभुजौ हंसपादाङ्कितभुजौ । चक्रलक्षणौ चक्राङ्कितपादौ । जानुपातभुजान्ताविति ठ. पाठः । रक्तपादभुजान्ताविति ध. पाठः ॥ 12-353-40 समागतौ हि तत्रैतौ सर्वभूतनमस्कृतौ । श्वेतद्वीपे मया दृष्टौ तादृशाविह सत्तमाविति थ. ध. पाठः ॥ 12-353-57 श्वेत इत्यभिविख्यातमिति ध. पाठः ॥ 12-353-58 लोकेषु सिद्धानां भावितात्मनामिति च. ध. पाठः ॥ 12-353-60 नलवत्पर्वयुक्तत्वान्नलशब्देनाङ्गुलं ग्राह्मम् ॥ 12-353-64 एकान्तगतबुद्धिरव्यभिचरितबुद्धिभिः ॥ 12-353-65 ततोस्म्येकान्तितां गत इति थ. ध. पाठः ॥