अध्यायः 341

अन्तरिक्षाद्गिरिशिखरे निपतितेन शुकेन तद्विभेदनपूर्वकं ततो निष्क्रमणम् ॥ 1 ॥ ततः पुत्रवियोगविषण्णस्य व्यासस्य रुद्रेण समाश्वासनम् ॥ 2 ॥ भीष्म उवाच 001
इत्येवमुक्त्वा वचनं ब्रह्मर्षिः सुमहातपाः । 001a
प्रातिष्ठत शुकः सिद्धिं हित्वा दोषांश्चतुर्विधान् ॥ 001c
तमो ह्यष्टगुणं हित्वा जहौ पञ्चविधं रजः । 002a
ततः सत्वं जहौ धीमांस्तदद्भुतमिवाभवत् ॥ 002c
ततस्तस्मिन्पदे नित्ये निर्गुणे लिङ्गवर्जिते । 003a
ब्रह्मणि प्रत्यतिष्ठत्स विधूमोऽग्निरिव ज्वलन् ॥ 003c
उल्कापाता दिशां दाहो भूमिकम्पस्तथैव च । 004a
प्रादुर्भूताः क्षणे तस्मिंस्तदद्भुतमिवाभवत् ॥ 004c
द्रुमाः शाखाश्च मुमुचुः शिखराणि च पर्वताः । 005a
निर्घातशब्दैर्गुरुभिर्भूमिर्व्यादीर्यतेव ह ॥ 005c
न बभासे सहस्रांशुर्न जज्वाल च पावकः । 006a
ह्रदाश्च सरितश्चैव चुक्षुभुः सागरास्तथा ॥ 006c
ववर्ष वासवस्तोयं रसवच्च सुगन्धि च । 007a
ववौ समीरणश्चापि दिव्यगन्धवहः शुचिः ॥ 007c
स शृङ्गेऽप्रतिमे दिव्ये हिमवन्मेरुसन्निभे । 008a
संश्लिष्टे श्वेतपीते द्वे रुक्मरूप्यमये शुभे ॥ 008c
शतयोजनविस्तारे तिर्यगूर्ध्वं च भारत । 009a
उदीचीं दिशमास्थाय रुचिरे सन्ददर्श ह ॥ 009c
सोऽविशङ्केन मनसा तथैवाभ्यपतच्छुकः ॥ 010ac
ततः पर्वतशृङ्गे द्वे सहसैव द्विधाकृते । 011a
अदृश्येतां महाराज तदद्भुतमिवाभवत् ॥ 011c
ततः पर्वतशृङ्गाभ्यां सहसैव विनिःसृतः । 012a
न च प्रतिजघानास्य स गतिं पर्वतोत्तमः ॥ 012c
ततो महानभूच्छब्दो दिवि सर्वदिवौकसाम् । 013a
गन्धर्वाणामृषीणां च ये च शैलनिवासिनः ॥ 013c
दृष्ट्वा शुकमतिक्रान्तं पर्वतं च द्विधा कृतम् । 014a
साधुसाध्विति तत्रासीन्नादः सर्वत्र भारत ॥ 014c
स पूज्यमानो देवैश्च गन्धर्वैर्ऋषिभिस्तथा । 015a
यक्षराक्षससङ्घैश्च विद्याधरगणैस्तथा ॥ 015c
दिव्यैः पुष्पैः समाकीर्णमन्तरिक्षं समन्ततः । 016a
आसीत्किल महाराज शुकाभिपतने तदा ॥ 016c
ततो मन्दाकिनीं रम्यामुपरिष्टादभिव्रजन् । 017a
शुको ददर्श धर्मात्मा पुष्पितद्रुमकाननाम् ॥ 017c
तस्यां क्रीडन्त्यभिरताः स्नान्ति चैवाप्सरोगणाः । 018a
शून्याकारं निराकाराः शुकं दृष्ट्वा विवाससः ॥ 018c
तं प्रक्रामन्तमाज्ञाय पिता स्नेहसमन्वितः । 019a
उत्तमां गतिमास्थाय पृष्ठतोऽनुससार ह ॥ 019c
शुकस्तु मारुतादूर्ध्वं गतिं कृत्वान्तरिक्षगाम् । 020a
दर्शयित्वा प्रभावं स्वं सर्वभूतोऽभवत्तदा ॥ 020c
महायोगगतिं त्वग्र्यां व्यासोत्थाय महातपाः । 021a
निमेषान्तरमात्रेण शुकाभिपतनं ययौ ॥ 021c
स ददर्श द्विधा कृत्वा पर्वताग्रं शुकं गतम् । 022a
शशंसुर्ऋषयस्तत्र कर्म पुत्रस्य तत्तदा ॥ 022c
ततः शुकेति दीर्घेण शब्देनाक्रन्दितस्तदा । 023a
स्वयं पित्रा स्वरेणोच्चैस्त्रील्लोँकाननुनाद्य वै ॥ 023c
शुकः सर्वगतो भूत्वा सर्वात्मा सर्वतोमुखः । 024a
