अध्यायः 345

भीष्मेण युधिष्ठिरम् प्रति उपरिचरवसोः शापप्राप्तितद्विमोचनप्रकारकथनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
यदा भक्तो भगवति आसीद्राजा महान्वसुः । 001a
किमर्थं स परिभ्रष्टो विवेश विवरं भुवः ॥ 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
ऋषीणां चैव संवादं त्रिदशानां च भारत ॥ 002c
'इयं वै कर्मभूमिः स्यात्स्वर्गो भोगाय कल्पितः । 003a
तस्मादिन्द्रो महीं प्राप्य यजनाय तु दीक्षितः ॥ 003c
सवनीयपशोः काल आगते तु बृहस्पतिः । 004a
पिष्टमानीयतामत्र पश्वर्थमिति भाषत ॥ 004c
तच्छ्रुत्वा देवताः सर्वा इदमूचुर्द्विजोत्तमम् । 005a
बृहस्पतिं मांसगृद्धाः पृथक्पृथगिदं पुनः ॥' 005c
अजेन यष्टव्यमिति प्राहुर्देवा द्विजोत्तमान् । 006a
स च छागोप्यजो ज्ञेयो नान्यः पशुरिति स्थितिः ॥ 006c
ऋषय ऊचुः 007
बीजैर्यज्ञेषु यष्टव्यमिति वै वैदिकी श्रुतिः । 007a
अजसञ्ज्ञानि बीजानि च्छागं नो हन्तुमर्हथ ॥ 007c
नैष धर्मः सतां देवा यत्र वध्येत वै पशुः । 008a
इदं कृतयुगं श्रेष्ठं कथं वध्येत वै पशुः ॥ 008c
भीष्म उवाच 009
तेषां संवदतामेवमृषीणां विबुधैः सह । 009a
मार्गागतो नृपश्रेष्ठस्तं देशं प्राप्तवान्वसुः ॥ 009c
अन्तरिक्षचरः श्रीमान्सहस्रबलवाहनः । 010a
तं दृष्ट्वा सहसाऽऽयान्तं वसुं ते त्वन्तरिक्षगम् ॥ 010c
ऊचुर्द्विजातयो देवानेष च्छेत्स्यति संशयम् । 011a
यज्वा दानपतिः श्रेष्ठः सर्वभूतहितप्रियः । 011c
कथंस्विदन्यथा ब्रूयादेष वाक्यं महान्वसुः ॥ 011e
एवं ते संविदं कृत्वा विबुधा ऋषयस्तथा । 012a
अपृच्छन्सहिताऽभ्येत्य वसुं राजानमन्तिकात् ॥ 012c
भो राजन्केन यष्टव्यमजेनाहोस्विदौषधैः । 013a
एतन्नः संशयं छिन्धि प्रमाणं नो भवान्मतः ॥ 013c
स तान्कृताञ्जलिर्भूत्वा परिपप्रच्छ वै वसुः । 014a
कस्य वै को मतः पक्षो ब्रूत सत्यं द्विजोत्तमाः ॥ 014c
ऋषय ऊचुः 015
धान्यैर्यष्टव्यमित्येव पक्षोऽस्माकं नराधिप । 015a
देवानां तु पशुः पक्षो मतो राजन्वदस्व नः ॥ 015c
भीष्म उवाच 016
देवानां तु मतं ज्ञात्वा वसुना पक्षसंश्रयात् । 016a
छागेनाजेन यष्टव्यमेवमुक्तं वचस्तदा ॥ 016c
कुपितास्ते ततः सर्वे मुनयः सूर्यवर्चसः । 017a
ऊचुर्वसुं विमानस्थं देवपक्षार्थवादिनम् ॥ 017c
सुरपक्षो गृहीतस्ते यस्मात्तस्माद्दिवः पत । 018a
अद्यप्रभृति ते राजन्नाकाशे विहता गतिः ॥ 018c
अस्माच्छापाभिघातेन महीं भित्त्वा प्रवेक्ष्यसि । 019a
'विरुद्धं वेदसूत्राणामुक्तं यदि भवेन्नृप । 019c
वयं विरुद्धवचना यदि तत्र पतामहे ॥' 019e
ततस्तस्मिन्मुहूर्तेऽथ राजोपरिचरस्तदा । 020a
अधो वै सम्बभूवाशु भूमेर्विवरगो नृप ॥ 020c
स्मृतिस्त्वेवं न विजहौ तदा नारायणाज्ञया ॥ 021ac
देवास्तु सहिताः सर्वे वसोः शापविमोक्षणम् । 022a
चिन्तयामासुरव्यग्राः सुकृतं हि नृपस्य तत् ॥ 022c
अनेनास्मत्कृते राज्ञा शापः प्राप्तो महात्मना । 023a
अस्य प्रतिप्रियं कार्यं सहितैर्नो दिवौकसः ॥ 023c
इति बुद्ध्या व्यवस्याशु गत्वा निश्चयमीश्वराः । 024a
ऊचुः संहृष्टमनसो राजोपरिचरं तदा ॥ 024c
