अध्यायः 350
वैशम्पायनेन जनमेजयम् प्रति अर्जुनाय स्वमाहात्म्यख्यापनपूर्वकं श्रीकृष्णकृतनारायणादिस्वनामनिर्वचनानुवादः ॥ 1 ॥
जनमेजय उवाच 001
अस्तौषीद्वैदिकैर्व्यासः सशिष्यो मधुसूदनम् । 001a
नामभिर्विविधैरेषां निरुक्तं भगवन्मम ॥ 001c
वक्तुमर्हसि शुश्रूषोः प्रजापतिपतेर्हरः । 002a
श्रुत्वा भवेयं यत्पूतः शरच्चन्द्र इवामलः ॥ 002c
वैशम्पायन उवाच 003
शृणु राजन्यथाचष्ट फल्गुनस्य हरिः प्रभुः । 003a
प्रसन्नात्मात्मनो नाम्नां निरुक्तं गुणकर्मजम् ॥ 003c
नामभिः कीर्तितैस्तस्य केशवस्य महात्मनः । 004a
पृष्टवान्केशवं राजन्फल्गुनः परवीरहा ॥ 004c
अर्जुन उवाच 005
भगवन्भूतभव्येश सर्वभूतसृगव्यय । 005a
लोकधाम जगन्नाथ लोकानामभयप्रद ॥ 005c
यानि नामानि ते देव कीर्तितानि महर्षिभिः । 006a
वेदेषु सपुराणेषु यानि गुह्यानि कर्मभिः ॥ 006c
तेषां निरुक्तं त्वत्तोऽहं श्रोतुमिच्छामि केशव । 007a
न ह्यन्यो वर्णयेन्नाम्नां निरुक्तं त्वामृते प्रभो ॥ 007c
श्रीभगवानुवाच 008
ऋग्वेदे सयजुर्वेदे तथैवाथर्वसामसु । 008a
पुराणे सोपनिषदे तथैव ज्योतिषेऽर्जुन ॥ 008c
साङ्ख्ये च योगशास्त्रे च आयुर्वेदे तथैव च । 009a
बहूनि मम नामानि कीर्तितानि महर्षिभिः ॥ 009c
गौणानि तत्र नामानि कर्मजानि च कानिचित् । 010a
निरुक्तं कर्मजानां त्वं शृणुष्व प्रयतोऽनघ ॥ 010c
कथ्यमानं मया तात त्वं हि मेऽर्धं स्मृतः पुरा । 011a
नमोऽतियशसे तस्मै देवानां परमात्मने ॥ 011c
नारायणाय विश्वाय निर्गुणाय गुणात्मने । 012a
यस्य प्रसादजो ब्रह्मा रुद्रस्य क्रोधसम्भवः ॥ 012c
योसौ योनिर्हि सर्वस्य स्थावरस्य चरस्य च । 013a
अष्टादशगुणं यत्तत्सत्वं सत्ववतांवर ॥ 013c
प्रकृतिः सा परा मह्यं रोदसी लोकधारिणी । 014a
ऋता सत्याऽमरा जय्या लोकानामात्मसञ्ज्ञिता ॥ 014c
तस्मात्सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः । 015a
तपो यज्ञश्च यष्टा च पुराणः पुरुषो विराट् ॥ 015c
अनिरुद्ध इति प्रोक्तो लोकानां प्रभवाप्ययः । 016a
ब्राह्मे रात्रिक्षये प्राप्ते तस्य ह्यमिततेजसः ॥ 016c
प्रसादात्प्रादुरभवत्पद्ममर्कनिभं क्षणात् । 017a
तत्र ब्रह्मा समभवत्स तस्यैव प्रसादजः ॥ 017c
अह्नः क्षये ललाटाच्च सुतो देवस्य वै तथा । 018a
क्रोधाविष्टस्य सञ्जज्ञे रुद्रः संहारकारकः ॥ 018c
एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजावुभौ । 019a
तदादर्शितपन्थानौ सृष्टिसंहारकारकौ ॥ 019c
निमित्तमात्रं तावत्र सर्वप्राणिवरप्रदौ । 020a
कपर्दी जटिलो मुण्डः श्मशानगृहसेवकः ॥ 020c
उग्रव्रतचरो रुद्रो योगी त्रिपुरदारणः । 021a
दक्षक्रतुहरश्चैव भगनेत्रहरस्तथा ॥ 021c
