अध्यायः 343
बदरीनारायणाभ्यनुज्ञातेन नारदेन श्वेतद्वीपम् प्रति गमनम् ॥ 1 ॥ श्वेतद्वीपवर्णनम् ॥ 2 ॥ भीष्मेण युधिष्ठिरम् प्रति नारदोदितोपरिचरवसुचरितानुवादारम्भः ॥ 3 ॥ मरीच्यादिचित्रशिखण्डिभिर्नारायणानुग्रहेण स्वकृतधर्मशास्त्रस्य बृहस्पतौ स्थापनम् ॥ 4 ॥
भीष्म उवाच 001
स एवमुक्तो द्विपदां वरिष्ठो नारायणेनोत्तमपूरुषेण । 001a
जगाद वाक्यं द्विपदां वरिष्ठं नारायणं लोकहिताधिवासम् ॥ 001c
नारद उवाच 002
यदर्थमात्मप्रभवेह जन्म त्वयोत्तमं धर्मगृहे चतुर्धा । 002a
तत्साध्यतां लोकहितार्थमद्य गच्छामि द्रष्टुं प्रकृतिं तवाद्याम् ॥ 002c
वेदाः स्वधीता मम लोकनाथ तप्तं तपो नानृतमुक्तपूर्वम् । 003a
पूजां गुरूणां सततं करोमि परस्य गुह्यं न तु भिन्नपूर्वम् ॥ 003c
गुप्तानि चत्वारि यथागमं मे शत्रौ च मित्रे च समोस्मि नित्यम् । 004a
तं चादिदेवं सततं प्रपन्न एकान्तभावेन वृणोम्यजस्रम् ॥ 004c
एभिर्विशेषैः परिशुद्धसत्वः कस्मान्न पश्येयमनन्तमीशम् । 005a
तत्पारमेष्ठ्यस्य वचो निशम्य नारायणः शाश्वतधर्मगोप्ता ॥ 005c
गच्छेति तं नारदमुक्तवान्स सम्पूजयित्वा विधिवत्क्रियाभिः । 006a
ततो विसृष्टः परमेष्ठिपुत्रः सोऽभ्यर्चयित्वा तमृषिं पुराणम् ॥ 006c
खमुत्पपातोत्तमयोगयुक्तस्ततोऽधिमेरौ सहसा निलिल्ये । 007a
तत्रावतस्थे च मुनिर्मुर्हुतमेकान्तमासाद्य गिरेः स शृङ्गे ॥ 007c
आलोकयन्नुत्तरपश्चिमेन ददर्श चाप्यद्भुतमुक्तरूपम् । 008a
क्षीरोदधेर्योत्तरतो हि द्वीपः श्वेतः स नाम्ना प्रथितो विशालः ॥ 008c
मेरोः सहस्रैः स हि योजनानां द्वात्रिंशतोर्ध्वं कविभिर्निरुक्तः । 009a
अनिन्द्रियाश्चानशनाश्च तत्र निष्पन्दहीनाः सुसुगन्धिनस्ते ॥ 009c
श्वेताः पुमांसो गतसर्वपापाश्चक्षुर्मुषः पापकृतां नराणाम् । 010a
वज्रास्थिकायाः सममानोन्माना दिव्यावयवरूपाः शुभसारोपेताः ॥ 010c
छत्राकृतिशीर्षा मेघौघनिनादाः सममुष्कचतुष्का राजीवच्छदपादाः । 011a
षष्ठ्या दन्तैर्युक्ताः शुक्लैरष्टाभिर्दंष्ट्राभिर्ये जिह्वाभिर्ये विश्ववक्त्रं लेलिह्यन्ते सूर्यप्रख्यम् ॥ 011c
देवं भक्त्या विश्वोत्पन्नं यस्मात्सर्वे लोकाः सम्प्रसूताः । 012a
सर्वगात्राश्च सूक्ष्माः सहाङ्गका वेदा धर्मा मुनयः शान्ता देवाः सर्वे तस्य निसर्ग इति ॥ 012c
युधिष्ठिर उवाच 013
अनिन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः । 013a
