अध्यायः 349

श्रीहरेर्यज्ञेष्वग्रभागभाक्त्वप्रकारम् पृष्टेन सौतिना तत्कथनाय शौनकादीन् प्रति ब्रह्मादीनां श्वेतद्वीपगमनादिप्रतिपादकव्यासवैशम्पायनादिसंवादानुवादः ॥ 1 ॥ शौनक उवाच 001
कथं स भगवान्देवो यज्ञेष्वग्रहरः प्रभुः । 001a
यज्ञधारी च सततं वेदवेदाङ्गवित्तथा ॥ 001c
निवृत्तं चास्थितो धर्मं क्षेमी भागवतः प्रभुः । 002a
निवृत्तिधर्मान्विदधे स एव भगवान्प्रभुः ॥ 002c
कथं प्रवृत्तिधर्मेषु भागार्हा देवताः कृताः । 003a
कथं निवृत्तिधर्माश्च कृता व्यावृत्तबुद्धयः ॥ 003c
एतं नः संशयं सौते छिन्धि गुह्यं सनातनम् । 004a
त्वया नारायणकथाः श्रुता वै धर्मसंहिताः ॥ 004c
सौतिरुवाच 005
जनमेजयेन यत्पृष्टः शिष्यो व्यासस्य धीमतः । 005a
तत्तेऽहं कथयिष्यामि पौराणं शौनकोत्तम ॥ 005c
श्रुत्वा माहात्म्यमेतस्य देहिनां परमात्मनः । 006a
जनमेजयो महाप्राज्ञो वैशम्पायनमब्रवीत् ॥ 006c
इमे सब्रह्यका लोकाः ससुरासुरमानवाः । 007a
क्रियास्वभ्युदयोक्तासु सक्ता दृश्यन्ति सर्वशः ॥ 007c
मोक्षश्चोक्तस्त्वया ब्रह्मन्निर्वाणं परमं सुखम् । 008a
ये तु मुक्ता भवन्तीह पुण्यपापविवर्जिताः । 008c
ते सहस्रार्चिषं देवं प्रविशन्तीह शुश्रुम ॥ 008e
अयं हि दुरनुष्ठेयो मोक्षधर्मः सनातनः । 009a
यं हित्वा देवताः सर्वा हव्यकव्यभुजोऽभवन् ॥ 009c
किञ्च ब्रह्मा च रुद्रश्च बलभित्प्रभुः । 010a
सूर्यस्ताराधिपो वायुरग्निर्वरुण एव च ॥ 010c
आकाशं जगती चैव ये च शेषा दिवौकसः । 011a
प्रलयं न विजानन्ति आत्मनः परिनिर्मितम् ॥ 011c
ततस्तेनास्थिता मार्गं ध्रुवमक्षरमव्ययम् । 012a
स्मृत्वा कालपरीमाणं प्रवृत्तिं ये समास्थिताः । 012c
दोषः कालपरीमाणो महानेष क्रियावताम् ॥ 012e
एतन्मे संशयं विप्र हृदि शल्यमिवार्पितम् । 013a
छिन्धीतिहासकथनात्परं कौतूहलं हि मे ॥ 013c
कथं भागहराः प्रोक्ता देवताः क्रतुषु द्विज । 014a
किमर्थं चाध्वरे ब्रह्मन्निज्यन्ते त्रिदिवौकसः ॥ 014c
ये च भागं प्रगृह्णन्ति यज्ञेषु द्विजसत्तम । 015a
ते यजन्तो महायज्ञैः कस्य भागं ददन्ति वै ॥ 015c
वैशम्पायन उवाच 016
अहो गूढतमः प्रश्नस्त्वया पृष्टो जनेश्वर । 016a
नातप्ततपसा ह्येष नावेदविदुषा तथा । 016c
नापुराणविदा चैव शक्यो व्याहर्तुमञ्जसा ॥ 016e
हन्त ते कथयिष्यामि यन्मे पृष्टः पुरा गुरुः । 017a
कृष्णद्वैपायनो व्यासो वेदव्यासो महानृषिः ॥ 017c
सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः । 018a
अहं चतुर्थः शिष्यो वै पञ्चमश्च शुकः स्मृतः ॥ 018c