नारायणात्मको ज्ञेयः पाण्डवेय युगेयुगे । 022a
तस्मिन्हि पूज्यमाने वै देवदेवे महेश्वरे ॥ 022c
सम्पूजितो भवेत्पार्थ देवो नारायणः प्रभुः । 023a
अहमात्मा हि लोकानां विश्वेषां पाण्डुनन्दन ॥ 023c
तस्मादात्मानमेवाग्रे रुद्रं सम्पूजयाम्यहम् । 024a
यद्यहं नार्चयेयं वै ईशानं वरदं शिवम् ॥ 024c
आत्मानं नार्चयेत्कश्चिदिति मे भावितात्मनः । 025a
मया प्रमाणं हि कृतं लोकः समनुवर्तते ॥ 025c
प्रमाणानि हि पूज्यानि ततस्तं पूजयाम्यहम् । 026a
यस्तं वेत्ति स मां वेत्ति योऽनु तं स हि मामनु ॥ 026c
रुद्रो नारायणश्चैव सत्वमेकं द्विधा कृतम् । 027a
लोके चरति कौन्तेय व्यक्तिस्थं सर्वकर्मसु ॥ 027c
न हि मे केनचिद्देयो वरः पाण्डवनन्दन । 028a
इति सञ्चिन्त्य मनसा पुराणं रुद्रमीश्वरम् ॥ 028c
पुत्रार्थमाराधितवानहमात्मानमात्मना । 029a
न हि विष्णुः प्रणमति कस्मैचिद्विबुधाय च ॥ 029c
ऋते आत्मानमेवेति ततो रुद्रं नमाम्यहम् । 030a
सब्रह्मकाः सरुद्राश्च सेन्द्रा देवाः सहर्षिभिः ॥ 030c
अर्चयन्ति सुरश्रेष्ठं देवं नारायणं हरिम् । 031a
भविष्यतां वर्ततां च भूतानां चैव भारत ॥ 031c
सर्वेषामग्रणीर्विष्णुः सेव्यः पूज्यश्च नित्यशः । 032a
नमस्व हव्यदं विष्णुं तथा शरणदं नमः || 032c
वरदं नमस्व कौन्तेय हव्यकव्यभुजं नमः । 033a
चतुर्विधा मम जना भक्ता एव हि मे श्रुतम् ॥ 033c
तेषामेकान्तिनः श्रेष्ठा ये चैवानन्यदेवताः । 034a
अहमेव गतिस्तेषां निराशीः कर्मकारिणाम् ॥ 034c
ये च शिष्टास्त्रयो भक्ताः फलकामा हि ते मताः । 035a
सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु श्रेष्ठभाक् ॥ 035c
ब्रह्माणं शितिकण्ठं च याश्चान्या देवताः स्मृताः । 036a
प्रबुद्धचर्याः सेवन्तो मामेवैष्यन्ति यत्फलम् ॥ 036c
भक्तं प्रति विशेषस्ते एष पार्थानुकीर्तितः । 037a
त्वं चैवाहं च कौन्तेय नरनारायणौ स्मृतौ ॥ 037c
भारावतरणार्थं तु प्रविष्टौ मानुषीं तनुम् । 038a
नानीभ्यध्यात्मयोगांश्च योऽहं यस्माच्च भारत ॥ 038c
निवृत्तिलक्षणो धर्मस्तथाऽऽभ्युदयिकोऽपि च । 039a
नराणामयनं ख्यातमहमेकः सनातनः ॥ 039c
आपो नारा इति प्रोक्ता आपो वै नरसूनवः । 040a
अयनं मम ताः पूर्वमतो नारायणोस्म्यहम् ॥ 040c
छादयामि जगद्विश्वं भूत्वा सूर्य इवांशुभिः । 041a
सर्वभूताधिवासश्च वासुदेवस्ततो ह्यहम् ॥ 041c
गतिश्च सर्वभूतानां प्रजनश्चापि भारत । 042a
व्याप्ते मे रोदसी पार्थ कान्तिश्चाभ्यधिका मम || 042c
अधिभूतनिविष्टश्च तद्विश्वं चास्मि भारत । 043a
क्रमणाच्चाप्यहं पार्थ विष्णुरित्यभिसञ्ज्ञितः ॥ 043c
दमात्सिद्धिं परीप्सन्तो मां जनाः कामयन्ति ह । 044a
