अध्यायः 342
भीष्मेण युधिष्ठिरम् प्रति दैवपित्र्यकर्मानुष्ठानस्यावश्यकत्वप्रतिपादकनारदनारायणसंवादानुवादः ॥ 1 ॥
युधिष्ठिर उवाच 001
गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथ भिक्षुकः । 001a
य इच्छेत्सिद्धिमास्थातुं देवतां कां यजेत सः ॥ 001c
कुतो ह्यस्य ध्रुवः स्वर्गः कुतो नैःश्रेयसं परम् । 002a
विधिना केन जुहुयाद्दैवं पित्र्यं तथैव च ॥ 002c
मुक्तश्च कां गतिं गच्छेन्मोक्षश्चैव किमात्मकः । 003a
स्वर्गतश्चैव किं कुर्याद्येन न च्यवते दिवः ॥ 003c
देवतानां च को देवः पितॄणां च पिता तथा । 004a
तस्मात्परतरं यच्च तन्मे ब्रूहि पितामह ॥ 004c
भीष्म उवाच 005
गूढं मां प्रश्नवित्प्रश्नं पृच्छसे त्वमिहानघ । 005a
न ह्येतत्तर्कया शक्यं वक्तुं वर्षशतैरपि ॥ 005c
ऋते देवप्रसादाद्वा राजञ्ज्ञानागमेन वा । 006a
गहनं ह्येतदाख्यानं व्याख्यातव्यं तवारिहन् ॥ 006c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 007a
नारदस्य च संवादमृषेर्नारायणस्य च ॥ 007c
नारायणो हि विश्वात्मा चतुर्मूर्तिः सनातनः । 008a
धर्मात्मजः सम्बभूव पितैवं मेऽभ्यभाषत ॥ 008c
कृते युगे महाराज पुरा स्वायम्भुवेऽन्तरे । 009a
नरो नारायणश्चैव हरिः कृष्णस्तथैव च ॥ 009c
तेषां नारायणनरौ तपस्तेपतुरव्ययौ । 010a
बदर्याश्रममासाद्य शकटे कनकामये ॥ 010c
अष्टचक्रं हि तद्यानं भूतयुक्तं मनोरमम् । 011a
तत्राद्यौ लोकनाथौ तौ कृशौ धमनिसन्ततौ ॥ 011c
तपसा तेजसा चैव दुर्निरीक्ष्यौ सुरैरपि । 012a
यस्य प्रसादं कुर्वाते स देवौ द्रष्टुमर्हति ॥ 012c
नूनं तयोरनुमते हृदि हृच्छयचोदितः । 013a
महामेरोर्गिरेः शृङ्गात्प्रच्युतो गन्धमादनम् ॥ 013c
नारदः सुमहद्भूतं सर्वलोकानचीचरत् । 014a
तं देशमगमद्राजन्बदर्याश्रममाशुगः ॥ 014c
तयोराह्निकवेलायां तस्य कौतूहलं त्वभूत् । 015a
इदं तदास्पदं कृत्स्नं यस्मिल्ँलोकाः प्रतिष्ठिताः ॥ 015c
सदेवासुरगन्धर्वाः सकिन्नरमहोरगाः । 016a
एका मूर्तिरियं पूर्वं जाता भूयश्चतुर्विधा ॥ 016c
धर्मस्य कुलसन्ताने धर्मादेभिर्विवर्धितः । 017a
अहो ह्यनुगृहीतोऽद्य धर्म एभिः सुरैरिह ॥ 017c
नरनारायणाभ्यां च कृष्णेन हरिणा तथा । 018a
अत्र कृष्णो हरिश्चैव कस्मिंश्चित्कारणान्तरे ॥ 018c
स्थितौ धर्मसुतावेतौ तथा तपसि धिष्ठितौ । 019a
एतौ हि परमं धाम काऽनयोराह्निकक्रिया ॥ 019c
पितरौ सर्वभूतानां दैवतं च यशस्विनौ । 020a
कां देवतां तु यजतः पितॄन्वा कान्महामती ॥ 020c
इति सञ्चिन्त्य मनसा भक्त्या नारायणस्य तु । 021a
सहसा प्रादुरभवत्समीपे देवयोस्तदा ॥ 021c
कृते दैवे च पित्र्ये च ततस्ताभ्यां निरीक्षितः । 022a
पूजितश्चैव विधिना यथाप्रोक्तेन शास्त्रतः ॥ 022c
तद्दृष्ट्वा महदाश्चर्यमपूर्वं विधिविस्तरम् । 023a
उपोपविष्टः सुप्रीतो नारदो भगवानृषिः ॥ 023c
नारायणं सन्निरीक्ष्य प्रसन्नेनान्तरात्मना । 024a
नमस्कृत्य महादेवमिदं वचनमब्रवीत् ॥ 024c
वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे । 025a
त्वमजः शाश्वतो धाता माता मृतमनुत्तमम् ॥ 025c
प्रतिष्ठितं भूतभव्यं त्वयि सर्वमिदं जगत् । 026a
चत्वारो ह्याश्रमा देव सर्वे गार्हस्थ्यमूलकाः ॥ 026c
यजन्ते त्वामहरहर्नानामूर्तिसमास्थितम् । 027a
