अध्यायः 347
भीष्मेण युधिष्ठिरम् प्रति नारदाय श्वेतद्वीपस्थहर्युक्तस्वकृतसृष्टिप्रकारानुवादः ॥ 1 ॥
भीष्म उवाच 001
एवं स्तुतः स भगवान् गुह्यैस्तथ्यैश्च नामभिः । 001a
'भगवान्विश्वसृक्सिंहः सर्वमूर्तिमयः प्रभुः ।' 001c
दर्शयामास मुनये रूपं तत्परमं हरिः ॥ 001e
किञ्चिच्चन्द्राद्विशुद्धात्मा किञ्चिच्चन्द्राद्विशेषवान् । 002a
कृशानुवर्णः किञ्चिच्च किञ्चिद्धिष्ण्याकृतिः प्रभुः ॥ 002c
शुकपत्रनिभः किञ्चित्किञ्चित्स्फटिकसन्निभः । 003a
नीलाञ्जनचयप्रख्यो जातरूपप्रभः क्वचित् ॥ 003c
प्रबालाङ्कुरवर्णश्च श्वेतवर्णस्तथा क्वचित् । 004a
क्वचित्सुवर्णवर्णाभो वैदूर्यसदृशः क्वचित् ॥ 004c
नीलवैर्दूर्यसदृश इन्द्रनीलनिभः क्वचित् । 005a
मयूरग्रीववर्णाभो मुक्ताहारनिभः क्वचित् ॥ 005c
एतान्बहुधान्वर्णान्रूपैर्बिभ्रत्सनातनः । 006a
सहस्रनयनः श्रीमाञ्छतशीर्षः सहस्रपात् ॥ 006c
सहस्रोदरबाहुश्च अव्यक्त इति च क्वचित् । 007a
ओङ्कारमुद्गिरन्वक्त्रात्सावित्रीं च तदन्वयाम् ॥ 007c
शेषेभ्यश्चैव वक्त्रेभ्यश्चतुर्वेदान्गिरन्बहून् । 008a
आरण्यकं जगौ देवो हरिर्नारायणो वशी ॥ 008c
वेदिं कमण्डलुं दर्भान्मणिरूपांस्तथा कुशान् । 009a
अजिनं दण्डकाष्ठं च ज्वलितं च हुताशनम् । 009c
धारयामास देवेशो हस्तैर्यज्ञपतिस्तदा ॥ 009e
तं प्रसन्नं प्रसन्नात्मा नारदो द्विजसत्तमः । 010a
वाग्यतः प्रणतो भूत्वा ववन्दे परमेश्वरम् ॥ 010c
तमुवाच नतं मूर्ध्ना देवानामादिरव्ययः ॥ 011ac
श्रीभगवानुवाच 012
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः । 012a
इमं देशमनुप्राप्ता मम दर्शनलालसाः ॥ 012c
न च मां ते ददृशिरे न च द्रक्ष्यति कश्चन । 013a
ऋते ह्यैकान्तिकश्रेष्ठात्त्वं चैवैकान्तिकोत्तम ॥ 013c
ममैतास्तनवः श्रेष्ठा जाता धर्मगृहे द्विज । 014a
तास्त्वं भजस्व सततं साधयस्व यथागतम् ॥ 014c
वृणीष्व च वरं विप्र मत्तस्त्वं यदिहेच्छसि । 015a
प्रसन्नोऽहं तवाद्येह विश्वमूर्तिरिहाव्ययः ॥ 015c
नारद उवाच 016
अद्य मे तपसो देव यमस्य नियमस्य च । 016a
सद्यः फलमवाप्तं वै दृष्टो यद्भगवान्मया ॥ 016c
वर एष ममात्यन्तं दृष्टस्त्वं यत्सनातनः । 017a
भगवन्विश्वदृक् सिंहः सर्वमूर्तिर्महान्प्रभुः ॥ 017c
भीष्म उवाच 018
एवं सन्दर्शयित्वा तु नारदं परमेष्ठिजम् । 018a
उवाच वचनं भूयो गच्छ नारद माचिरम् ॥ 018c
इमे ह्यनिन्द्रियाहारा मद्भक्ताश्चन्द्रवर्चसः । 019a
एकाग्राश्चिन्तयेयुर्मां नैषां विघ्नो भवेदिति ॥ 019c
सिद्धा ह्येते महाभागाः पुरा ह्येकान्तिनोऽभवन् । 020a
तमोरजोभिर्निर्मुक्ता मां प्रवेक्ष्यन्त्यसंशयम् ॥ 020c
न दृश्यश्चक्षुषा योऽसौ न स्पृश्यः स्पर्शनेन च । 021a