दिवं चोर्वीं च मध्यं च तस्माद्दामोदरो ह्यहम् ॥ 044c
पृश्निरित्युच्यते चान्नं वेदा आपोऽमृतं तथा । 045a
ममैतानि सदा गर्भः पृश्निगर्भस्ततो ह्यहम् ॥ 045c
ऋषयः प्राहुरेवं मां त्रितं कूपनिपातितम् । 046a
पृश्निगर्भ त्रितं पाहीत्येकतद्वितपातितम् ॥ 046c
ततः स ब्रह्मणः पुत्र आद्यो ह्यृषिवरस्त्रितः । 047a
उत्ततारोदपानाद्वै पृश्निगर्भानुकीर्तनात् ॥ 047c
सूर्यस्य तपतो लोकानग्नेः सोमस्य चाप्युत । 048a
अंशवो यत्प्रकाशन्ते ममैते केशसञ्ज्ञिताः ॥ 048c
सर्वज्ञाः केशवं तस्मान्मामाहुर्द्विजसत्तमाः । 049a
स्वपत्न्यामाहितो गर्भ उचथ्येन महात्मना ॥ 049c
उचथ्येऽन्तर्हिते चैव कदाचिद्देवताज्ञया । 050a
बृहस्पतिरथाविन्दत्तां पत्नीं तस्य धीमतः ॥ 050c
ततो वै तमृषिश्रेष्ठं मैथुनोपगतं तथा । 051a
उवाच गर्भः कौन्तेय पञ्चभूतगुणात्मकः ॥ 051c
पूर्वागतोऽहं वरद नार्हस्यम्बां प्रबाधितुम् । 052a
एतद्बृहस्पतिः श्रुत्वा चुक्रोध च शशाप च ॥ 052c
मैथुनायागतो यस्मात्त्वयाऽहं विनिवारितः । 053a
तस्मादन्धो यास्यसि त्वं मच्छापान्नात्र संशयः ॥ 053c
स शापादृषिमुख्यस्य दीर्घं तम उपेयिवान् । 054a
स हि दीर्घतमा नाम नाम्ना ह्यासीदृषिः पुरा ॥ 054c
वेदानवाप्य चतुरः साङ्गोपाङ्गान्सनातनान् । 055a
प्रयोजयामास तदा नाम गुह्यमिदं मम ॥ 055c
आनुपूर्व्येण विधिना केशवेति पुनः पुनः । 056a
स चक्षुष्मान्समभवद्गौतमश्चाभवत्पुनः ॥ 056c
एवं हि वरदं नाम केशवेति ममार्जुन । 057a
देवानामथ सर्वेषामृषीणां च महात्मनाम् ॥ 057c
अग्निः सोमेन संयुक्त एकयोनिर्मुखं कृतम् । 058a
अग्नीषोममयं तस्माज्जगत्कृत्स्नं चराचरम् ॥ 058c
अपि हि पुराणे भवति एकयोन्यावग्नीषोमौ देवाश्चाग्निमुखा इति । 059A
एकयोनित्वाच्च परस्परं हर्षयन्तो लोकान्धारयन्त इति ॥ 059B
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये पञ्चाशदधिकत्रिशततमोऽध्यायः ॥ 350 ॥
12-350-1 निरुक्तं निर्वचनम् ॥ 12-350-3 गुणकर्मजं गुणः सर्वज्ञत्वादिस्तज्जम् । कर्म जगत्सृष्ट्यादि तज्जम् ॥ 12-350-14 ऋता सत्या महाराज या लोकानामसञ्ज्ञिता इति थ. पाठः ॥ 12-350-17 पद्मं पद्मनिभेक्षणेति झ. पाठः ॥ 12-350-32 स्तव्यः पूज्यश्च नित्यश इति ध. पाठः ॥ 12-350-33 चतुर्विधाः आर्तो जिज्ञासुरर्थार्थी ज्ञानी चेति गीतोक्ताः ॥ 12-350-40 तेन नारायणोऽस्म्यहमिति ट. ध. पाठः ॥ 12-350-41 वासयामि जगद्विश्वमिति थ. पाठः ॥ 12-350-42 सर्वभूतानां ब्रह्मादीनां च भारतेति थ. पाठः ॥ 12-350-45 पृच्छन्त्येनं जिज्ञासवो धर्मजातमिति वा पृच्छन्त्येनं क्षुधितादय इति वा पृश्निर्वेदोऽन्नादि वा गर्भो गर्भस्थानि ॥