एतान्समागतान्सर्वान्पञ्च शिष्यान्दमान्वितान् । 019a
शौचाचारसमायुक्ताञ्जितक्रोधाञ्जितेन्द्रियान् ॥ 019c
वेदानध्यापयामास महाभारतपञ्चमान् । 020a
मेरौ गिरिवरे रम्ये सिद्धचारणसेविते ॥ 020c
तेषामभ्यस्यतां वेदान्कदाचित्संशयोऽभवत् । 021a
एष वै यस्त्वया पृष्टस्तेन तेषां प्रकीर्तितः ॥ 021c
ततः श्रुतो मया चापि तवाख्येयोऽद्य भारत ॥ 022ac
शिष्याणां वचनं श्रुत्वा सर्वाज्ञानतमोनुदः । 023a
पराशरसुतः श्रीमान्व्यासो वाक्यमथाब्रवीत् ॥ 023c
मया हि सुमहत्तप्तं तपः परमदारुणम् । 024a
भूतं भव्यं भविष्यं च जानीयामिति सत्तमाः ॥ 024c
तस्य मे तप्ततपसो निगृहीतेन्द्रियस्य च । 025a
नारायणप्रसादेन क्षीरोदस्यानुकूलतः ॥ 025c
त्रैकालिकमिदं ज्ञानं प्रादुर्भूतं यथेप्सितम् । 026a
तच्छृणुध्वं यथान्यायं वक्ष्ये संशयमुत्तमम् ॥ 026c
यथा वृत्तं हि कल्पादौ दृष्टं मे ज्ञानचक्षुषा । 027a
परमात्मेति यं प्राहुः साङ्ख्ययोगविदो जनाः ॥ 027c
महापुरुषसञ्ज्ञां स लभते स्वेन कर्मणा । 028a
तस्मात्प्रसूतमव्यक्तं प्रधानं तं विदुर्बुधाः ॥ 028c
अव्यक्ताद्व्यक्तमुत्पन्नं लोकसृष्ट्यर्थमीश्वरात् । 029a
अनिरुद्धो हि लोकेषु महानात्मेति कथ्यते ॥ 029c
योसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम् । 030a
योऽहङ्कार इति प्रोक्तः सर्वतेजोमयो हि सः ॥ 030c
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् । 031a
अहङ्कारप्रसूतानि महाभूतानि पञ्चधा ॥ 031c
महाभूतानि सृष्ट्वैव तान्गुणान्निर्ममे पुनः । 032a
भूतेभ्यश्चैव निष्पन्ना मूर्तिमन्तश्च ताञ्शृणु ॥ 032c
मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः । 033a
वसिष्ठश्च महात्मा वै मनुः स्वायम्भुवस्तथा । 033c
ज्ञेयाः प्रकृतयोऽष्टौ ता यासु लोकाः प्रतिष्ठिताः ॥ 033e
वेदान्वेदाङ्गसंयुक्तान्यज्ञयज्ञाङ्गसंयुतान् । 034a
निर्ममे लोकसिद्ध्यर्थं ब्रह्मा लोकपितामहः ॥ 034c
अष्टाभ्यः प्रकृतिभ्यश्च जातं विश्वमिदं जगत् ॥ 035ac
रुद्रो रोषात्मको जातो दशान्यान्सोसृजस्त्वयम् । 036a
एकादशैते रुद्रास्तु विकाराः पुरुषाः स्मृताः ॥ 036c
ते रुद्राः प्रकृतिश्चैव सर्वे चैव सुरर्षयः । 037a
उत्पन्ना लोकसिद्ध्यर्थं ब्रह्माणं समुपस्थिताः ॥ 037c
वयं सृष्टा हि भगवंस्त्वया च प्रभविष्णुना । 038a
येन यस्मिन्नधीकारे वर्तितव्यं पितामह ॥ 038c
योसौ त्वयाऽभिनिर्दिष्टो ह्यधिकारोऽर्थचिन्तकः । 039a
परिपाल्यः कथं तेन साहङ्कारेण कर्तृणा ॥ 039c
प्रदिशस्व बलं तस्य योऽधिकारार्थचिन्तकः । 040a
