अध्यायः 348
श्वेतद्वीपस्थेन हरिणा नारदम् प्रति स्वदशावतारचरित्रकथनम् ॥ 1 ॥
भीष्म उवाच 001
नारदः परिप्रपच्छ भगवन्तं जनार्दनम् । 001a
एकार्णवे महाघोरे नष्टे स्थावरजङ्गमे | 001c
केषुकेषु च भावेषु द्रष्टव्योऽसि महाप्रभो || 001e
श्रीभगवानुवाच 002
शृणु नारद तत्वेन प्रादुर्भावान्महामुने । 002a
मत्स्यः कूर्मो वराहश्च नरसिंहोऽथ वामनः । 002c
रामो रामश्च रामश्च बुद्धः कल्कीति ते दश ॥ 002e
पूर्वं मीनो भविष्यामि स्थापयिष्याम्यहं प्रजाः । 003a
लोकान्वै धारयिष्यामि मज्जमानान्महार्णवे ॥ 003c
द्वितीयः कूर्मरूपो मे हेमकूटनिभः स्मृतः । 004a
मन्दरं धारयिष्यामि अमृतार्थं द्विजोत्तम ॥ 004c
मग्नां महार्णवे घोरे भाराक्रान्तां भुवं पुनः । 005a
ततो बलादहं विद्वन्सर्वभूतहिताय वै ॥' 005c
सत्वैराक्रान्तसर्वाङ्गां नष्टां सागरमेखलाम् । 006a
आनयिष्यामि स्वं स्थानं वाराहं रूपमास्थितः । 006c
हिरण्याक्षं हनिष्यामि दैतेयं बलगर्वितम् ॥ 006e
नारसिंहं वपुः कृत्वा हिरण्यकशिपुं पुनः । 007a
सुरकार्ये हनिष्यामि यज्ञघ्नं दितिनन्दनम् ॥ 007c
विरोचनस्य बलवान्बलिः पुत्रो महासुरः । 008a
अवध्यः सर्वलोकानां सदेवासुररक्षसाम् । 008c
भविष्यति स शक्रं च स्वराज्याच्च्यावयिष्यति ॥ 008e
त्रैलोक्येऽपहृते तेन विमुखे च शचीपतौ । 009a
अदित्यां द्वादशः पुत्रः सम्भविष्यामि कश्यपान् ॥ 009c
'वटुर्गत्वा यज्ञसदः स्तूयमानो द्विजोत्तमैः । 010a
यज्ञस्तुतिं करिष्यामि श्रुत्वा प्रीतो भवेद्बलिः ॥ 010c
किमिच्छसि वटो ब्रूहीत्युक्तो याचे महद्वरम् । 011a
दीयतां त्रिपदीमात्रमिति याचे महाऽऽसुरम् ॥ 011c
स दद्यान्मयि सम्प्रीतः प्रतिषिद्धश्च मन्त्रिभिः । 012a
यावज्जलं हस्तगतं त्रिभिर्विक्रमणैर्युतम् ॥' 012c
ततो राज्यं प्रदास्यामि शक्रायामिततेजसे । 013a
देवताः स्थापयिष्यामि स्वस्वस्थानेषु नारद ॥ 013c
बलिं चैव करिष्यामि पातालतलवासिनम् । 014a
दानवं च बलिश्रेष्ठमवध्यं सर्वदैवतैः ॥ 014c
त्रेतायुगे भविष्यामि रामो भृगुकुलोद्वहः । 015a
क्षत्रं चोत्सादयिष्यामि समृद्धबलवाहनम् ॥ 015c
सन्धौ तु समनुप्राप्ते त्रेतायां द्वापरस्य च । 016a
रामो दाशरथिर्भूत्वा भविष्यामि जगत्पतिः ॥ 016c
त्रितोपघाताद्वैरूप्यमेकतोऽथ द्वितस्तथा । 017a
प्राप्स्येते वानरत्वं हि प्रजापतिसुतावृषी ॥ 017c
तयोर्ये त्वन्वये जाता भविष्यन्ति वनौकसः । 018a
महाबला महावीर्याः शक्रतुल्यपराक्रमाः । 018c
