अध्यायः 339

नारदवचनाज्जातवैराग्येण शुकेन सूर्यमण्डलप्रविविक्षया व्यासनारदयोर्निवेदनपूर्वकं कैलासशिखरारोहणम् ॥ 1 ॥ नारद उवाच 001
सुखदुःखविपर्यासो यदा समनुपद्यते । 001a
नैनं प्रज्ञा सुनीतं वा त्रायते नापि पौरुषम् ॥ 001c
स्वभावाद्यत्नमातिष्ठेद्यत्नवान्नावसीदति । 002a
जरामरणरोगेभ्यः प्रियमात्मानमुद्धरेत् ॥ 002c
रुजन्ति हि शरीराणि रोगाः शारीरमानसाः । 003a
सायका इव तीक्ष्णाग्राः प्रयुक्ता दृढधन्विभिः ॥ 003c
व्यथितस्य विधित्साभिस्त्रस्यतो जीवितैषिणः । 004a
अवशस्य विनाशाय शरीरमपकृष्यते ॥ 004c
स्रवन्ति न निवर्तन्ते स्रोतांसि सरितामिव । 005a
आयुरादाय मर्त्यानां रात्र्यहानि पुनः पुनः ॥ 005c
व्यत्ययो ह्ययमत्यन्तं पक्षयोः शुक्लकृष्णयोः । 006a
जातान्मर्त्याञ्जरयति निमेषान्नावतिष्ठते ॥ 006c
सुखदुःखानि भूतानामजरो जरयत्यसौ । 007a
आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च ॥ 007c
अदृष्टपूर्वानादाय भावानपरिशङ्कितान् । 008a
इष्टानिष्टान्मनुष्याणामस्तं गच्छन्ति रात्रयः ॥ 008c
योयदिच्छेद्यथाकाममयत्नाच्च तदाप्नुयात् । 009a
यदि स्यान्न पराधीनं पुरुषस्य क्रियाफलम् ॥ 009c
संयताश्च हि दक्षाश्च मतिमन्तश्च मानवाः । 010a
दृश्यन्ते निष्फलाः सन्तः प्रहीणाः सर्वकर्मभिः ॥ 010c
अपरे बालिशाः सन्तो निर्गुणाः पुरुषाधमाः । 011a
अशुभैरपि संयुक्ता दृश्यन्ते सर्वकामिनः ॥ 011c
भूतानामपरः कश्चिद्धिंसायां सततोत्थितः । 012a
वञ्चनायां च लोकस्य स सुखेष्वेव जीर्यते ॥ 012c
अचेष्टमानमासीनं श्रीः कञ्चिदुपतिष्ठते । 013a
कश्चित्कर्मानुसृत्यान्यो नाप्राप्यमधिगच्छति ॥ 013c
अपराधं समाचक्ष्व पुरुषस्य स्वभावतः । 014a
शुक्रमन्यत्र सम्भूतं पुनरन्यत्र गच्छति ॥ 014c
तस्य योनौ प्रसक्तस्य गर्भो भवति वा न वा । 015a
आम्रपुष्पोपमा यस्य निर्वृत्तिरुपलभ्यते ॥ 015c
केषाञ्चित्पुत्रकामानामनुसन्तानमिच्छताम् । 016a
सिद्धौ प्रयतमानानां न चाण्डमुपजायते ॥ 016c
गर्भाच्चोद्विजमानानां क्रुद्धादाशीविषादिव । 017a
आयुष्माञ्जायते पुत्रः कथं प्रेतः पितेव ह ॥ 017c
देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृद्धिभिः । 018a
दश मासान्परिधृता जायन्ते कुलपांसनाः ॥ 018c
अपरे धनधान्यानि भोगांश्च पितृसञ्चितान् । 019a
विपुलानभिजायन्ते लब्धास्तैरेव मङ्गलैः ॥ 019c
अन्योन्यं समभिप्रेत्य मैथुनस्य समागमे । 020a
उपद्रव इवाविष्टो योनिं गर्भः प्रपद्यते ॥ 020c
शीर्णं परशरीराणि च्छिन्नबीजं शरीरिणम् । 021a
प्राणिनं प्राणसंरोधे मांसश्लेष्मविचेष्टितम् ॥ 021c
निर्दग्धं परदेहेऽपि परदेहं चलाचलम् । 022a
विनश्यन्तं विनाशान्ते भावि नावमिवाहितम् ॥ 022c
सङ्गत्या जठरे न्यस्तं रेतोबिन्दुमचेतनम् । 023a
केन यत्नेन जीवन्तं गर्भं त्वमिह पश्यसि ॥ 023c
अन्नपानानि जीर्यन्ते यत्र भक्षाश्च भक्षिताः । 024a
तस्मिन्नेवोदरे गर्भः किं नान्नमिव जीर्यते ॥ 024c
गर्भे मूत्रपुरीषाणां स्वभावनियता गतिः । 025a
