अध्यायः 340

शुकेन कैलासशिखरादन्तरिक्षोत्पतनम् ॥ 1 ॥ शुकेनात्मानमवलोकयतो देवान्प्रति व्यासेन शुकेत्याक्रोशे तम् प्रति प्रतिवचनचोदना ॥ 2 ॥ भीष्म उवाच 001
गिरिशृङ्गं समारुह्य सुतो व्यासस्य भारत । 001a
समे देशे विविक्ते स निःशलाक उपाविशत् ॥ 001c
धारयामास चात्मानं यथाशास्त्रं यथाविधि । 002a
पादप्रभृतिगात्रेषु क्रमेण क्रमयोगवित् ॥ 002c
ततः स प्राङ्मुखो विद्वानादित्ये नाचिरोदिते । 003a
पाणिपादं समाधाय विनीतवदुपाविशत् ॥ 003c
न तत्र पक्षिसम्पातो न शब्दो नापि दर्शनम् । 004a
यत्र वैयासकिर्धीमान्योक्तुं समुपचक्रमे ॥ 004c
स ददर्श तदाऽऽत्मानं सर्वसङ्गविनिःसृतम् । 005a
प्रजहास ततो हासं शुकः सम्प्रेक्ष्य तत्परम् ॥ 005c
स पुनर्योगमास्थाय मोक्षमार्गोपलब्धये । 006a
महायोगेश्वरो भूत्वा सोऽत्यक्रामद्विहायसम् ॥ 006c
ततः प्रदक्षिणं कृत्वा देवर्षिं नारदं ततः । 007a
निवेदयामास च तं स्वं योगं परमर्षये ॥ 007c
शुक उवाच 008
दृष्टो मार्गः प्रवृत्तोस्मि स्वस्ति तेऽस्तु तपोधन । 008a
त्वत्प्रसादाद्गमिष्यामि गतिमिष्टां महाद्युते ॥ 008c
नारदेनाभ्यनुज्ञातः शुको द्वैपायनात्मजः । 009a
अभिवाद्य पुनर्योगमास्थायाकाशमाविशत् ॥ 009c
कैलासपृष्ठादुत्पत्य स पपात दिवं तदा । 010a
अन्तरिक्षचरः श्रीमान्व्यासपुत्रः सुनिश्चितः ॥ 010c
तमुद्यन्तं द्विजश्रेष्ठं वैनतेयसमद्युतिम् । 011a
ददृशुः सर्वभूतानि मनोऽमारुतरंहसम् ॥ 011c
व्यवसायेन लोकांस्त्रीन्सर्वान्सोऽथ विचिन्तयन् । 012a
आस्थितो दिव्यमध्वानं पावकार्कसमप्रभः ॥ 012c
तमेकमनसं यान्तमव्यग्रमकुतोभयम् । 013a
ददृशुः सर्वभूतानि जङ्गमानीतराणि च ॥ 013c
यथाशक्ति यथान्यायं पूजयाञ्चक्रिरे तदा । 014a
पुष्पवर्षैश्च दिव्यैस्तमलञ्चक्रुर्दिवौकसः ॥ 014c
तं दृष्ट्वा विस्मिताः सर्वे गन्धर्वाप्सरसां गणाः । 015a
ऋषयश्चैव संसिद्धाः परं विस्मयमागताः ॥ 015c
अन्तरिक्षगतः कोऽयं तपसा सिद्धिमागतः । 016a
अधः कायोर्ध्ववक्त्रश्च नेत्रैः समतिवाह्यते ॥ 016c
ततः परमधर्मात्मा त्रिषु लोकेषु विश्रुतः । 017a
भास्करं समुदीक्षन्स प्राङ्मुखो वाग्यतोऽगमत् । 017c
शब्देनाकाशमखिलं पूरयन्निव सर्वशः ॥ 017e
तमापतन्तं सहसा दृष्ट्वा सर्वाप्सरोगणाः । 018a
सम्भ्रान्तमनसो राजन्नासन्परमविस्मिताः । 018c
पञ्चचूडाप्रभृतयो भृशमुत्फुल्ललोचनाः ॥ 018e
दैवतं कतमं ह्येतदुत्तमां गतिमास्थितम् । 019a
सुनिश्चितमिहायाति विमुक्तमिव निःस्पृहम् ॥ 019c
ततः समभिचक्राम मलयं नाम पर्वतम् । 020a
उर्वशी पूर्वचित्तिश्च यं नित्यमुपसेवतः ॥ 020c
तस्य ब्रह्मर्षिपुत्रस्य विस्मयं ययतुः परम् । 021a
अहो बुद्धिसमाधानं वेदाभ्यासरते द्विजे ॥ 021c
अचिरेणैव कालेन नभश्चरति चन्द्रवत् । 022a
पितृशुश्रूषया बुद्धिं सम्प्राप्तोऽयमनुत्तमाम् ॥ 022c
पितृभक्तो दृढतपाः पितुः सुदयितः सुतः । 023a
अनन्यमनसा तेन कथं पित्रा विसर्जितः ॥ 023c
उर्वश्या वचनं श्रुत्वा शुकः परमधर्मवित् । 024a
उदैक्षत दिशः सर्वा वचने गतमानसः ॥ 024c
सोऽन्तरिक्षं महीं चैव सशैलवनकाननाम् । 025a
विलोकयामास तदा सरांसि सरितस्तथा ॥ 025c
ततो द्वैपायनसुतं बहुमानात्समन्ततः । 026a
कृताञ्जलिपुटाः सर्वा निरीक्षन्ते स्म देवताः ॥ 026c
अब्रवीत्तास्तदा वाक्यं शुकः परमधर्मवित् । 027a
पिता यद्यनुगच्छेन्मां क्रोशमान शुकेति वै ॥ 027c
तस्य प्रतिवचो देयं सर्वैरेव समाहितैः । 028a
एतन्मे स्नेहतः सर्वे वचनं कर्तुमर्हथ ॥ 028c
शुकस्य वचनं श्रुत्वा दिशः सजलकाननाः । 029a
समुद्राः सरितः शैलाः प्रत्यूचुस्तं समन्ततः ॥ 029c
यथा ज्ञापयसे विप्र बाढमेवं भविष्यति । 030a
ऋषेर्व्याहरतो वाक्यं प्रतिवक्ष्यामहे वयम् ॥ 030c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चत्वारिंशदधिकत्रिशततमोऽध्यायः ॥ 340 ॥

12-340-1 निःशलाके निस्तृणे ॥ 12-340-16 अधःकायात् ऊर्ध्वं वक्त्रं यस्य । सूर्ये दत्तदृष्टिरतः स्वदेहस्याधोभागं न पश्यतीत्यर्थः ॥