अध्यायः 352

श्रीकृष्णेनार्जुनम् प्रति हृषीकेशादिस्वनामनिर्वचनम् ॥ 1 ॥ तथा रुद्रनारायणयुद्धवर्णनम् ॥ 2 ॥ 'भगवानुवाच 001
नाम्नां निरुक्तं वक्ष्यामि शृणुष्वैकाग्रमानसः । 001a
सूर्याचन्द्रमसौ शश्वत्केशैर्मे अंशुसञ्ज्ञितैः ।' 001c
बोधयंस्तापयंश्चैव जगदुत्तिष्ठते पृथक् ॥ 001e
बोधनात्तापनाच्चैव जगतो हर्षणं भवेत् । 002a
अग्नीषोमकृतैरेभिः कर्मभिः पाण्डुनन्दन । 002c
हृषीकेशोऽहमीशानो वरदो लोकभावनः ॥ 002e
इलोपहूतं गेहेषु हरे भागं क्रतुष्वहम् । 003a
वर्णो मे हरितः श्रेष्ठस्तस्माद्धरिरहं स्मृतः ॥ 003c
धामसारो हि लोकानामृतं चैव विचारितम् । 004a
ऋतधामा ततो विप्रैः सद्यश्चाहं प्रकीर्तितः ॥ 004c
नष्टां च धरणीं पूर्वमविन्दं वै गुहागताम् । 005a
गोविन्द इति तेनाहं देवैर्वाग्भिरभिष्टुतः ॥ 005c
शिपिविष्टेति चाख्यायां हीनरोमा च यो भवेत् । 006a
तेनाविष्ट तु यत्किञ्चिच्छिपिविष्टेति च स्मृतः ॥ 006c
यास्को मामृषिरव्यग्रो नैकयज्ञेषु गीतवान् । 007a
शिपिविष्ट इति ह्यस्माद्गुह्यनामधरो ह्यहम् ॥ 007c
स्तुत्वा मां शिपिविष्टेति यास्क ऋषिरुदारधीः । 008a
मत्प्रसादादधो नष्टं निरुक्तमभिजग्मिवान् ॥ 008c
न हि जातो न जायेयं न जनिष्ये कदाचन । 009a
क्षेत्रज्ञः सर्वभूतानां तस्मादहमजः स्मृतः ॥ 009c
नोक्तपूर्वं मया क्षुद्रमश्लीलं वा कदाचन । 010a
ऋता ब्रह्मसुता सा मे सत्यदेवी सरस्वती ॥ 010c
सच्चासच्चैव कौन्तेय मया वेशितमात्मनि । 011a
पौष्करे ब्रह्मसदने सत्यं मामृषयो विदुः ॥ 011c
सत्वान्न च्युतपूर्वोऽहं सत्यं वै विद्धि मत्कृतम् । 012a
जन्मनीहाभवेत्सत्वं पौर्विकं मे धनञ्जय ॥ 012c
निराशीः कर्मसंयुक्तः सत्वतश्चाप्यकल्मषः । 013a
सात्वतज्ञानदृष्टोऽहं सत्वतामिति सात्वतः ॥ 013c
कृषामि मेदिनीं पार्थ भूत्वा कार्ष्णायसो महान् । 014a
कृष्णो वर्णश्च मे यस्मात्तस्मात्कृष्णोऽहमर्जुन ॥ 014c
मया संश्लेषिता भूमिरद्भिर्व्योम च वायुना । 015a
वायुश्च तेजसा सार्धं वैकुण्ठत्वं ततो मम ॥ 015c
निर्वाणं परमं ब्रह्म धर्मोऽसौ पर उच्यते । 016a
तस्मान्न च्युतपूर्वोऽहमच्युतस्तेन कर्मणा ॥ 016c
पृथिवीनभसी चोभे विश्रुते विश्वतोमुखे । 017a
तयोः सन्धारणार्थं हि मामधोक्षजमञ्जसा ॥ 017c
निरुक्तं वेदविदुषो वेदशब्दार्थचिन्तकाः । 018a
ते मां गायन्ति प्राग्वंशे अधोक्षज इति स्मृतः ॥ 018c
शब्द एकमतैरेष व्याहृतः परमर्षिभिः । 019a
नान्यो ह्यधोक्षजो लोके ऋते नारायणं प्रभुम् ॥ 019c
घृतं ममार्चिषो लोके जन्तूनां प्राणधारणम् । 020a
घृतार्चिरहमव्यग्रैर्वेदज्ञैः परिकीर्तितः ॥ 020c
त्रयो हि धातवः ख्याताः कर्मजा इति ये स्मृताः । 021a