प्रत्यभाषत धर्मात्मा भोःशब्देनानुनादयन् ॥ 024c
तत एकाक्षरं नादं भोरित्येव समीरयन् । 025a
प्रत्याहरञ्जगत्सर्वमुच्चैः स्थावरजङ्गमम् ॥ 025c
ततःप्रभृति चाद्यापि शब्दानुच्चारितान्पृथक् । 026a
गिरिगह्वरपृष्ठेषु व्याहरन्ति शुकं प्रति ॥ 026c
अन्तर्हितः प्रभावं तु दर्शयित्वा शुकस्तदा । 027a
गुणान्सन्त्यज्य शब्दादीन्पदमभ्यगमत्परम् ॥ 027c
महिमानं तु तं दृष्ट्वा पुत्रस्यामिततेजसः । 028a
निषसाद गिरिप्रस्थे पुत्रमेवानुचिन्तयन् ॥ 028c
ततो मन्दाकिनीतीरे क्रीडन्तोऽऽप्सरसां गणाः । 029a
आसाद्य तमृषिं सर्वाः सम्भ्रान्ता गतचेतसः ॥ 029c
जले निलिल्यिरे काश्चित्काश्चिद्गुल्मान्प्रपेदिरे । 030a
वसनान्याददुः काश्चित्तं दृष्ट्वा मुनिसत्तमम् ॥ 030c
तां मुक्ततां तु विज्ञाय मुनिः पुत्रस्य वै तदा । 031a
सक्ततामात्मनश्चैव प्रीतोऽभूद्व्रीडितश्च ह ॥ 031c
तं देवगन्धर्ववृतो महर्षिगणपूजितः । 032a
पिनाकहस्तो भगवानभ्यागच्छत शङ्करः ॥ 032c
तमुवाच महादेवः सान्त्वपूर्वमिदं वचः । 033a
पुत्रशोकाभिसन्तप्तं कृष्णद्वैपायनं तदा ॥ 033c
अग्नेर्भूमेरपां वायोरन्तरिक्षस्य चैव ह । 034a
वीर्येण सदृशः पुत्रः पुरा मत्तस्त्वया वृतः ॥ 034c
स तथालक्षणो जातस्तपसा तव सम्भृतः । 035a
मम चैव प्रसादेन ब्रह्मतेजोमयः शुचिः ॥ 035c
स गतिं परमां प्राप्तो दुष्प्रापामजितेन्द्रियैः । 036a
दैवतैरपि विप्रर्षे तं त्वं किमनुशोचसि ॥ 036c
यावत्स्थास्यन्ति गिरयो यावत्स्थास्यन्ति सागराः । 037a
तावत्तवाक्षया कीर्तिः सपुत्रस्य भविष्यति ॥ 037c
छायां स्वपुत्रसदृशीं सर्वतोऽनपगां सदा । 038a
द्रक्ष्यसे त्वं च लोकेऽस्मिन्मत्प्रसादान्महामुने ॥ 038c
सोऽनुगीतो भगवता स्वयं रुद्रेण भारत । 039a
छायां पश्यन्परावृत्तः स मुनिः परया मुदा ॥ 039c
इति जन्म गतिश्चैव शुकस्य भरतर्षभ । 040a
विस्तरेण समाख्याता यन्मां त्वं परिपृच्छसि ॥ 040c
एतदाचष्ट मे राजन्देवर्षिर्नारदः पुरा । 041a
व्यासश्चैव महायोगी सञ्जल्पेषु पदेपदे ॥ 041c
इतिहासमिमं पुण्यं मोक्षधर्मार्थसंहितम् । 042a
धारयेद्यः शमपरः स गच्छेत्परमां गतिम् ॥ 042c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकचत्वारिंशदधिकत्रिशततमोऽध्यायः ॥ 341 ॥

12-341-1 सिद्धिं श्रुत्वा दोषान्बहुप्रियानिति ट. पाठः ॥ 12-341-5 निर्घातशब्दैर्गुरुभिर्हिमवान्दीर्यतीव हेति झ. ट. थ. पाठः ॥ 12-341-6 दिशश्च सरितश्चैवेति ध. पाठः । द्रुमाश्च सरितश्चैवेति ट. पाठः ॥ 12-341-21 व्यास उत्थाय । सन्धिरार्षः ॥ 12-341-23 ततः शुकेति दीर्घेण शौक्ष्येणाक्रन्दितं तथेति ट. ध. पाठः ॥ 12-341-25 तत एकाक्षरां वाचं भो इत्येव समीरयदिति थ. पाठः ॥ 12-341-30 वासांस्याददिरे काश्चिदिति थ. पाठः ॥ 12-341-36 दुष्प्रापामकृतात्मभिरिति ट. थ. पाठः ॥ 12-341-42 धारयेद्यः स परम इति ध. पाठः ॥