अध्यायः 344
बृहस्पतिना उपरिचरवसोर्याजनम् ॥ 1 ॥ तत्र श्रीहरिणा परोक्षतया भागग्रहणात्क्रुद्धं बृहस्पतिम् प्रति एकतादिभिः श्वेतद्वीपवर्णनपूर्वकं भगवन्महिमोक्त्या परिसान्त्वनम् ॥ 2 ॥
भीष्म उवाच 001
ततोऽतीते महाकल्पे उत्पन्नेऽङ्गिरसः सुते । 001a
बभूवुर्निर्वृता देवा जाते देवपुरोहिते ॥ 001c
बृहद्ब्रह्म महच्चेति शब्दाः पर्यायवाचकाः । 002a
एभिः समन्वितो राजन्गुणैर्विद्वान्बृहस्पतिः ॥ 002c
तस्य शिष्यो बभूवाग्र्यो राजोपरिचरो वसुः । 003a
अधीतवांस्तदा शास्त्रं सम्यक्चित्रशिखण्डिजम् ॥ 003c
स राजा भावितः पूर्वं दैवेन विधिना वसुः । 004a
पालयामास पृथिवीं दिवमाखण्डलो यथा ॥ 004c
तस्य यज्ञो महानासीदश्वमेधो महात्मनः । 005a
बृहस्पतिरुपाध्यायस्तत्र होता बभूव ह ॥ 005c
प्रजापतिसुताश्चात्र सदस्याश्चाभवंस्त्रयः । 006a
एकतश्च द्वितश्चैव त्रितश्चैव मर्हषयः ॥ 006c
धनुषाख्योऽथ रैभ्यश्च अर्वावसुपरावसू । 007a
ऋषिर्मेधातिथिश्चैव ताण्ड्यश्चैव महानृषिः ॥ 007c
ऋषिः शान्तिर्महाभागस्तथा वेदशिराश्च यः । 008a
ऋषिश्रेष्ठश्च कपिलः शालिहोत्रपिता स्मृतः ॥ 008c
आद्यः कठस्तैत्तिरिश्च वैशम्पायनपूर्वजः । 009a
कण्वोऽथ देवहोत्रश्च एते षोडश कीर्तिताः ॥ 009c
सम्भूताः सर्वसम्भारास्तस्मिन्राजन्महाक्रतौ । 010a
न तत्र पशुघातोऽभूत्स राजैवं स्थितोऽभवत् ॥ 010c
अहिंस्रः शुचिरक्षुद्रो निराशीः कर्मसंस्तुतः । 011a
आरण्यकपदोद्भूता भागास्तत्रोपकल्पिताः ॥ 011c
प्रीतस्ततोऽस्य भगवान्देवदेवः पुरातनः । 012a
साक्षात्तं दर्शयामास सोदृश्योऽन्येन केनचित् ॥ 012c
स्वयं भागमुपाघ्राय पुरोडाशं गृहीतवान् । 013a
अदृश्येन हृतो भागो देवेन हरिमेधसा ॥ 013c
बृहस्पतिस्ततः क्रुद्धः स्रुचमुद्यम्य वेगितः । 014a
आकाशं घ्नन्स्रुचः पातै रोषादश्रूण्यवर्तयत् ॥ 014c
उवाच चोपरिचरं मया भागोऽयमुद्यतः । 015a
ग्राह्यः स्वयं हि देवेन मत्प्रत्यक्षं न संशयः ॥ 015c
उद्यता यज्ञभागा हि साक्षात्प्राप्ताः सुरैरिह । 016a
किमर्थमिह न प्राप्तो दर्शनं मे हरिर्नृप ॥ 016c
भीष्म उवाच 017
ततः स तं समुद्धूतं भूमिपालो महान्वसुः । 017a
प्रसादयामास मुनिं सदस्यास्ते च सर्वशः ॥ 017c
'हुतस्त्वया वदानीह पुरोडाशस्य यावती । 018a
गृहीता देवदेवेन मत्प्रत्यक्षं न संशयः ॥ 018c
इत्येवमुक्ते वसुना सरोषश्चाब्रवीद्गुरुः । 019a
न यजेयमहं चात्र परिभूतस्त्वया नृप ॥ 019c
त्वया पशुर्वारितश्च कृतः पिष्टमयः पशुः । 020a
त्वं देवं पश्यसे नित्यं न पश्येयमहं कथम् ॥ 020c
वसुरुवाच 021
पशुहिंसा वारिता च यजुर्वेदादिमन्त्रतः । 021a
अहं न वारये हिंसां द्रक्ष्याम्येकान्तिको हरिम् । 021c
तस्मात्कोपो न कर्तव्यो भवता गुरुणा मयि ॥ 021e
वसुमेवं ब्रुवाणं तु क्रुद्ध एव बृहस्पतिः । 022a
उवाच ऋत्विजश्चैव किं नः कर्मेति वारयन् ॥ 022c
अथैकतो द्वितश्चैव त्रितश्चैव महर्षयः ।' 023a
ऊचुश्चैनमसम्भ्रान्ता न रोषं कर्तुमर्हसि ॥ 023c