न घ्रेयश्चैव गन्धेन रसेन च विवर्जितः ॥ 021c
सत्वं रजस्तमश्चैव न गुणास्तं भजन्ति वै । 022a
यश्च सर्वगतः साक्षी लोकस्यात्मेति कथ्यते ॥ 022c
भूतग्रामशरीरेषु नश्यत्सु न विनश्यति । 023a
अजो नित्यः शाश्वतश्च निर्गुणो निष्कलस्तथा ॥ 023c
द्विर्द्वादशेभ्यस्तत्त्वेभ्यः ख्यातो यः पञ्चविंशकः । 024a
पुरुषो निष्क्रियश्चैव ज्ञानदृश्यश्च कथ्यते ॥ 024c
यं प्रविश्य भवन्तीह मुक्ता वै द्विजसत्तमाः । 025a
स वासुदेवो विज्ञेयः परमात्मा सनातनः ॥ 025c
पश्य देवस्य माहात्म्यं महिमानं च नारद । 026a
शुभाशुभैः कर्मभिर्यो न लिप्यति कदाचन ॥ 026c
सत्वं रजस्तमश्चेति गुणानेतान्प्रचक्षते । 027a
एते सर्वशरीरेषु तिष्ठन्ति विचरन्ति च ॥ 027c
एतान्गुणांस्तु क्षेत्रज्ञो भुङ्क्ते नैभिः स भुज्यते । 028a
निर्गुणो गुणभुक्चैव गुणस्रष्टा गुणातिगः ॥ 028c
जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते । 029a
ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते ॥ 029c
खे वायुः प्रलयं याति मनस्याकाशमेव च । 030a
मनो हि परमं भूतं तदव्यक्ते प्रलीयते ॥ 030c
अव्यक्तं पुरुषे ब्रह्मन्निष्क्रिये सम्प्रलीयते । 031a
नास्ति तस्मात्परतरः पुरुषाद्वै सनातनात् ॥ 031c
नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् । 032a
ऋते तमेकं पुरुषं वासुदेवं सनातनम् । 032c
सर्वभूतात्मभूतो हि वासुदेवो महाबलः ॥ 032e
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् । 033a
ते समेता महात्मानः शरीरमिति सञ्ज्ञितम् ॥ 033c
तदाविशति यो ब्रह्मन्न दृश्यो लघुविक्रमः । 034a
उत्पन्न एव भवति शरीरं चेष्टयन्प्रभुः ॥ 034c
न विना धातुसङ्घातं शरीरं भवति क्वचित् । 035a
न च जीवं विना ब्रह्मन्वायवश्चेष्टयन्त्युत ॥ 035c
स जीवः परिसङ्ख्यातः शेषः सङ्कर्षणः प्रभुः । 036a
तस्मात्सनत्कुमारत्वं योऽलभत्स्वेन कर्मणा ॥ 036c
यस्मिंश्च सर्वभूतानि प्रद्युम्नः परिपठ्यते । 037a
तस्मात्प्रसूतो यः कर्ता कारणं कार्यमेव च ॥ 037c
तस्मात्सर्वं सम्भवति जगत्स्थावरजङ्गमम् । 038a
सोऽनिरुद्धः स ईशानो व्यक्तिः सा सर्वकर्मसु ॥ 038c
यो वासुदेवो भगवान्क्षेत्रज्ञो निर्गुणात्मकः । 039a
ज्ञेयः स एव राजेन्द्र जीवः सङ्कर्षणः प्रभुः ॥ 039c
सङ्कर्षणाच्च प्रद्युम्नो मनोभूतः स उच्यते । 040a
प्रद्युम्नाद्योऽनिरूद्धस्तु सोहङ्कारः स ईश्वरः ॥ 040c
मत्तः सर्वं सम्भवति जगत्स्थावरजङ्गमम् । 041a
अक्षरं च क्षरं चैव सच्चासच्चैव नारद ॥ 041c
मां प्रविश्य भवन्तीह मुक्ता भक्तास्तु ये मम । 042a
अहं हि पुरुषो ज्ञेयो निष्क्रियः पञ्चविंशकः ॥ 042c
निर्गुणो निष्कलश्चैव निर्द्वन्द्वो निष्परिग्रहः । 043a