एवमुक्तो महादेवो देवांस्तानिदमब्रवीत् ॥ 040c
ब्रह्मोवाच 041
साध्वहं ज्ञापितो देवा युष्माभिर्भद्रमस्तु वः । 041a
ममाप्येषा समुत्पन्ना चिन्ता या भवतामिह ॥ 041c
लोकतन्त्रस्य कृत्स्नस्य कथं कार्यः परिग्रहः । 042a
कथं बलक्षयो न स्याद्युष्माकं ह्यात्मनश्च वै ॥ 042c
इतः सर्वेऽपि गच्छामः शरणं लोकसाक्षिणम् । 043a
महापुरुषमव्यक्तं स नो वक्ष्यति यद्धितम् ॥ 043c
ततस्ते ब्रह्मणा सार्धमृषयो विबुधास्तथा । 044a
क्षीरोदस्योत्तरं कूलं जग्मुर्लोकहितार्थिनः ॥ 044c
ते तपः समुपातिष्ठन्ब्रह्मोक्तं वेदकल्पितम् । 045a
स महानियमो नाम तपश्चर्या सुदारुणा ॥ 045c
ऊर्ध्वदृग्बाहवश्चैव एकाग्रमनसोऽभवन् । 046a
एकपादस्थिताः सर्वे काष्ठभूताः समाहिताः ॥ 046c
दिव्यं वर्षसहस्रं ते तपस्तप्त्वा सुदारुणम् । 047a
शुश्रुवुर्मधुरां वाणीं वेदवेदाङ्गभूषिताम् ॥ 047c
वागुवाच 048
भोभोः सब्रह्यका देवा ऋषयश्च तपोधनाः । 048a
स्वागतेनार्च्य वः सर्वाञ्श्रावये वाक्यमुत्तमम् ॥ 048c
विज्ञातं वो मया कार्यं तच्च लोकहितं महत् । 049a
प्रवृत्तियुक्तं कर्तव्यं युष्मत्प्राणोपबृंहणम् ॥ 049c
सुतप्तं वस्तपो देवा ममाराधनकाम्यया । 050a
भोक्ष्यथास्य महासत्वास्तपसः फलमुत्तमम् ॥ 050c
एष ब्रह्मा लोकगुरुः सर्वलोकपितामहः । 051a
यूयं च विबुधश्रेष्ठा मां यजध्वं समाहिताः ॥ 051c
सर्वे भागान्कल्पयध्वं यज्ञेषु मम नित्यशः । 052a
तत्र श्रेयोऽभिधास्यामि यथाऽधीकारमीश्वराः ॥ 052c
वैशम्पायन उवाच 053
श्रुत्वैतद्देवदेवस्य वाक्यं हृष्टतनूरुहाः । 053a
ततस्ते विबुधाः सर्वे ब्रह्मा ते च महर्षयः ॥ 053c
वेददृष्टेन विधिना वैष्णवं क्रतुमाहरन् । 054a
तस्मिन्सत्रे सदा ब्रह्मा स्वयं भागमकल्पयत् ॥ 054c
देवा देवर्षयश्चैव स्वंस्वं भागमकल्पयम् । 055a
ते कार्तयुगधर्माणो भागाः परमसत्कृताः ॥ 055c
प्राहुरादित्यवर्णं तं पुरुषं तमसः परम् । 056a
बृहन्तं सर्वगं देवमीशानं वरदं प्रभुम् ॥ 056c
ततोऽथ वरदो देवस्तान्सर्वानमरान्स्थितान् । 057a
अशरीरो बभाषेदं वाक्यं स्वस्थो महेश्वरः ॥ 057c
येन यः कल्पितो भागः स तथा मामुपागतः । 058a
प्रीतोऽहं प्रदिशाम्यद्य फलमावृत्तिलक्षणम् । 058c
एतद्वो लक्षणं देवा मत्प्रसादसमुद्भवम् ॥ 058e
यूयं यज्ञैरिज्यमानाः समाप्तवरदक्षिणैः । 059a
युगेयुगे भविष्यध्वं प्रवृत्तिफलभागिनः ॥ 059c
यज्ञैर्ये चापि यक्ष्यन्ति सर्वलोकेषु वै सुराः । 060a
कल्पयिष्यन्ति वो भागांस्ते नरा वेदकल्पितान् ॥ 060c
यो मे यथा कल्पितवान्भागमस्मिन्महाक्रतौ । 061a