कथं ते पुरुषा जाताः का तेषां गतिरुत्तमा ॥ 013c
ये च मुक्ता भवन्तीह नरा भरतसत्तम । 014a
तेषां लक्षणमेतद्धि तच्छ्वेतद्द्वीपवासिनाम् ॥ 014c
तस्मान्मे संशयं छिन्धि परं कौतूहलं हि मे । 015a
त्वं हि सर्वकथारामस्त्वां चैवोपाश्रिता वयम् ॥ 015c
भीष्म उवाच 016
विस्तीर्णैषा कथा राजञ्श्रुता मे पितृसन्निधौ । 016a
यैषा तव हि वक्तव्या कथासारो हि सा मता ॥ 016c
'शन्तनोः कथयामास नारदो मुनिसत्तमः । 017a
राज्ञा पृष्टः पुरा प्राह तत्राहं श्रुतवान्पुरा ॥' 017c
राजोपरिचरो नाम बभूवाधिपतिर्भुवः । 018a
आखण्डलसखः ख्यातो भक्तो नारायणं हरिम् ॥ 018c
धार्मिको नित्यभक्तश्च पितुर्नित्यमतन्द्रितः । 019a
साम्राज्यं तेन सम्प्राप्तं नारायणवरात्पुरा ॥ 019c
सात्वतं विधिमास्थाय प्राक्सूर्यमुखनिःसृतम् । 020a
पूजयामास देवेशं तच्छेषेण पितामहान् ॥ 020c
पितृशेषेण विप्रांश्च संविभज्याश्रितांश्च सः । 021a
शेषान्नभुक्सत्यपरः सर्वभूतेष्वहिंसकः ॥ 021c
सर्वभावेन भक्तः स देवदेवं जनार्दनम् । 022a
अनादिमध्यनिधनं लोककर्तारमव्ययम् ॥ 022c
तस्य नारायणे भक्तिं वहतोऽमित्रकर्शिनः । 023a
एकशय्यासनं देवो दत्तवान्देवराट् स्वयम् ॥ 023c
आत्मराज्यं धनं चैव कलत्रं वाहनं तथा । 024a
यत्तद्भागवतं सर्वमिति तत्प्रेषितं सदा ॥ 024c
काम्यनैमित्तिका राजन्यज्ञियाः परमक्रियाः । 025a
सर्वाः सात्वतमास्थाय विधिं चक्रे समाहितः ॥ 025c
पाञ्चरात्रविदो मुख्यास्तस्य गेहे महात्मनः । 026a
वरान्नं भगवत्प्रोक्तं भुञ्जते वाऽग्रभोजनम् ॥ 026c
तस्य प्रशासतो राज्यं धर्मेणामित्रघातिनः । 027a
नानृता वाक्समभवन्मनो दुष्टं न चाभवत् । 027c
न च कायेन कृतवान्स पापं परमण्वपि ॥ 027e
ये हि ते ऋषयः ख्याताः सप्त चित्रशिखण्डिनः । 028a
तैरेकमतिभिर्भूत्वा यत्प्रोक्तं शास्त्रमुत्तमम् ॥ 028c
वेदैश्चतुर्भिः समितं कृतं मेरौ महागिरौ । 029a
आस्यैः सप्तभिरुद्गीर्णं लोकधर्ममनुत्तमम् ॥ 029c
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । 030a
वसिष्ठश्च महातेजास्ते हि चित्रशिखण्डिनः ॥ 030c
सप्त प्रकृतयो ह्येतास्तथा स्वायम्भुवोऽष्टमः । 031a
एताभिर्धार्यते लोकस्ताभ्यः शास्त्रं विनिःसृतम् ॥ 031c
एकाग्रमनसो दान्ता मुनयः संयमे रताः । 032a
भूतभव्यभविष्यज्ञाः सत्यधर्मपरायणाः ॥ 032c
इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम् । 033a
लोकान्सञ्चिन्त्य मनसा ततः शास्त्रं प्रचक्रिरे ॥ 033c
तत्र धर्मार्थकामा हि मोक्षः पश्चाच्च कीर्तितः । 034a
मर्यादा विविधाश्चैव दिवि भूमौ च संस्थिताः ॥ 034c
आराध्य तपसा देवं हरिं नारायणं प्रभुम् । 035a
दिव्यं वर्षसहस्रं वै सर्वे ते ऋषिभिः सह ॥ 035c
नारायणानुशिष्टा हि तदा देवी सरस्वती । 036a
विवेश तानृषीन्सर्वाल्लोँकानां हितकाम्यया ॥ 036c
ततः प्रवर्तिता सम्यक्तपोविद्भिर्द्विजातिभिः । 037a
शब्दे चार्थे च हेतौ च एषा प्रथमसर्गजा ॥ 037c
आदावेव हि तच्छास्त्रमोङ्कारस्वरपूजितम् । 038a
ऋषिभिः श्रावितं तत्र यत्र कारुणिकोह्यसौ ॥ 038c
ततः प्रसन्नो भगवाननिर्दिष्टशरीरगः । 039a
ऋषीनुवाच तान्सर्वानदृश्यः पुरुषोत्तमः ॥ 039c
कृतं शतसहस्रं हि श्लोकानां हितमुत्तमम् । 040a
लोकतन्त्रस्य कृत्स्नस्य यस्माद्धर्मः प्रवर्तते ॥ 040c
प्रवृत्तौ च निवृत्तौ च यस्मादेतद्भविष्यति । 041a
यजुर्ऋक्सामभिर्जुष्टमथर्वाङ्गिरसैस्तथा ॥ 041c
यथाप्रमाणं हि मया कृतो ब्रह्म प्रसादतः । 042a
रुद्रश्च क्रोधजो विप्रा यूयं प्रकृतयस्तथा || 042c
सूर्याचन्द्रमसौ वायुर्भूमिरापोऽग्निरेव च । 043a
सर्वे च नक्षत्रगणा यच्च भूताभिशब्दितम् ॥ 043c
अधिकारेषु वर्तन्ते यथास्वं ब्रह्मवादिनः । 044a
सर्वे प्रमाणं हि यथा तथा तच्छास्त्रमुत्तमम् ॥ 044c
भविष्यति प्रमाणं वै एतन्मदनुशासनम् । 045a
तस्मात्प्रवक्ष्यते धर्मान्मनुः स्वायम्भुवः स्वयम् ॥ 045c
उशना बृहस्पतिश्चैव यदोत्पन्नौ भविष्यतः । 046a
तदा प्रवक्ष्यतः शास्त्रं युष्मन्मतिभिरुद्धृतम् ॥ 046c
स्वायम्भुवेषु धर्मेषु शास्त्रे चोशनसा कृते । 047a
बृहस्पतिमते चैव लोकेषु प्रतिचारिते ॥ 047c
युष्मत्कृतमिदं शास्त्रं प्रजापालो वसुस्ततः । 048a
बृहस्पतिसकाशाद्वै प्राप्स्यते द्विजसत्तमाः ॥ 048c
स हि मद्भावनिरतो मद्भक्तश्च भविष्यति । 049a
तेन शास्त्रेण लोकेषु क्रियाः सर्वाः करिष्यति ॥ 049c
एतद्धि युष्मच्छास्त्राणां शास्त्रमुत्तमसञ्ज्ञितम् । 050a
एतदर्थ्यं च धर्म्यं च रहस्यं चैतदुत्तमम् ॥ 050c
अस्य प्रवर्तनाच्चैव प्रजावन्तो भविष्यथ । 051a
स च राजश्रिया युक्तो भविष्यति महान्वसुः ॥ 051c
संस्थिते तु नृपे तस्मिञ्शास्त्रमेतत्सनातनम् । 052a
अन्तर्धास्यति तत्सर्वमेतद्वः कथितं मया ॥ 052c