धारणे वा विसर्गे वा न कर्ता विद्यतेऽवशः ॥ 025c
स्रवन्ति ह्युदराद्गर्भा जायमानास्तथा परे । 026a
आगमेन तथाऽन्येषां विनाश उपपद्यते ॥ 026c
एतस्माद्योनिसम्बन्धाद्यो जीवः परिमुच्यते । 027a
प्रजां च लभते काञ्चित्पुनर्द्वन्द्वेषु सज्जति ॥ 027c
स तस्य सहजातस्य सप्तमीं नवमीं दशाम् । 028a
प्राप्नुवन्ति ततः पञ्च न भवन्ति शतायुषः ॥ 028c
नाभ्युत्थाने मनुष्याणां योगाः स्युर्नात्र संशयः | 029a
व्याधिभिश्च विमथ्यन्ते व्याधैः क्षुद्रमृगा इव ॥ 029c
व्याधिभिर्भक्ष्यमाणानां त्यजतां विपुलं धनम् । 030a
वेदनां नापकर्षन्ति यतमानाश्चिकित्सकाः ॥ 030c
ते चापि निपुणा वैद्याः कुशलाः सम्भृतौषधाः । 031a
व्याधिभिः परिकृष्यन्ते मृगा व्याधैरिवार्दिताः ॥ 031c
ते पिबन्तः कषायांश्च सर्पींषि विविधानि च । 032a
दृश्यन्ते जरया भग्ना नगा नागैरिवोत्तमैः ॥ 032c
के वा भुवि चिकित्सन्ते रोगार्तान्मृगपक्षिणः । 033a
श्वापदानि दरिद्रांश्च प्रायो नार्ता भवन्ति ते ॥ 033c
पौरानपि दुराधर्षान्नृपतीनुग्रतेजसः । 034a
आक्रम्य खादन्ते रोगाः पशून्पशुपचा इव ॥ 034c
इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम् । 035a
स्रोतसा सहसा क्षिप्तं ह्रियमाणं बलीयसा ॥ 035c
न धनेन न राज्येन नोग्रेण तपसा तथा । 036a
स्वभावमतिवर्तन्ते ये नियुक्ताः शरीरिणः ॥ 036c
न म्रियेरन्न जीर्येरन्सर्वे स्युः सर्वकामिनः । 037a
नाप्रियं प्रतिपश्येयुरुत्थानस्य फले सति ॥ 037c
उपर्युपरि लोकस्य सर्वो भवितुमीहते । 038a
यतते च यथाशक्ति न च तद्वर्तते तथा ॥ 038c
ऐश्वर्यमदमत्तांश्च मत्तान्मद्यमदेन च । 039a
अप्रमत्ताश्च शूराश्च विक्रान्ताः पर्युपासते ॥ 039c
क्लेशाः प्रतिनिवर्तन्ते केषाञ्चिदसमीक्षिताः । 040a
स्वंस्वं न पुनरन्येषां न किञ्चिदधिगम्यते ॥ 040c
महच्च फलवैषम्यं दृश्यते कर्मसिद्धिषु । 041a
वहन्ति शिबिकामन्ये यान्त्यन्ये शिबिकागताः ॥ 041c
सर्वेषामृद्धिकामानामन्ये रथपुरःसराः । 042a
मनुजाश्च गतस्त्रीकाः शतशो विविधाः स्त्रियः ॥ 042c
द्वन्द्वारामेषु भूतेषु गच्छन्त्येकैकशो नराः । 043a
इदमन्यत्परं पश्य माऽत्र मोहं करिष्यसि ॥ 043c
त्यज धर्ममधर्मं च उभे सत्यानृते त्यज । 044a
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज ॥ 044c
एतत्ते परमं गुह्यमाख्यातमृषिसत्तम । 045a
येन देवाः परित्यज्य मर्त्यलोकं दिवं गताः ॥ 045c
नारदस्य वचः श्रुत्वा शुकः परमबुद्धिमान् । 046a
सञ्चिन्त्य मनसा धीरो निश्चयं नाध्यगच्छत ॥ 046c
पुत्रदारैर्महान्क्लेशो विद्याम्नाये महाञ्छ्रमः । 047a
किन्नु स्याच्छाश्वतं स्थानमल्पक्लेशं महोदयम् ॥ 047c
ततो मुहूर्तं सञ्चिन्त्य निश्चितां गतिमात्मनः । 048a
परावरज्ञो धर्मस्य परां नैःश्रेयसीं गतिम् ॥ 048c
कथं त्वहमसंश्लिष्टो गच्छेयं गतिमुत्तमाम् । 049a
नावर्तेयं यथा भूयो योनिसंसारसागरे ॥ 049c
परं भावं हि काङ्क्षामि यत्र नावर्तते पुनः । 050a
सर्वसङ्गान्परित्यज्य निश्चितो मनसा गतिम् ॥ 050c
तत्र यास्यामि यत्रात्मा शर्म मेऽधिगमिष्यति । 051a