ते सहाया भविष्यन्ति सुरकार्ये मम द्विज ॥ 018e
ततो रक्षःपतिं घोरं पुलस्त्यकुलपांसनम् । 019a
हनिष्ये रावणं रौद्रं सगणं लोककण्टकम् ॥ 019c
'विभीषणाय दास्यामि राज्यं तस्य यथाक्रमम् | 020a
अयोध्यावासिनः सर्वान्नेष्येऽहं लोकमव्ययम् ॥' 020c
द्वापरस्य कलेश्चैव सन्धौ पार्यवसानिके । 021a
प्रादुर्भावः कंसहेतोर्मथुरायां भविष्यति ॥ 021c
तत्राहं दानवान्हत्वा सुबहून्देवकण्टकान् । 022a
कुशस्थलीं करिष्यामि निवासं द्वारकां पुरीम् ॥ 022c
वसानस्तत्र वै पुर्यामदितेर्विप्रियङ्करम् । 023a
हनिष्ये नरकं भौमं मुरं पीठं च दानवम् ॥ 023c
प्राग्ज्योतिषं पुरं रम्यं नानाधनसमन्वितम् । 024a
कुशस्थलीं नष्यिष्यामि हत्वा वै दानवोत्तमान् ॥ 024c
'कृकलासभूतं च नृगं मोचयिष्ये च वै पुनः ॥ 025ac
तत्र पौत्रनिमित्तेन गत्वा वै शोणितं पुरम् । 026a
बाणस्य च पुरं गत्वा करिष्ये कदनं महत् ॥' 026c
शङ्करं समहासेनं बाणप्रियहिते रतम् । 027a
पराजेष्याम्यथोद्युक्तौ देवौ लोकनमस्कृतौ ॥ 027c
ततः सुतं बलेर्जित्वा बाणं बाहुसहस्रिणम् । 028a
विनाशयिष्यामि ततः सर्वान्सौभनिवासिनः ॥ 028c
यः कालयवनः ख्यातो गर्गतेजोभिसंवृतः । 029a
भविष्यति वधस्तस्य मत्त एव द्विजोत्तम ॥ 029c
'कंसं केशिं तथाक्रूरमरिष्टं च महासुरम् । 030a
चाणूरं च महावीर्यं मुष्टिकं च महाबलम् ॥ 030c
प्रलम्बं धेनुकं चैव अरिष्टं वृषरूपिणम् । 031a
कालीयं च वशे कृत्वा यमुनाया महाह्रदे ॥ 031c
गोकुलेषु ततः पश्चाद्भवार्थे तु महागिरिम् । 032a
सप्तरात्रं धरिष्यामि वर्षमाणे तु वासवे ॥ 032c
अपक्रान्ते ततो वर्षे गिरिमूर्ध्नि व्यवस्थितः । 033a
इन्द्रेण सह संवादं करिष्यामि तदा द्विज । 033c
लघ्वाच्छिद्य धनं सर्वं वासुदेवं च पौण्ड्रकम् ॥' 033e
जरासन्धश्च बलवान्सर्वराजविरोधनः | 034a
भविष्यत्यसुरः स्फीतो भूमिपालो गिरिव्रजे ॥ 034c
मम बुद्धिपरिस्पन्दाद्वधस्तस्य भविष्यति । 035a
शिशुपालं वधिष्यामि यज्ञे धर्मसुतस्य वै ॥ 035c
'दुर्योधनापराधेन युधिष्ठिरगुणेन च ।' 036a
समागतेषु बलिषु पृथिव्यां सर्वराजसु ॥ 036c
वासविः सुसहायो वै मम त्वेको भविष्यति । 037a
युधिष्ठिरं स्थापयिष्ये स्वराज्ये भ्रातृभिः सह ॥ 037c
एवं लोका वदिष्यन्ति नरनारायणावृषी । 038a
उद्युक्तौ दहतः क्षत्रं लोककार्यार्थमीश्वरौ ॥ 038c
'शस्त्रैर्निपतिताः सर्वे नृपा यास्यन्ति वै दिवम् ॥' 039ac
कृत्वा भारावतरणं वसुधाया यथेप्सितम् । 040a