पित्तं श्लेष्मा च वायुश्च एष सङ्घात उच्यते ॥ 021c
एतैश्च धार्यते जन्तुरेतैः क्षीणैश्च क्षीयते । 022a
आयुर्वेदविदस्तस्मात्त्रिधातुं मां प्रचक्षते ॥ 022c
वृषो हि भगवान्धर्मः ख्यातो लोकेषु भारत । 023a
नैघण्टुकपदाख्याने विद्धि मां वृषमुत्तमम् ॥ 023c
कपिर्वराहः श्रेष्ठश्च धर्मश्च वृष उच्यते । 024a
त्समाद्वृषाकपिं प्राह कश्यपो मां प्रजापतिः ॥ 024c
न चादिं न मध्यं तथा चैव नान्तं कदाचिद्विमन्ते द्विजा मे सुराश्च । 025a
अनाद्यो ह्यमध्यस्तथा चाप्यनन्तः प्रगीतोऽहमीशो विभुर्लोकसाक्षी ॥ 025c
शुचीनि श्रवणीयानि शृणोमीह धनञ्जय । 026a
न च पापानि गृह्णामि ततोऽहं वै शुचिश्रवाः ॥ 026c
एकशृङ्गः पुरा भूत्वा वराहो नन्दिवर्धनः । 027a
इमां चोद्धृतवान्भूमिमेकशृङ्गस्ततो ह्यहम् ॥ 027c
तथैवासं त्रिककुदो वाराहं रूपमास्थितः । 028a
त्रिककुत्तेन विख्यातः शरीरस्य तु मापनात् ॥ 028c
विरिञ्च इति यत्प्रोक्तं कापिलं ज्ञानचिन्तकैः । 029a
स प्रजापतिरेवाहं चेतनात्सर्वलोककृत् ॥ 029c
विद्यासहायवन्तं मामादित्यस्थं सनातनम् । 030a
कपिलं प्राहुराचार्याः साङ्ख्या निश्चितनिश्चयाः ॥ 030c
हिरण्यगर्भो द्युतिमान्य एष च्छन्दसि स्तुतः । 031a
योगैः सम्पूज्यते नित्यं स एवाहं विभुः स्मृतः ॥ 031c
एकविंशतिसाहस्रम् ऋग्वेदं मां प्रचक्षते । 032a
सहस्रशाखं यत्साम ये वै वेदविदो जनाः । 032c
गायन्त्यारण्यके विप्रा मद्भक्तास्ते हि दुर्लभाः ॥ 032e
षट्पञ्चाशतमष्टौ च सप्तत्रिंशतमित्युत । 033a
यस्मिञ्शाखा यजुर्वेदे सोहमाध्वर्यवे स्मृतः ॥ 033c
पञ्चकल्पमथर्वाणं कृत्याभिः परिबृंहितम् । 034a
कल्पयन्ति हि मां विप्रा अथर्वाणविदस्तथा ॥ 034c
शाखाभेदाश्च ये केचिद्याश्च शाखासु गीतयः । 035a
स्वरवर्णसमुच्चाराः सर्वांस्तान्विद्धि मत्कृतान् ॥ 035c
यत्तद्धयशिरः पार्थ समुदेति वरप्रदम् । 036a
सोहमेवोत्तरे भागे क्रमाक्षरविभागवित् ॥ 036c
रामादेशितमार्गेण मत्प्रसादान्महात्मना । 037a
पाञ्चालेन क्रमः प्राप्तस्तस्माद्भूतात्सनातनात् ॥ 037c
बाभ्रव्यगोत्रः स बभौ प्रथमं क्रमपारगः । 038a
नारायणाद्वरं लब्ध्वा प्राप्य योगमनुत्तमम् । 038c
क्रमं प्रणीय शिक्षां च प्रणयित्वा स गालवः ॥ 038e
पुण्डरीकोऽथ राजा च ब्रह्मदत्तः प्रतापवान् । 039a
जातीमरणजं दुःखं स्मृत्वास्मृत्वा पुनः पुनः । 039c
सप्तजातिषु मुख्यत्वाद्योगानां सम्पदं गतः ॥ 039e
पुराऽहमात्मजः पार्थ प्रथितः कारणान्तरे । 040a
धर्मस्य कुरुशार्दूल ततोऽहं धर्मजः स्मृतः ॥ 040c
नरनारायणौ पूर्वं तपस्तेपतुरव्ययम् । 041a
धर्मयानं समारूढौ पर्वते गन्धमादने ॥ 041c
तत्कालसमये चैव दक्षयज्ञो बभूव ह । 042a
न चैवाकल्पयद्भागं दक्षो रुद्रस्य भारत ॥ 042c