अक्षयश्चाव्ययश्चैव यत्र स्थास्यामि शाश्वतः ॥ 051c
न तु योगमृते शक्त्या प्राप्नुयां परमां गतिम् । 052a
अनुबन्धो विमुक्तस्य कर्मभिर्नोपपद्यते ॥ 052c
यस्माद्योगं समास्थाय त्यक्त्वा गृहकलेवरम् । 053a
वायुभूतः प्रवेक्ष्यामि तेजोराशिं दिवाकरम् ॥ 053c
न ह्येष क्षयतां याति सोमः सुरगणैर्यथा । 054a
कम्पितः पतते भूमिं पुनश्चैवाधिरोहति ॥ 054c
क्षीयते हि सदा सोमः पुनश्चैवाभिपूर्यते । 055a
नेच्छाम्येवं विदित्वैते ह्रासवृद्धी पुनःपुनः ॥ 055c
रविस्तु सन्तापयते लोकान्रश्मिभिरुल्बणैः । 056a
सर्वतस्तेज आदत्ते नित्यमक्षयमण्डलः ॥ 056c
अतो मे रोचते गन्तुमादित्यं दीप्ततेजसम् । 057a
अत्र वत्स्यामि दुर्धर्षो निःसङ्गेनान्तरात्मना ॥ 057c
सूर्यस्यर सदने चाहं निक्षिप्येदं कलेवरम् । 058a
ऋषिभिः सह वत्स्यामि सौरं तेजोऽतिदुःसहम् ॥ 058c
आपृच्छामि नगान्नागान्गिरीनुर्वीं दिशो दश । 059a
देवदानवगन्धर्वान्पिशाचोरगराक्षसान् ॥ 059c
लोकेषु सर्वभूतानि प्रवेक्ष्यामि न संशयः । 060a
पश्यन्तु योगवीर्यं मे सर्वे देवाः सहर्षिभिः ॥ 060c
अथानुज्ञाप्य तमृषिं नारदं लोकविश्रुतम् । 061a
तस्मादनुज्ञां सम्प्राप्य जगाम पितरं प्रति ॥ 061c
सोऽभिवाद्य महात्मानं कृष्णद्वैपायनं मुनिम् । 062a
शुकः प्रदक्षिणं कृत्वा कृष्णमापृष्टवान्मुनिम् ॥ 062c
श्रुत्वा चर्षिस्तद्वचनं शुकस्य प्रीतो महात्मा पुनराह चैनम् । 063a
भोभो पुत्र स्थीयतां तावदद्य यावच्चक्षुः प्रीणयामि त्वदर्थे ॥ 063c
निरपेक्षः शुको भूत्वा निःस्नेहो मुक्तसंशयः । 064a
मोक्षमेवानुसञ्चिन्त्य गमनाय मनो दधे ॥ 064c
पितरं स परित्यज्य जगाम मुनिसत्तमः । 065a
कैलासपृष्ठं विपुलं सिद्धसङ्घनिषेवितम् ॥ 065c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनचत्वारिंशदधिकत्रिशततमोऽध्यायः ॥ 339 ॥

12-339-1 विपर्यासः सुखे दुःखधीर्दुःखे सुखधीः ॥ 12-339-4 विधित्साभिः पिपासाभिस्तृष्णाभिः ॥ 12-339-6 व्यत्ययः पौर्वापर्यम् ॥ 12-339-11 अशीर्भिरप्यसंयुक्ताः इति ध. पाठः ॥ 12-339-13 कर्मी कर्मानुसृत्यान्य इति थ. पाठः । कश्चिच्च कर्म कुर्वन्हि नाप्राप्यमिति ध. पाठः ॥ 12-339-17 कथं प्रेत्य इवाभवदिति झ. पाठः ॥ 12-339-27 यो बीजं परिमुच्यत इति झ. पाठः ॥ 12-339-28 सहजातस्य जन्माद्यन्तां तु वै दशामिति ध. पाठः । न भवन्ति गतायुष इति झ. पाठः ॥ 12-339-29 रोगाः स्युरिति ध. पाठः । योगाः सामर्थ्यानि ॥ 12-339-33 के बाहुर्विचिकित्सन्ते इति ट. ध. पाठः ॥ 12-339-34 धीरानपि दुराधर्षानिति ध. पाठः ॥ 12-339-35 अनाक्रन्दं वेदनया मूढम् ॥ 12-339-36 स्वभावान्नातिवर्तन्ते ये नियुक्ताः शरीरिष्विति ट. थ. ध. पाठः ॥ 12-339-37 उत्थानस्य फलं प्रति इति थ. ध. पाठः ॥ 12-339-40 स्वंस्वं च पुनरन्येषामिति झ. पाठः ॥ 12-339-42 गतश्रीका इति ट. पाठः ॥ 12-339-49 असंश्लिष्टः सर्वोपाधिनिर्मुक्तः ॥ 12-339-52 शक्या प्राप्तुं सा परमा गतिरिति थ. पाठः । अवबन्धो हि युक्तस्येति थ. पाठः ॥