'शृणु त्वं वचनं पुत्र अस्माभिः समुदाहृतम् ।' 024a
नैष धर्मः कृतयुगे यत्त्वं रोषमिहाहिथाः ॥ 024c
अरोषणो ह्यसौ देवो यस्य भागोऽयमुद्यतः । 025a
न शक्यः स त्वया द्रष्टुमस्माभिर्वा बृहस्पते । 025c
यस्य प्रसादं कुरुते स वै तं द्रष्टुमर्हति ॥ 025e
वयं हि ब्रह्मणः पुत्रा मानसाः परिकीर्तिताः । 026a
गता निःश्रेयसार्थं हि कदाचिद्दिशमुत्तराम् ॥ 026c
तप्त्वा वर्षसहस्राणि चत्वारि तप उत्तमम् । 027a
एकपादा स्थिताः सम्यक्काष्ठभूताः समाहिताः ॥ 027c
मेरोरुत्तरभागे तु क्षीरोदस्यानुकूलतः । 028a
स देशो यत्र नस्तप्तं तपः परमदारुणम् ॥ 028c
वरेण्यं वरदं तं वै देवदेवं सनातनम् । 029a
कथं पश्येमहि वयं देवं नारायणं त्विति ॥ 029c
अथ व्रतस्यावभृथे वागुवाचाशरीरिणी । 030a
स्निग्धगम्भीरया वाचा प्रहर्षणकरी विभो ॥ 030c
सुतप्तं वस्तपो विप्राः प्रसन्नेनान्तरात्मना । 031a
यूयं जिज्ञासवो भक्ताः कथं द्रक्ष्यथ तं विभुम् ॥ 031c
क्षीरोदधेरुत्तरतः श्वेतद्वीपो महाप्रभः । 032a
तत्र नारायणपरा मानवाश्चन्द्रवर्चसः ॥ 032c
एकान्तभावोपगतास्ते भक्ताः पुरुषोत्तमम् । 033a
ते सहस्रार्चिषं देवं प्रविशन्ति सनातनम् ॥ 033c
अनिन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः । 034a
एकान्तिनस्ते पुरुषाः श्वेतद्वीपनिवासिनः । 034c
गच्छध्वं तत्र मुनयस्तत्रात्मा मे प्रकाशितः ॥ 034e
अथ श्रुत्वा वयं सर्वे वाचं तामशरीरिणीम् । 035a
यथाख्यातेन मार्गेण तं देशं प्रविशेमहि ॥ 035c
प्राप्य श्वेतं महाद्वीपं तच्चित्तास्तद्दिदृक्षवः । 036a
'सहसा हि गताः सर्वे तेजसा तस्य मोहिताः ॥' 036c
ततोऽस्मद्दृष्टिविषयस्तदा प्रतिहतोऽभवत् । 037a
न च पश्याम पुरुषं तत्तेजोहतदर्शनाः ॥ 037c
ततो नः प्रादुरभवद्विज्ञानं देवयोगजम् । 038a
न किलातप्ततपसा शक्यते द्रष्टुमञ्जसा ॥ 038c
ततः पुनर्वर्षशतं तप्त्वा तात्कालिकं महत् । 039a
व्रतावसाने च शुभान्नरान्ददृशिमो वमय् ॥ 039c
श्वेतांश्चन्द्रप्रतीकाशान्सर्वलक्षणलक्षितान् । 040a
नित्याञ्जलिकृतान्ब्रह्म जपतः प्रागुदङ्मुखान् ॥ 040c
मानसो नाम स जपो जप्यते तैर्महात्मभिः । 041a
तेनैकाग्रमनस्त्वेन प्रीतो भवति वै हरिः ॥ 041c
याऽभवन्मुनिशार्दूल भाः सूर्यस्य युगक्षये । 042a
एकैकस्य प्रभा तादृक्साऽभवन्मानवस्य ह ॥ 042c
तेजोनिवासः स द्वीप इति वै मेनिरे वयम् । 043a
न तत्राभ्यधिकः कश्चित्सर्वे ते समतेजसः ॥ 043c
अथ सूर्यसहस्रस्य प्रभां युगपदुत्थिताम् । 044a
सहसा दृष्टवन्तः स्म पुनरेव बृहस्पते ॥ 044c
सहिताश्चाभ्यधावन्त ततस्ते मानवा द्रुतम् । 045a
कृताञ्जलिपुटा हृष्टा नम इत्येव वादिनः ॥ 045c
ततो हि वदतां तेषामश्रौष्म विपुलं ध्वनिम् । 046a
बलिः किलोपह्रियते तस्य देवस्य तैर्नरैः ॥ 046c
वयं तु तेजसा तस्य सहसा हृतचेतसः । 047a
न किञ्चिदपि पश्यामो हतचक्षुर्बलेन्द्रियाः ॥ 047c