ततो दधीचिवचनाद्दक्षयज्ञमपाहरत् । 043a
ससर्ज शूलं कोपेन प्रज्वलन्तं मुहुर्मुहुः ॥ 043c
तच्छूलं भस्मसात्कृत्वा दक्षयज्ञं सविस्तरम् । 044a
आवयोः सहसाऽगच्छद्बदर्याश्रममन्तिकात् । 044c
वेगेन महता पार्थ पतन्नारायणोरसि ॥ 044e
तत्तस्यतेजसाऽऽविष्टाः केशा नारायणस्य ह । 045a
बभूवुर्मुञ्जवर्णास्तु ततोऽहं मुञ्जकेशवान् ॥ 045c
तच्च शूलं विनिर्धूतं हुङ्कारेण महात्मना । 046a
जगाम शङ्करकरं नारायणसमाहतम् ॥ 046c
अथ रुद्र उपाधावत्तावृषी तपसाऽन्वितौ ॥ 047a
तत एनं समुद्धूतं कण्ठे जग्राह पाणिना । 048c
नारायणः स विश्वात्मा तेनास्य शितिकण्ठता ॥ 048a
अथ रुद्रविघातार्थमिषीकां नर उद्धरन् । 049a
मन्त्रैश्च संयुयोजाशु सोऽभवत्परशुर्महान् ॥ 049c
क्षिप्तश्च सहसा तेन खण्डनं प्राप्तवांस्तदा । 050a
ततोऽहं खण्डपरशुः स्मृतः परशुखण्डनात् ॥ 050c
'रुद्रस्य भागं प्रददुर्भागमुच्छेषणं पुनः । 051a
श्रुतिरप्यत्र भवति वेदैरुक्तस्तथा पुनः ॥ 051c
उच्छेषणभागो वै रुद्रस्तस्योच्छेषणेन होतव्यमिति सर्वे गम्यरूपेण तदा ॥' 052AB
अर्जुन उवाच 053
अस्मिन्युद्धे तु वार्ष्णेय त्रैलोक्यशमने तदा । 053a
को जयं प्राप्तवांस्तत्र शंसैतन्मे जनार्दन ॥ 053c
श्रीभगवानुवाच 054
तयोः संरब्धयोर्युद्धे रुद्रनारायणात्मनोः । 054a
उद्विग्नाः सहसा कृत्स्नाः सर्वे लोकास्तदाऽभवन् ॥ 054c
नागृह्णात्पावकः शुभ्रं मुखेषु सुहुतं हविः । 055a
वेदा न प्रतिभान्ति स्म ऋषीणां भावितात्मनाम् ॥ 055c
देवान्रजस्तमश्चैव समाविविशतुस्तदा । 056a
वसुधा सञ्चकम्पे च नभश्च विपफाल ह ॥ 056c
निष्प्रभाणि च तेजांसि ब्रह्मा चैवासनच्युतः । 057a
अगाच्छोषं समुद्रश्च हिमवांश्च व्यशीर्यत ॥ 057c
तस्मिन्नेवं समुत्पन्ने निमित्ते पाण्डुनन्दन । 058a
ब्रह्मा वृतो देवगणैर्ऋषिभिश्च महात्मभिः । 058c
आजगामाशु तं देशं यत्र युद्धमवर्तत ॥ 058e
सोऽञ्जलिप्रग्रहो भूत्वा चतुर्वक्त्रो निरुक्तगः । 059a
उवाच वचनं रुद्रं लोकानामस्तु वै शिवम् । 059c
त्यजायुधानि विश्वेश जगतो हितकाम्यया ॥ 059e
यदक्षरमथाव्यक्तमीशं लोकस्य भावनम् । 060a
कूटस्थं कर्तृनिर्द्वन्द्वमकर्तेति च यं विदुः । 060c
व्यक्तिभावगतस्यास्य एका मूर्तिरियं शुभा ॥ 060e
नरो नारायणश्चैव जातौ धर्मकुलोद्वहौ । 061a
तपसा महता युक्तौ देवश्रेष्ठौ महाव्रतौ ॥ 061c
अहं प्रसादजस्तस्य कुतश्चित्कारणान्तरे । 062a
त्वं चैव क्रोधजस्तात पूर्वसर्गे सनातनः ॥ 062c
मया च सार्धं वरद विबुधैश्च महर्षिभिः । 063a
प्रसादयाशु लोकानां शान्तिर्भवतु माचिरम् ॥ 063c
ब्रह्मणा त्वेवमुक्तस्तु रुद्रः क्रोधाग्निमुत्सृजन् । 064a
प्रसादयामास ततो देवं नारायणं प्रभुम् । 064c