ब्रह्मण्य देवभक्तस्त्वं सुरासुरगुरुर्हरिः । 025a
कामं स तव तुष्टात्मा कुर्याच्छापविमोक्षणम् ॥ 025c
मानना तु द्विजातीनां कर्तव्या वै महात्मनाम् । 026a
अवश्यं तपसा तेषां फलितव्यं नृपोत्तम ॥ 026c
यतस्त्वं सहसा भ्रष्ट आकाशान्मेदिनीतलम् । 027a
'विरुद्धं वेदसूत्राणां न वक्तव्यं हितार्थिना ॥ 027c
अस्मत्पक्षनिमित्तेन व्यसनं प्राप्तमीदृशम् ।' 028a
एकं त्वनुग्रहं तुभ्यं दद्मो वै नृपसत्तम । 028c
यावत्त्वं शापदोषेण कालमासिष्यसेऽनघ ॥ 028e
भूमेर्विवरगो भूत्वा तावत्त्वं कालमाप्स्यसि । 029a
यज्ञेषु सुहुतां विप्रैर्वसोर्धारां समाहितैः ॥ 029c
प्राप्स्यसेऽस्मदनुध्यानान्मा च त्वां ग्लानिराविशेत् । 030a
न क्षुत्पिपासे राजेन्द्र भूमेश्छिद्रे भविष्यतः ॥ 030c
वसोर्धाराभिपीतत्वात्तेजसाऽऽप्यायितेन च । 031a
स देवोऽस्मद्वरात्प्रीतो ब्रह्मलोकं हि नेष्यति ॥ 031c
एवं दत्त्वा वरं राज्ञे सर्वे ते च दिवौकसः । 032a
'क्रतुं समाप्य पिष्टेन मुनीनां वचनात्तदा ॥' 032c
गताः स्वभवनं देवा ऋषयश्च तपोधनाः । 033a
'गृहीत्वा दक्षिणां सर्वे गतः स्वानाश्रमान्पुनः ॥ 033c
वसुं विचिन्त्य शक्रश्च प्रविवेशामरावतीम् । 034a
वसुर्विवरगस्तत्र व्यलीकस्य फलं गुरोः ॥' 034c
चक्रे वसुस्ततः पूजां विष्वक्सेनाय भारत । 035a
जप्यं जगौ च सततं नारायणमुखोद्गतम् ॥ 035c
तत्रापि पञ्चभिर्यज्ञैः पञ्चकालानरिन्दम । 036a
अयजद्धरिं सुरपतिं भूमेर्विवरगोऽपि सन् ॥ 036c
ततोऽस्य तुष्टो भगवान्भक्त्या नारायणो हरिः । 037a
अनन्यभक्तस्य सतस्तत्परस्य जितात्मनः ॥ 037c
वरदो भगवान्विष्णुः समीपस्थं द्विजोत्तमम् । 038a
गरुत्मन्तं महावेगमाबभाषेऽप्सितं तदा ॥ 038c
द्विजोत्तम महाभाग पश्यतां वचनान्मम । 039a
सम्राड्राजा वसुर्नाम धर्मात्मा संशितव्रतः ॥ 039c
ब्राह्मणानां प्रकोपेन प्रविष्टो वसुधातलम् । 040a
मानितास्ते तु विप्रेन्द्रास्त्वं तु गच्छ द्विजोत्तम ॥ 040c
भूमेर्विवरसङ्गुप्तं गरुडेह ममाज्ञया । 041a
अधश्चरं नृपश्रेष्ठं खेचरं कुरु माचिरम् ॥ 041c
गरुत्मानथ विक्षिप्य पक्षौ मारुतवेगवान् । 042a
विवेश विवरं भूमेर्यत्रास्ते वाग्यतो वसुः ॥ 042c
तत एनं समुत्क्षिप्य सहसा विनतासुतः । 043a
उत्पपात नभस्तूर्णं तत्र चैनममुञ्चत ॥ 043c
अस्मिन्मुहुर्ते सञ्जज्ञे राजोपरिचरः पुनः । 044a
सशरीरो गतश्चैव ब्रह्मलोकं नृपोत्तमः ॥ 044c
एवं तेनापि कौन्तेय वाग्दोषाद्देवताज्ञया । 045a
प्राप्ता गतिरधस्तात्तु द्विजशापान्महात्मना ॥ 045c
केवलं पुरुषस्तेन सेवितो हरिरीश्वरः । 046a
ततः शीघ्रं जहौ शापं ब्रह्मलोकमवाप च ॥ 046c
भीष्म उवाच 047
एतत्ते सर्वमाख्यातं सम्भूता मानवा यथा । 047a
नारदोऽपि यथा श्वेतं द्वीपं स गतवानृषिः । 047c
तत्ते सर्वं प्रवक्ष्यामि शृणुष्वैकमना नृप ॥ 047e

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चचत्वारिंशदधिकत्रिशततमोऽध्यायः ॥ 345 ॥

12-345-7 अजस्थस्य मेधस्य बीजेषु सङ्क्रमाद्बीजान्येवाजसञ्ज्ञानीति युक्तम् ॥ 12-345-23 अस्य प्रतिक्रिया कार्येति ध. पाठः ॥