स तथा यज्ञभागार्हो वेदसूत्रे मया कृतः ॥ 061c
यूयं लोकान्भावयध्वं यज्ञभागफलोचिताः । 062a
सर्वार्थचिन्तका लोके मयाऽधीकारनिर्मिताः ॥ 062c
याः क्रियाः प्रचरिष्यन्ति प्रवृत्तिफलसत्कृताः । 063a
ताभिराप्यायितबला लोकान्वै धारयिष्यथ ॥ 063c
यूयं हि भाविता यज्ञैः सर्वयज्ञेषु मानवैः । 064a
मां ततो भावयिष्यध्वमेषा वो भावना मम ॥ 064c
इत्यर्थं निर्मिता वेदा यज्ञाश्चौषधिभिः सह । 065a
एभिः सम्यक्प्रयुक्तैर्हि प्रीयन्ते देवताः क्षितौ ॥ 065c
निर्माणमेतद्युष्माकं प्रवृत्तिगुणकल्पितम् । 066a
मया कृतं सुरश्रेष्ठा यावत्कल्पक्षयादिह । 066c
चिन्तयध्वं लोकहितं यथाधीकारमीश्वराः ॥ 066e
मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः । 067a
वसिष्ठ इति सप्तैते मनसा निर्मिता हि ते ॥ 067c
एते वेदविदो मुख्या वेदाचार्याश्च कल्पिताः । 068a
प्रवृत्तिधर्मिणश्चैव प्राजापत्ये च कल्पिताः ॥ 068c
अयं क्रियावतां पन्था व्यक्तीभूतः सनातनः । 069a
अनिरुद्ध इति प्रोक्तो लोकसर्गकरः प्रभुः ॥ 069c
सनः सनत्सुजातश्च सनकः समनन्दनः । 070a
सनत्कुमारः कपिलः सप्तमश्च सनातनः ॥ 070c
सप्तैते मानसाः प्रोक्ता ऋषयो ब्रह्मणः सुताः । 071a
स्वयमागतविज्ञाना निवृत्तिं धर्ममास्थिताः ॥ 071c
एते योगविदो मुख्याः साङ्ख्यशास्त्रविशारदाः । 072a
आचार्या धर्मशास्त्रेषु मोक्षधर्मप्रवर्तकाः ॥ 072c
यतोऽहं प्रसृतः पूर्वमव्यक्तात्त्रिगुणो महान् । 073a
तस्मात्परतरो योसौ क्षेत्रज्ञ इति कल्पितः ॥ 073c
सोहं क्रियावतां पन्थाः पुनरावृत्तिदुर्लभः । 074a
यो यथा निर्मितो जन्तुर्यस्मिन्यस्मिंश्च कर्मणि ॥ 074c
प्रवृत्तौ वा निवृत्तौ वा तत्फलं सोश्नुतेऽवशः । 075a
एष लोकगुरुर्ब्रह्मा जगदादिकरः प्रभुः ॥ 075c
एष माता पिता चैव युष्माकं च पितामहः । 076a
मयाऽनुशिष्टो भविता सर्वभूतवरप्रदः ॥ 076c
अस्य चैवात्मजो रुद्रो ललाटाद्यः समुत्थितः । 077a
ब्रह्मानुशिष्टो भविता सर्वभूतधरः प्रभुः ॥ 077c
गच्छध्वं स्वानधीकारांश्चिन्तयध्वं यथाविधि । 078a
प्रवर्तन्तां क्रियाः सर्वाः सर्वलोकेषु माचिरम् ॥ 078c
प्रदिश्यन्तां च कर्माणि प्राणिनां गतयस्तथा । 079a
परिनिष्ठितकालानि आयूंषीह सुरोत्तमाः ॥ 079c
इदं कृतयुगं नाम कालः श्रेष्ठः प्रवर्तितः । 080a
अहिंस्या यज्ञपशवो युगेऽस्मिन्न तदन्यथा ॥ 080c
चतुष्पात्सकलो धर्मो भविष्यत्यत्र वै सुराः । 081a
ततस्त्रेतायुगं नाम त्रयी यत्र भविष्यति ॥ 081c
प्रोक्षिता यत्र पशवो वधं प्राप्स्यन्ति वै मखे । 082a