शरणं च जगामाद्यं वरेण्यं वरदं हरिम् ॥ 064e
ततोऽथ वरदो देवो जितक्रोधो जितेन्द्रियः । 065a
प्रीतिमानभवत्तत्र रुद्रेण सह सङ्गतः ॥ 065c
ऋषिभिर्ब्रह्मणा चैव विबुधैश्च सुपूजितः । 066a
उवाच देवमीशानमीशः स जगतो हरिः ॥ 066c
यस्त्वां वेत्ति स मां वेत्ति यस्त्वामनु स मामनु । 067a
नावयोरन्तरं किञ्चिन्मा तेऽभूद्बुद्धिरन्यथा ॥ 067c
अद्यप्रभृति श्रीवत्सः शूलाङ्को मे भवत्वयम् । 068a
मम पाण्यङ्कितश्चापि श्रीकण्ठस्त्वं भविष्यसि ॥ 068c
श्रीभगवानुवाच 069
एवंलक्षणमुत्पाद्य परस्परकृतं तदा । 069a
सख्यं चैवातुलं कृत्वा रुद्रेण सहितावृषी । 069c
तपस्तेपतुरव्यग्रौ विसृज्य त्रिदिवौकसः ॥ 069e
एष ते कथितः पार्थ नारायणजयो मृधे । 070a
नामानि चैव गुह्यानि निरुक्तानि च भारत । 070c
ऋषिभिः कथितानीह यानि सङ्कीर्तितानि ते ॥ 070e
एवं बहुविधै रूपैश्चरामीह वसुन्धराम् । 071a
ब्रह्मलोकं च कौन्तेय गोलोकं च सनातनम् ॥ 071c
मया त्वं रक्षितो युद्धे महान्तं प्राप्तवाञ्जयम् ॥ 072ac
यस्तु ते सोग्रतो याति युद्धे सम्प्रत्युपस्थिते । 073a
तं विद्धि रुद्रं कौन्तेय देवदेवं कपर्दिनम् ॥ 073c
कालः स एव विहितः क्रोधजेति मया तव । 074a
निहतांस्तेन वै पूर्वं हतवानसि यान्रिपून् ॥ 074c
अप्रमेयप्रभावं तं देवदेवमुमापतिम् । 075a
नमस्व देवं प्रयतो विश्वेशं हरमक्षयम् ॥ 075c
यश्च ते कथितः पूर्वं क्रोधजेति पुनः पुनः । 076a
तस्य प्रभाव एवाग्रे यच्छ्रुतं ते धनञ्जय ॥ 076c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये द्विपञ्चाशदधिकत्रिशततमोऽध्यायः ॥ 352 ॥

12-352-1 बोधयन्स्थापयंश्चैवेति ट. पाठः ॥ 12-352-2 बोधनात्स्थापनाच्चैवेति ट. पाठः ॥ 12-352-3 इलोपहूतं योगेनेति झ. पाठः ॥ 12-352-6 शिपिविष्टं हि तत्स्मृतमिति ट. ध. पाठः ॥ 12-352-11 पौष्करे मन्नाभिकमलोत्थे ॥ 12-352-13 निराशीः कर्म निष्कामकर्म ॥ 12-352-15 विगता कुण्ठा पञ्चानां भूतानां मेलने असामर्थ्यं यस्य स विकुण्ठः स एव वैकुण्ठः ॥ 12-352-17 अधइति पृथिवी । अक्षू व्याप्तावित्यतोऽक् आकाशः । ते उभे सञ्जयति सङ्गेन धारयतीत्यधोक्षज इत्यर्थः ॥ 12-352-18 प्राग्वंशे यज्ञशालैकदेशे ॥ 12-352-20 मम वह्निस्वरूपस्यार्चिषो वर्धकमिति शेषः ॥ 12-352-28 शरीरस्य प्रकोपनादिति ध. पाठः ॥ 12-352-29 कालिविज्ञानचिन्तकैरिति ट. पाठः । रेचनात्सर्वलोककृदिति ध. पाठः ॥ 12-352-43 अपाहरन्नाशितवान् रुद्र इति शेषः ॥ 12-352-44 तच्छूलं कर्तृ ॥ 12-352-45 तत्तेजसा शूलतेजसा ॥ 12-352-48 एनं समुद्धूतमुड्डीयागतं रुद्रम् ॥ 12-352-50 क्षिप्त आक्षिप्तस्तेन रुद्रशूलेन रुद्रेण वा ॥ 12-352-64 वरदं हर इति ट. पाठः ॥