सर्वसात्वतमुख्यानां द्वारकायाश्च सत्तम ॥ 040c
करिष्ये प्रलयं घोरमात्मज्ञानाभिसंश्रयः । 041a
'द्वारकामात्मसात्कृत्वा समुद्रं गमयाम्यहम् ॥ 041c
ततः कलियुगस्यादौ द्विजराजतरुं श्रितः । 042a
भीषया मागधेनैव धर्मराजगृहे वसन् ॥ 042c
काषायवस्त्रसंवीतो मुण्डितः शुक्लदन्तवान् । 043a
शुद्धोदनसुतो बुद्धो मोहयिष्यामि मानवान् ॥ 043c
शूद्राः शुद्धेषु भुज्यन्ते मयि बुद्धत्वमागते । 044a
भविष्यन्ति नराः सर्वे बुद्धाः काषायसंवृताः ॥ 044c
अनध्याया भविष्यन्ति विप्रा यागविवर्जिताः । 045a
अग्निहोत्राणि सीदन्ति गुरुपूजा च नश्यति ॥ 045c
न शृण्वन्ति पितुः पुत्रा न स्नुषा नैव भ्रातरः । 046a
न पौत्रा न कलत्रा वा वर्तन्तेऽप्यधमोत्तमाः ॥ 046c
एवम्भूतं जगत्सर्वं श्रुतिस्मृतिविवर्जितम् । 047a
भविष्यति कलौ पूर्णे ह्यशुद्धो धर्मसङ्करः ॥ 047c
तेषां सकाशाद्धर्मज्ञा देवब्रह्मविदो नराः । 048a
भविष्यन्ति ह्यशुद्धाश्च न्यायच्छलविभाषिणः ॥ 048c
ये नष्टधर्मश्रोतारस्ते समाः पापनिश्चये । 049a
तस्मादेता न सम्भाष्या न स्पृश्या च हितार्थिभिः । 049c
उपवासत्रयं कुर्यात्तत्संसर्गविशुद्धये ॥ 049e
ततः कलियुगस्यान्ते ब्राह्मणो हरिपिङ्गलः । 050a
कल्किर्विष्णुयशः पुत्रो याज्ञवल्क्यः पुरोहितः ॥ 050c
तस्मिन्नाशे वनग्रामे तिष्ठेत्सोन्नासिमो हयः । 051a
सहया ब्राह्मणाः सर्वे तैरहं सहितः पुनः । 051c
म्लेच्छानुत्सादयिष्यामि पाषण्डांश्चैव सर्वशः ॥ 051e
पाषण्डश्च कलौ तत्र माययैव विनश्यते । 052a
पाषण्डकांश्चैव हत्वा तत्रान्तं प्रलये ह्यहम् ॥ 052c
ततः पश्चाद्भविष्यामि यज्ञेषु निरतः सदा । 053a
राज्यं प्रशासति पुनः कुन्तीपुत्रे युधिष्ठिरे ॥' 053c
कर्माण्यपरिमेयानि चतुर्मूर्तिधरो ह्यहम् । 054a
कृत्वा लोकान्गमिष्यामि स्वानहं ब्रह्मसत्कृतान् ॥ 054c
हंसः कूर्मश्च मत्स्यश्च प्रादुर्भावा द्विजोत्तम । 055a
वराहो नरसिंहश्च वामनो राम एव च । 055c
रामो दाशरथिश्चैव सात्वतः कल्किरेव च ॥ 055e
यदा वेदश्रुतिर्नष्टा मया प्रत्याहृता पुनः । 056a
सवेदाः सश्रुतीकाश्च कृताः पूर्वं कृते युगे ॥ 056c
अतिक्रान्ताः पुराणेषु श्रुतास्ते यदि वा क्वचित् । 057a
अतिक्रान्ताश्च बहवः प्रादुर्भावा ममोत्तमाः ॥ 057c
लोककार्याणि कृत्वा च पुनः स्वां प्रकृतिं गताः । 058a
न ह्येतद्ब्रह्मणा प्राप्तमीदृशं मम दर्शनम् ॥ 058c
यत्त्वया प्राप्तमद्येह एकान्तगतबुद्धिना । 059a