एतत्त्वया न विज्ञेयं रूपवानिति दृश्यते ॥ 043c
इच्छन्मुहूर्तान्नश्येयमीशोऽहं जगतो गुरुः । 044a
माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ॥ 044c
सर्वभूतगुणैर्युक्तं नैवं त्वं ज्ञातुमर्हसि । 045a
मयैतत्कथितं सम्यक्तव मूर्तिचतुष्टयम् ॥ 045c
अहं हि जीवसञ्ज्ञो वै मयि जीवः समाहितः । 046a
मैवं ते बुद्धिरत्राभूर्द्दृष्टो जीवो मयेति वै ॥ 046c
अहं सर्वत्रगो ब्रह्मन्भूतग्रामान्तरात्मकः । 047a
भूतग्रामशरीरेषु नश्यत्सु न नशाम्यहम् ॥ 047c
सिद्धा हि ते महाभागा नरा ह्येकान्तिनोऽभवन् । 048a
तमोरजोभ्यां निर्मुक्ताः प्रवेक्ष्यन्ति च मां मुने ॥ 048c
'अहं कर्ता च कार्यं च कारणं चापि नारद । 049a
न दृश्यश्चक्षुषा देवः स्पृश्यो न स्पर्शनेन च । 049c
आघ्रेयो नैव गन्धेन रसेन च विसर्जितः ॥ 049e
सत्वं रजस्तमश्चैव न गुणास्ते भवन्ति हि । 050a
स हि सर्वगतः साक्षी लोकस्यात्मेति कथ्यते ॥' 050c
हिरण्यगर्भो लोकादिश्चतुर्वक्त्रोऽनिरुक्तगः । 051a
ब्रह्मा सनातनो देवो मम बह्वर्थचिन्तकः ॥ 051c
ललाटाच्चैव मे रुद्रो देवः क्रोधाद्विनिःसृतः । 052a
पश्यैकादश मे रुद्रान्दक्षिणं पार्श्वमास्थितान् ॥ 052c
द्वादशैव तथाऽऽदित्यान्वामपार्श्वे समास्थितान् । 053a
अग्रतश्चैव मे पश्य वसूनष्टौ सुरोत्तमान् ॥ 053c
नासत्यं चैव दस्रं च भिषजौ पश्य पृष्ठतः । 054a
सर्वान्प्रजापतीन्पश्य पश्य सप्तऋषींस्तथा ॥ 054c
वेदान्यज्ञांश्च शतशः पश्यामृतमथौषधीः । 055a
तपांसि नियमांश्चैव यमानपि पृथग्विधान् ॥ 055c
तथाऽष्टगुणमैश्वर्यमेकस्थं पश्य मूर्तिमत् । 056a
श्रियं लक्ष्मीं च कीर्तिं च पृथिवीं च ककुद्मिनीम् ॥ 056c
वेदानां मातरं पश्य मत्स्थां देवीं सरस्वतीम् । 057a
ध्रुवं च ज्योतिषां श्रेष्ठं पश्य नारद खेचरम् ॥ 057c
अम्भोधरान्समुद्रांश्च सरांसि सरितस्तथा । 058a
मूर्तिमन्तः पितृगणांश्चतुरः पश्य सत्तम ॥ 058c
त्रींश्चैवेमान्गुणान्पश्य मत्स्थान्मूर्तिविवर्जितान् । 059a
देवकार्यादपि मुने पितृकार्यं विशिष्यते ॥ 059c
देवानां च पितॄणां च पिता ह्येकोऽहमादितः । 060a
अहं हयशिरा भूत्वा समुद्रे पश्चिमोत्तरे ॥ 060c
पिबामि सुहुतं हव्यं कव्यं च श्रद्धयाऽन्वितम् । 061a
मया सृष्टः पुरा ब्रह्मा मां यज्ञमयजत्स्वयम् ॥ 061c
ततस्तस्मै वरान्प्रीतो दत्तवानस्म्यनुत्तमान् । 062a
मत्पुत्रत्वं च कल्पादौ लोकाध्यक्षत्वमेव च ॥ 062c
अहङ्कारकृतं चैव नामपर्यायवाचकम् । 063a
त्वया कृतां च मर्यादां नातिक्रंस्यति कश्चन ॥ 063c
त्वं चैव वरदो ब्रह्मन्वरेप्सूनां भविष्यसि । 064a
सुरासुरगणानां च ऋषीणां च तपोधन ॥ 064c
पितॄणां च महाभाग सततं संशितव्रत । 065a
विविधानां च भूतानां त्वमुपास्यो भविष्यसि ॥ 065c