एकस्तु शब्दो विततः श्रुतोऽस्माभिरुदीरितः । 048a
'आकाशं पूरयन्सर्वं शिक्षाक्षरसमन्वितः ॥ 048c
जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन । 049a
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज । 049c
इति शब्दः श्रुतोऽस्माभिः शिक्षाक्षरसमन्वितः ॥ 049e
एतस्मिन्नन्तरे वायुः सर्वगन्धवहः शुचिः । 050a
दिव्यान्युवाह पुष्पाणि कर्मण्याश्चौषधीस्तथा ॥ 050c
तैरिष्टः पञ्चकालज्ञैर्हरिरेकान्तिभिर्नरैः । 051a
भक्त्या परमया युक्तैर्मनोवाक्कर्मभिस्तदा ॥ 051c
नूनं तत्रागतो देवो यथा तैर्वागुदीरिता । 052a
वयं त्वेनं न पश्यामो मोहितास्तस्य मायया ॥ 052c
मारुते सन्निवृत्ते च बलौ च प्रतिपादिते । 053a
चिन्ताव्याकुलितात्मानो जाताः स्मोङ्गिसांवर ॥ 053c
मानवानां सहस्रेषु तेषु वै शुद्धयोनिषु । 054a
अस्मान्न कश्चिन्मनसा चक्षुषा वाऽप्यपूजयत् ॥ 054c
तेऽपि स्वस्था मुनिगणा एक भावमनुव्रताः । 055a
नास्मासु दधिरे भावं ब्रह्मभावमनुष्ठिताः ॥ 055c
ततोऽस्मान्सुपरिश्रान्तांस्तपसा चातिकर्शितान् । 056a
उवाच स्वस्थं किमपि भूतं तत्राशरीरकम् ॥ 056c
देव उवाच 057
दृष्टा वः पुरुषाः श्वेताः सर्वेन्द्रियविवर्जिताः । 057a
दृष्टो भवति देवेश एभिर्दृष्टैर्द्विजोत्तमैः ॥ 057c
गच्छध्वं मुनयः सर्वे यथागतमितोऽचिरात् । 058a
न स शक्यस्त्वभक्तेन द्रष्टुं देवः कथञ्चन ॥ 058c
कामं कालेन महता एकान्तित्वमुपागतैः । 059a
शक्यो द्रष्टुं स भगवान्प्रभामण्डलदुर्दृशः ॥ 059c
महत्कार्यं च कर्तव्यं युष्माभिर्द्विजसत्तमाः । 060a
इतः कृतयुगेऽतीते विपर्यासं गतेऽपि च ॥ 060c
वैवस्वतेऽन्तरे विप्राः प्राप्ते त्रेतायुगे पुनः । 061a
सुराणां कार्यसिद्ध्यर्थं सहाया वै भविष्यथ ॥ 061c
ततस्तदद्भुतं वाक्यं निशम्यैवामृतोपमम् । 062a
तस्य प्रसादात्प्राप्ताः स्मो देशमीप्सितमञ्जसा ॥ 062c
एवं सुतपसा चैव हव्यकव्यैस्तथैव च । 063a
देवोऽस्माभिर्न दृष्टः स कथं त्वं द्रष्टुमर्हसि ॥ 063c
नारायणो महद्भूतं विश्वसृग्घव्यकव्यभुक् । 064a
अनादिनिधनोऽव्यक्तो देवदानवपूजितः ॥ 064c
एवमेकतवाक्येन द्वितत्रितमतेन च । 065a
अनुनीतः सदस्यैश्च बृहस्पतिरुदारधीः । 065c
समापयत्ततो यज्ञं दैवतं समपूजयत् ॥ 065e
समाप्तयज्ञो राजाऽपि प्रजां पालितवान्वसुः । 066a
ब्रह्मशापाद्दिवो भ्रष्टः प्रविवेश महीं ततः ॥ 066c
स राजा राजशार्दूल सत्यधर्मपरायणः । 067a
अन्तर्भूमिगतश्चैव सततं धर्मवत्सलः ॥ 067c
नारायणपरो भूत्वा नारायणजपं जपन् । 068a
तस्यैव च प्रसादेन पुनरेवोत्थितस्तु सः ॥ 068c
महीतलाद्गतः स्थानं ब्रह्मणः समनन्तरम् । 069a
परां गतिमनुप्राप्त इति नैष्ठिकमञ्जसा ॥ 069c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये चतुश्चत्वारिंशदधिकत्रिशततमोऽध्यायः ॥ 344 ॥
12-344-31 क्रुद्धं द्रक्ष्यथ तं प्रभुमिति ध. पाठः ॥ 12-344-34 अतीन्द्रिया निराहारा इति ध. पाठः ॥ 12-344-43 पुरुषव्यत्यय आर्षः ॥