पिता माता च सर्वस्य देवतानां च शाश्वतम् । 027c
कं त्वद्य यजसे देवं पितरं कं न विद्महे ॥ 028a
'कमर्चसि महाभाग तन्मे प्रब्रूहि पृच्छतः ॥' 028c
श्रीभगवानुवाच 029
अवाच्यमेतद्वक्तव्यमात्मगुह्यं सनातनम् । 029a
तव भक्तिमतो ब्रह्मन्वक्ष्यामि तु यथातथम् ॥ 029c
यत्तत्सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम् । 030a
इन्द्रियैन्द्रियार्थैश्च सर्वभूतैश्च वर्जितम् ॥ 030c
स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते । 031a
त्रिगुणव्यतिरिक्तो वै पुरुषश्चेति कल्पितः ॥ 031c
तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम । 032a
अव्यक्ताव्यक्तभावस्था या सा प्रकृतिरव्यया ॥ 032c
तां योनिमावयोर्विद्धि योसौ सदसदात्मकः । 033a
आवाभ्यां पूज्यते यो हि दैवे पित्र्ये च कल्प्यते ॥ 033c
नास्ति तस्मात्परोऽन्यो हि पिता देवोऽथवा द्विज । 034a
आत्मा हि नौ स विज्ञेयस्ततस्तं पूजयावहे ॥ 034c
तेनैषा प्रथिता ब्रह्मन्मर्यादा लोकभाविनी । 035a
दैवं पित्र्यं च कर्तव्यमिति तस्यानुशासनम् ॥ 035c
ब्रह्मा स्थाणुर्मनुर्दक्षो भृगुर्धर्मस्तथा यमः । 036a
मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः ॥ 036c
वसिष्ठः परमेष्ठी च विवस्वान्सोम एव च । 037a
कर्दमश्चापि यः प्रोक्तः क्रोधो विक्रीत एव च ॥ 037c
*एकविंशतिरुत्पन्नास्ते प्रजापतयः स्मृताः । 038a
तस्य देवस्य मर्यादां पूजयन्तः सनातनीम् ॥ 038c
दैवं पित्र्यं च सततं तस्य विज्ञाय तत्त्वतः । 039a
आत्मप्राप्तानि च ततो जानन्ति द्विजसत्तमाः ॥ 039c
स्वर्गस्था अपि ये केचित्तान्नमस्यन्ति देहिनः । 040a
ते तत्प्रसादाद्गच्छन्ति तेनादिष्टफलां गतिम् ॥ 040c
ये हीनाः सप्तदशभिर्गुणैः कर्मभिरेव च । 041a
कलाः पञ्चदश त्यक्त्वा ते मुक्ता इति निश्चयः ॥ 041c
मुक्तानां तु गतिर्ब्रह्मन्क्षेत्रज्ञ इति कल्पिता । 042a
स हि सर्वगतिश्चैव निर्गुणश्चैव कथ्यते ॥ 042c
दृश्यते ज्ञानयोगेन आवां च प्रसृतौ ततः । 043a
एवं ज्ञात्वा तमात्मानं पूजयावः सनातनम् ॥ 043c
तं वेदाश्चाश्रमाश्चैव नानातनुसमाश्रितम् । 044a
भक्त्या सम्पूजयन्त्यद्य गतिं चैषां ददाति सः ॥ 044c
ये तु तद्भाविता लोके ह्येकान्तित्वं समास्थिताः । 045a
एतदभ्यधिकं तेषां यत्ते तं प्रविशन्त्युत ॥ 045c
इति गुह्यसमुद्देशस्तव नारद कीर्तितः । 046a
भक्त्या प्रेम्णा च विप्रर्षे अस्मद्भक्त्या च ते श्रुतः ॥ 046c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्विचत्वारिंशदधिकत्रिशततमोऽध्यायः ॥ 342 ॥
12-342-3 किं कुर्यात्कथं न चलते दिव इति ध. पाठः ॥ 12-342-5 अतिगूढमिमं प्रश्नमिति ट. पाठः । नह्येतदन्यथा शक्यमिति ध. पाठः । तर्कया तर्केण आर्षो लिङ्गव्यत्ययः ॥ 12-342-6 ज्ञानागमेन ऋते विना ॥ 12-342-8 चतस्रो मूर्तयो नराद्याः ॥ 12-342-17 धर्मस्य मूलसन्तानो महानिति विवर्धित इति ध. पाठः ॥ 12-342-19 स्थितौ धर्मोत्तरौ ह्येताविति झ. पाठः ॥ 12-342-25 सपुराणेषु शास्त्रेषु च महामतिरिति ध. पाठः । धाता विधाता मृत्युरुत्तम इति थ. पाठः ॥ 12-342-34 आत्मा हि नः स विज्ञेय इति झ. पाठः ॥ 12-342-35 तेनैव स्थापिता ब्रह्मन्निति थ. पाठः ॥