प्रादुर्भावगतश्चाहं सुरकार्येषु नित्यदा । 066a
अनुशास्यस्त्वया ब्रह्मन्नियोज्यश्च सुतो यथा ॥ 066c
एतांश्चान्यांश्च रुचिरान्ब्रह्मणेऽमिततेजसे । 067a
'एवं रुद्राय मनवे इन्द्रायामिततेजसे ।' 067c
अहं दत्त्वा वरान्प्रीतो निवृत्तिपरमोऽभवम् ॥ 067e
निर्वाणं सर्वधर्माणां निवृत्तिः परमा स्मृता । 068a
तस्मान्निवृत्तिमापन्नश्चरेत्सर्वाङ्गनिर्वृतः ॥ 068c
विद्यासहायवन्तं मामादित्यस्थं सनातनम् । 069a
कपिलं प्राहुराचार्याः साङ्ख्यनिश्चितनिश्चयाः ॥ 069c
हिरण्यगर्भो भगवानेष च्छन्दसि संस्तुतः । 070a
सोहं योगगतिर्ब्रह्मन्योगशास्त्रेषु शब्दितः ॥ 070c
एषोऽहं व्यक्तिमाश्रित्य तिष्ठामि दिवि शाश्वतः । 071a
ततो युगसहस्रान्ते संहरिष्ये जगत्पुनः ॥ 071c
कृत्वाऽऽत्मस्थानि भूतानि स्थावराणि चराणि च । 072a
एकाकी विद्यया सार्धं विहरिष्ये जगत्पुनः ॥ 072c
ततो भूयो जगत्सर्वं करिष्यामीह विद्यया । 073a
अस्मिन्मूर्तिश्चतुर्थी या साऽसृजच्छेषमव्ययम् ॥ 073c
स हि सङ्कर्षणः प्रोक्तः प्रद्युम्नः सोप्यजीजनत् । 074a
प्रद्युम्नादनिरुद्धोऽहं सर्गो मम पुनःपुनः ॥ 074c
अनिरुद्धात्तथा ब्रह्मा तन्नाभिकमलोद्भवः । 075a
ब्रह्मणः सर्वभूतानि चराणि स्थावराणि च ॥ 075c
एतां सृष्टिं विजानीहि कल्पादिषु पुनःपुनः । 076a
यथा सूर्यस्य गगनादुदयास्तमने इह । 076c
नष्टे पुनर्बलात्काल आनयत्यमितद्युते ॥ 076e
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये सप्तचत्वारिंशदधिकत्रिशततमोऽध्यायः ॥ 347 ॥
12-347-1 स्तव्यैश्च नामभिरिति थ. पाठः । तं मुनिं दर्शयामास नारदं विश्वरूपधृदिति झ. ध. पाठः ॥ 12-347-7 गायत्रीं च तदन्वयामिति ध. पाठः ॥ 12-347-9 वेदिं कमण्डलुं शुभ्रान्मणीनुपानहौ कुशानिति झ. पाठः ॥ 12-347-13 ददृशिरे ददृशुः ॥ 12-347-19 मद्भक्ताः सूर्यवर्चस इति ध. पाठः ॥ 12-347-22 न गुणाः सम्भवन्ति हीति ध. पाठः ॥ 12-347-35 शरीरं चेन्द्रियाणि चेति ध. पाठः ॥ 12-347-37 मानसः सर्वभूतानामिति ध. पाठः ॥ 12-347-38 व्यक्तः सर्वेषु कर्मस्विति ट. पाठः ॥ 12-347-42 मां प्रविश्य भजन्तीहेति ध. पाठः ॥ 12-347-53 वसूनष्टौ समाश्रितानिति थ. पाठः ॥ 12-347-55 वेदान्यज्ञान्पशूंश्चैव स्रुक्च दर्भमहौषधीरिति थ. पाठः ॥ 12-347-57 ब्रह्मण्यं ज्योतिषां श्रेष्ठमिति ध. पाठः ॥ 12-347-61 ब्रह्मा मद्यज्ञमयजत्स्वयमिति ट. ध. पाठः ॥ 12-347-68 तस्मिन्निवृत्तिमापन्ने चरेत्सर्वत्र विष्ठित इति ध. पाठः । चरेत्सर्वत्र निस्स्पृह इति ट. पाठः ॥ 12-347-70 हिरण्यगर्भो भगवान्विश्वयोनिः सनातन इति ट. पाठः ॥ 12-347-71 तिष्ठामि भुवि शाश्वत इति थ. पाठः ॥ 12-347-75 तत्रादिकमलोद्भवः इति ध. पाठः ॥