एतावदुक्त्वा वचनमदृश्यः पुरुषोत्तमः । 053a
विसृज्य तानृषीन्सर्वान्कामपि प्रसृतो दिशम् ॥ 053c
ततस्ते लोकपितरः सर्वलोकार्थचिन्तकाः । 054a
प्रावर्तयन्त तच्छास्त्रं धर्मयोनिं सनातनम् ॥ 054c
उत्पन्नेऽङ्गिरसे चैव युगे प्रथमकल्पिते । 055a
साङ्गोपनिषदं शास्त्रं स्थापयित्वा बृहस्पतौ ॥ 055c
जग्मुर्यथेप्सितं देशं तपसे कृतनिश्चयाः | 056a
धारणाः सर्वलोकानां सर्वधर्मप्रवर्तकाः ॥ 056c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रिचत्वारिंशदधिकत्रिशततमोऽध्यायः ॥ 343 ॥
12-343-2 जन्म अवतारः । आद्यां मूर्तिं श्वेतद्वीपस्थाम् ॥ 12-343-4 चत्वारि पाणिपादोदरोपस्थानि ॥ 12-343-6 सम्पूजयित्वात्मविधिक्रियाभिरिति झ. पाठः ॥ 12-343-8 उत्तरपश्चिमेन वायव्यकोणतः । योत्तरतः यः उत्तरतः ॥ 12-343-9 मेरुमूलाद्वात्रिंशत्सहस्रयोजनादूर्ध्वम् । सुगन्धिः परमात्मा । सुगन्धिं पुष्टिवर्धनमिति मन्त्रलिङ्गात् । शोभनः सोऽस्त्येषां ध्यानगोचर इति सुसुगन्धिनः ॥ 12-343-10 श्वेताः शुद्धसत्वप्रधानाः ॥ 12-343-11 छत्राकृतिशीर्षा निर्मांसग्रीवत्वात् । समं पीनत्वरहितं मुष्कौ वृषणौ चतुषअकमंसयोः कठ्योश्चान्तरालं च मुष्कचतुष्कं बाहुचतुष्कं वा । षष्ट्या षष्टिसङ्ख्यैर्दन्तैरिव जगच्चणकचर्वणक्षमैः संवत्सरैर्युक्ताः । अष्टौ दिशः सर्वेषामाश्रयभूतास्ताभिश्च युक्ताः । देशकालौ येषां मुखमध्ये प्रविष्टावित्यर्थः । सूर्येण प्रख्यायते स्फुटीक्रियते दिनमासर्तुसंवत्सरात्मा महाकालस्तम् । विश्ववक्त्रं विश्वं वक्त्रे यस्य तादृशम् । जिह्वाभिरिव स्वाङ्गभूताभी रसनाशक्तिभिर्लेलिह्यन्ते पायसमिव लिहन्ति । छत्राकृतिशीर्षाणो मेघौघस्तनितसमनिनादाः सममुष्का रुचिरतराश्चतुर्मुष्कावर्जितरक्ततलपादाः इति ध. पाठः ॥ 12-343-12 विश्वोत्पन्नं विश्वमुत्पन्नं यस्मात् । वेदादयस्तस्य निसर्गः अयत्नरचिताः ॥ 12-343-16 कथासारो हि स स्मृत इति थ. पाठः ॥ 12-343-18 आखण्डलसम इति ध. पाठः ॥ 12-343-19 सात्वतं सात्वतानां पाञ्चरात्राणां हितम् । तच्छेषेण विष्णुशेषेण ॥ 12-343-21 पितॄनृषींश्च विप्रांश्चेति ध. पाठः ॥ 12-343-26 प्रायणं भगवत्प्रोक्तमिति झ. पाठः ॥ 12-343-29 वेदैश्चतुर्भिः सहितमिति ध. पाठः ॥ 12-343-34 मोक्षपन्थाश्च कीर्तित इति ध. पाठः ॥ 12-343-54 धर्मकामार्थचिन्तका इति ध. पाठः ॥