यत्र पादश्चतुर्थो वै धर्मस्य न भविष्यति ॥ 082c
ततो वै द्वापरं नाम मिश्रः कालो भविष्यति । 083a
द्विपादहीनो धर्मश्च युगे तस्मिन्भविष्यति ॥ 083c
ततस्तिष्येऽथ सम्प्राप्ते युगे कलिपुरस्कृते । 084a
एकपादस्थितो धर्मो यत्र तत्र भविष्यति ॥ 084c
देवा ऊचुः 085
देवा देवर्षयश्चोचुस्तमेवंवादिनं गुरुम् । 085a
एकपादस्थिते धर्मे यत्र क्वचन गामिनि । 085c
कथं कर्तव्यमस्माभिर्भगवंस्तद्वदस्व नः ॥ 085e
श्रीभगवानुवाच 086
'गुरवो यत्र पूज्यन्ते साधुवृत्तसमन्विताः । 086a
वस्तव्यं तत्र युष्माभिर्यत्र धर्मो न हीयते ॥' 086c
यत्र वेदाश्च यज्ञाश्च तपः सत्यं दमस्तथा । 087a
अहिंसा धर्मसंयुक्ताः प्रचरेयुः सुरोत्तमाः । 087c
स वो देशः सेवितव्यो मा वोऽधर्मः पदा स्पृशेत् ॥ 087e
व्यास उवाच 088
तेऽनुशिष्टा भगवता देवाः सर्षिगणास्तथा । 088a
नमस्कृत्वा भगवते जग्मुर्देशान्यथेप्सितान् ॥ 088c
गतेषु त्रिदिवौकस्सु ब्रह्मैकः पर्यवस्थितः । 089a
दिदृक्षुर्भगवन्तं तमनिरुद्धतनौ स्थितम् ॥ 089c
तं देवो दर्शयामास कृत्वा हयशिरो महत् । 090a
साङ्गानावर्तयन्वेदान्कमण्डलुत्रिदण्डधृक् ॥ 090c
ततोऽश्वशिरसं दृष्ट्वा तं देवममितौजसम् । 091a
लोककर्ता प्रभुर्ब्रह्मा लोकानां हितकाम्यया ॥ 091c
मूर्ध्ना प्रणम्य वरदं तस्थौ प्राञ्जलिरग्रतः । 092a
स परिष्वज्य देवेन वचनं श्रावितस्तदा ॥ 092c
भगवानुवाच 093
लोककार्यगतीः सर्वास्त्वं चिन्तय यथाविधि । 093a
धाता त्वं सर्वभूतानां त्वं प्रभुर्जगतो गुरुः । 093c
त्वय्यावेशितभारोऽहं धृतिं प्राप्स्याम्यथाञ्जसा ॥ 093e
यदा च सुरकार्यं ते अविषह्यं भविष्यति । 094a
प्रादुर्भावं गमिष्यामि तदात्मज्ञानदैशिकः ॥ 094c
व्यास उवाच 095
एवमुक्त्वा हयशिरास्तत्रैवान्तरधीयत । 095a
तेनानुशिष्टो ब्रह्मापि स्वं लोकमचिराद्गतः ॥ 095c
एवमेष महाभागः पद्मनाभः सनातनः । 096a
यज्ञेष्वग्रहरः प्रोक्तो यज्ञधारी च नित्यदा ॥ 096c
निवृत्तिं चास्थितो धर्मं गतिमक्षयधर्मिणाम् । 097a
प्रवृत्तिधर्मान्विदधे कृत्वा लोकस्य चित्रताम् ॥ 097c
स आदिः स मध्यः स चान्तः प्रजानां स धाता स धेयं स कर्ता स कार्यम् । 098a
युगान्ते प्रसुप्तः सुसङ्क्षिप्य लोकान्युगादौ प्रबुद्धो जगद्ध्युत्ससर्ज ॥ 098c
तस्मै नमध्वं देवाय निर्गुणाय महात्मने । 099a
अजाय विश्वरूपाय धाम्ने सर्वदिवौकसाम् ॥ 099c
महाभूताधिपतये रुद्राणां पतये तथा । 100a
आदित्यपतये चैव वसूनां पतये तथा ॥ 100c
अश्विभ्यां पतये चैव मरुतां पतये तथा । 101a
वेदयज्ञाधिपतये वेदाङ्गपतयेऽपि च ॥ 101c