एतत्ते सर्वमाख्यातं ब्रह्मन्भक्तिमतो मया । 059c
पुराणं च भविष्यं च सरहस्यं च सत्तम ॥ 059e
भीष्म उवाच 060
एवं स भगवान्देवो विश्वमूर्तिधरोऽव्ययः । 060a
एतावदुक्त्वा वचनं तत्रैवान्तर्दधे पुनः ॥ 060c
नारदोऽपि महातेजाः प्राप्यानुग्रहमीप्सितम् । 061a
नरनारायणौ द्रष्टुं बदर्याश्रममाद्रवत् ॥ 061c
इदं महोपनिषदं चतुर्वेदसमन्वितम् । 062a
साङ्ख्ययोगकृतं तेन पञ्चरात्रानुशब्दितम् ॥ 062c
नारायणमुखोद्गीतं नारदोऽश्रावयत्पुनः । 063a
ब्रह्मणः सदने तात यथादृष्टं यथाश्रुतम् ॥ 063c
युधिष्ठिर उवाच 064
एतदाश्चर्यभूतं हि माहात्म्यं तस्य धीमतः । 064a
किं वै ब्रह्मा न जानीते यतः शुश्राव नारदात् ॥ 064c
पितामहोऽपि भगवांस्तस्माद्देवादनन्तरः । 065a
कथं स न विजानीयात्प्रभावममितौजसः ॥ 065c
भीष्म उवाच 066
महाकल्पसहस्राणि महाकल्पशतानि च । 066a
समतीतानि राजेन्द्र सर्गाश्च प्रलयाश्च ह ॥ 066c
सर्गस्यादौ स्मृतो ब्रह्मा प्रजासर्गकरः प्रभुः । 067a
जानाति देवप्रवरं भूयश्चातोधिकं नृप । 067c
परमात्मानमीशानमात्मनः प्रभवं तथा ॥ 067e
ये त्वन्ये ब्रह्मसदने सिद्धसङ्घाः समागताः । 068a
तेभ्यस्तच्छ्रावयामास पुराणं वेदसम्मितम् ॥ 068c
अष्टाविंशत्सहस्राणि ऋषीणां भावितात्मनाम् । 069a
आत्मानुगामिनां ब्रह्मा श्रावयामास तत्वतः । 069c
एवं पुरा प्राप्तमिदं भानुना मुनिभाषितम् ॥ 069e
वर्षषष्टिसहस्राणि षष्टिवर्षशतानि च । 070a
सूर्यस्य तपतो लोकान्निर्मिता ये पुरःसराः । 070c
तेषामकथयत्सूर्यः सर्वेषां भावितात्मनाम् ॥ 070e
सूर्यानुगामिभिस्तात ऋषिभिस्तैर्महात्मभिः । 071a
मेरौ समागता देवाः श्राविताश्चेदनुत्तमम् ॥ 071c
देवानां तु सकाशाद्वै ततः श्रुत्वाऽसितो द्विजः । 072a
श्रावयामास राजेन्द्र पितॄन्वै मुनिसत्तमः ॥ 072c
मम चापि पिता तात कथयामास शन्तनुः । 073a
ततो मयापि श्रुत्वा च कीर्तितं तव भारत ॥ 073c
सुरैर्वा मुनिभिर्वापि पुराणं यैरिदं श्रुतम् । 074a
सर्वे ते परमात्मानं पूजयन्ते समन्ततः ॥ 074c
इदमाख्यानमार्षेयं पारम्पर्यागतं नृप । 075a
नावासुदेवभक्ताय त्वया देयं कथञ्चन ॥ 075c
'आख्यानमुत्तमं चेदं श्रावयेद्यः सदा नृप । 076a
तदैव मनुजो भक्तः शुचिर्भूत्वा समाहितः । 076c
प्राप्नुयादचिराद्राजन्विष्णुलोकं च शाश्वतम् ॥' 076e
मत्तोन्यानि च ते राजन्नुपाख्यानशतानि वै । 077a
यानि श्रुतानि सर्वाणि तेषां सारोयमुद्धृतः ॥ 077c
सुरासुरैर्यथा राजन्निर्मथ्यामृतमुद्धृतम् । 078a
एवमेतत्पुरा विप्रैः कथामृतमिहोद्धृतम् ॥ 078c
यश्चेदं पठते नित्यं यश्चेदं शृणुयान्नरः । 079a
एकान्तभावोपगत एकान्ते सुसमाहितः ॥ 079c
प्राप्य श्वेतं महाद्वीपं भूत्वा चन्द्रप्रभो नरः । 080a
स सहस्रार्चिषं देवं प्रविशेन्नात्र संशयः ॥ 080c
मुच्येदार्तस्तथा रोगाच्छ्रुत्वेमामादितः कथाम् । 081a
जिज्ञासुर्लभते कामान्भक्तो भक्तगतिं व्रजेत् ॥ 081c
त्वयापि सततं राजन्नभ्यर्च्यः पुरुषोत्तमः । 082a
स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः ॥ 082c
ब्रह्मण्यदेवो भगवान्प्रीयतां ते सनातनः । 083a
युधिष्ठिर महाबाहो महाबुद्धिर्जनार्दनः ॥ 083c
वैशम्पायन उवाच 084
श्रुत्वैतदाख्यानवरं धर्मराड्जनमेजय । 084a
भ्रातरश्चास्य ते सर्वे नारायणपराभवन् ॥ 084c
जितं भगवता तेन पुरुषेणेति भारत । 085a
नित्यं जप्यपरा भूत्वा सारस्वतमुदीरयन् ॥ 085c
यो ह्यस्माकं गुरुः श्रेष्ठः कृष्णद्वैपायनो मुनिः । 086a
जगौ परमकं जप्यं नारायणमुदीरयन् ॥ 086c
गत्वान्तरिक्षात्सततं क्षीरोदममृताशयम् । 087a
पूजयित्वा च देवेशं पुनरायात्स्वमाश्रमम् ॥ 087c
भीष्म उवाच 088
एतत्ते सर्वमाख्यातं नारदोक्तं मयेरितम् । 088a
पारम्पर्यागतं ह्येतत्पित्रा मे कथितं पुरा ॥ 088c
सौतिरुवाच 089
एतत्ते सर्वमाख्यातं वैशम्पायनकीर्तितम् । 089a
जनमेजयेन तच्छ्रुत्वा कृतं सम्यग्यथाविधि ॥ 089c
यूयं हि तप्ततपसः सर्वे च चरितव्रताः । 090a
शौनकस्य महासत्रं प्राप्ताः सर्वे द्विजोत्तमाः || 090c
यजध्वं सुहुतैर्यज्ञैः शाश्वतं परमेश्वरम् । 091a
पारम्पर्यागतं ह्येतत्पित्रा मे कथितं पुरा ॥ 091c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये अष्टचत्वारिंशदधिकत्रिशततमोऽध्यायः ॥ 348 ॥
12-348-2 रामश्च कृष्णः कल्की च ते दशेति थ. पाठः ॥ 12-348-6 यज्ञघ्नं बलगर्वितमिति ध. पाठः ॥ 12-348-9 अदित्यां द्वादशादित्य इति झ. पाठः ॥ 12-348-15 ततः कृतयुगे प्राप्ते द्वात्रिंशद्युगपर्यये । भविष्यामि ऋषिस्तत्र जमदग्निकुलोद्भवः । इति ध. पाठः ॥ 12-348-19 रावणं दृप्तं सर्वलोकैककण्टकमिति ट. पाठः ॥ 12-348-21 द्वापरस्य कलेश्चैव अष्टाविंशच्चतुर्युगे । प्रादुर्भावं करिष्यामि भूयो वृष्णिकुलोद्भवः । मधुरायां कंसहेतोर्वासुदेवेति नामतः । तृतीयो राम इत्येव वसुदेवसुतो बलीति थ. ध. पाठः । कलेश्चैव अष्टाविंशच्चतुर्युगे इति ध. पाठः ॥ 12-348-58 ईदृशं ब्रह्मदर्शनमिति ध. पाठः ॥