समुद्रवासिने नित्यं हरये मुञ्जकेशिने । 102a
शान्ताय सर्वभूतानां मोक्षधर्मानुभाषिणे ॥ 102c
तपसां तेजसां चैव पतये यशसामपि । 103a
वचसां पतये नित्यं सरितां पतये तथा ॥ 103c
कपर्दिने वराहाय एकशृङ्गाय धीमते । 104a
विवस्वतेऽश्वशिरसे चतुर्मूर्तिधृते सदा । 104c
सूक्ष्माय ज्ञानदृश्याय अजरायाक्षयाय च ॥ 104e
एष देवः सञ्चरति सर्वत्र गतिरव्ययः । 105a
[एष चैतत्परं ब्रह्म ज्ञेयो विज्ञानचक्षुषा ॥] 105c
एवमेतत्पुरा दृष्टं मया वै ज्ञानचक्षुषा । 106a
कथितं तच्च वै सर्वं मया पृष्टेन तत्त्वतः ॥ 106c
क्रियतां मद्वचः शिष्याः सेव्यतां हरिरीश्वरः । 107a
गीयतां वेदशब्दैश्च पूज्यतां च यथाविधि ॥ 107c
वैशम्पायन उवाच 108
इत्युक्तास्तु वयं तेन वेदव्यासेन धीमता । 108a
सर्वे शिष्या सुतश्चास्य शुकः परमधर्मवित् ॥ 108c
स चास्माकमुपाध्यायः सहास्माभिर्विशाम्पते । 109a
चतुर्वेदोद्गताभिस्तमृग्भिः समभितुष्टुवे ॥ 109c
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि । 110a
एवं मेऽकथयद्राजन्पुरा द्वैपायनो गुरुः ॥ 110c
यश्चेदं शृणुयान्नित्यं यश्चैनं परिकीर्तयेत् । 111a
नमो भगवते कृत्वा समाहितमतिर्नरः ॥ 111c
भवत्यरोगो मतिमान्बलरूपसमन्वितः । 112a
आतुरो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ॥ 112c
कामकामी लभेत्कामं दीर्घं चायुरवाप्नुयात् । 113a
ब्राह्मणः सर्ववेदी स्यात्क्षत्रियो विजयी भवेत् ॥ 113c
वैश्यो विपुललाभः स्याच्छूद्रः सुखमवाप्नुयात् । 114a
अपुत्रो लभते पुत्रं कन्या चैवेप्सितं पतिम् ॥ 114c
लग्नगर्भा विमुच्येत गर्भिणी जनयेत्सुतम् । 115a
वन्ध्या प्रसवमाप्नोति पुत्रपौत्रसमृद्धिमत् ॥ 115c
क्षेमेण गच्छेदध्वानमिदं यः पठते पथि । 116a
यो यं कामं कामयते स तमाप्नोति च ध्रुवम् ॥ 116c
इदं महर्षेर्वचनं विनिश्चितं महात्मनः पुरुषवरस्य कीर्तितम् । 117a
समागमं चर्षिदिवौकसामिमं निशम्य भक्ताः सुसुखं लभन्ते ॥ 117c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये एकोनपञ्चाशदधिकत्रिशततमोऽध्यायः ॥ 349 ॥

12-349-1 यज्ञेष्वाहूयते प्रभुरिति ट. ध. पाठः ॥ 12-349-2 क्षेमं भागवतं प्रभुरिति ट. पाठः ॥ 12-349-12 स्मृतिकालपरीमाणमिति झ. पाठः ॥ 12-349-29 लोकेषु महाराजेति कथ्यत इति थ. पाठः ॥ 12-349-32 निष्पन्नानष्टौ मूर्तिमतः शृण्विति ध. पाठः ॥ 12-349-35 निर्ममे लोकसृष्ट्यर्थमिति थ. ध. पाठः ॥ 12-349-90 कमण्डलुपवित्रधृगिति ध. पाठः ॥ 12-349-94 तदात्मज्ञानयोगजमिति ट. ध. पाठः ॥