अध्यायः 338

नारदेन शुकम् प्रति मोक्षमार्गप्रदर्शकहितोपदेशः ॥ 1 ॥ नारद उवाच 001
अशोकं शोकनाशार्थं शास्त्रं शान्तिकरं शिवम् । 001a
निशम्य लभते बुद्धिं तां लब्ध्वा सुखमेधते ॥ 001c
शोकस्थानसहस्राणि भयस्थानशतानि च । 002a
दिवसेदिवसे मूढमाविशन्ति न पण्डितम् ॥ 002c
तस्मादनिष्टनाशार्थमितिहासं निबोध मे । 003a
तिष्ठते चेद्वशे बुद्धिर्लभते शोकनाशनम् ॥ 003c
अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रियस्य च । 004a
मनुष्या मानसैर्दुःखैर्युज्यन्ते स्वल्पबुद्ध्यः ॥ 004c
द्रव्येषु समतीतेषु ये गुणास्तान्न चिन्तयेत् । 005a
न तानाद्रियमाणस्य स्नेहबन्धः प्रमुच्यते ॥ 005c
दोषदर्शी भवेत्तत्र यत्र रागः प्रवर्तते । 006a
अनिष्टवद्धितं पश्येत्तथा क्षिप्रं विरज्यते ॥ 006c
नार्थो न धर्मो न यशो योऽतीतमनुशोचति । 007a
अप्यभावेन युज्येत तच्चास्य न निवर्तते ॥ 007c
गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च । 008a
सर्वाणि नैतदेकस्य शोकस्थानं हि युज्यते ॥ 008c
मृतं वा यदि वा नष्टं योऽतीतमनुशोचति । 009a
दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते ॥ 009c
नाश्रु कुर्वन्ति ये बुद्ध्या दृष्ट्वा लोकेषु सन्ततिम् । 010a
सम्यक्प्रपश्यतः सर्वं नाश्रुकर्मोपपद्यते ॥ 010c
दुःखोपघाते शारीरे मानसे चाप्युपस्थिते । 011a
यस्मिन्न शक्यते कर्तुं यत्नस्तन्नानुचिन्तयेत् ॥ 011c
भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत् । 012a
चिन्त्यमानं हि न व्येति भूयश्चापि प्रवर्धते ॥ 012c
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः । 013a
एतद्विज्ञानमसामर्थ्यं न बालैः समतामियात् ॥ 013c
अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चयः । 014a
आरोग्यं प्रियसंसर्गो गृध्येत्तत्र न पण्डितः ॥ 014c
न जानपदिकं दुःखमेकः शोचितुमर्हति । 015a
अशोचन्प्रतिकुर्वीत यदि पश्येदुपक्रमम् ॥ 015c
सुखाद्बहुतरं दुःखं जीविते नात्र संशयः । 016a
स्निग्धत्वं चेन्द्रियार्थेषु मोहान्मरणमप्रियम् ॥ 016c
परित्यजति यो दुःखं सुखं वाऽप्युभयं नरः । 017a
अभ्येति ब्रह्म सोत्यन्तं न तं शोचन्ति पण्डिताः ॥ 017c
त्यजन्ते दुःखमर्था हि पालनेन च ते सुखाः । 018a
दुःखेन चाधिगम्यन्ते नाशमेषां न चिन्तयेत् ॥ 018c
अन्यामन्यां धनावस्थां प्राप्य वैशेषिकीं नराः । 019a
अतृप्ता यान्ति विध्वंसं सन्तोषं यान्ति पण्डिताः ॥ 019c
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । 020a
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥ 020c
अन्तो नास्ति पिपासायास्तुष्टिस्तु परमं सुखम् । 021a
तस्मात्सन्तोषमेवेह धनं पश्यन्ति पण्डिताः ॥ 021c
निमेषमात्रमपि हि वयो गच्छन्न तिष्ठति । 022a
स्वशरीरेष्वनित्येषु नित्यं किमनुचिन्तयेत् ॥ 022c
भूतेषु भावं सञ्चिन्त्य ये बुद्ध्वा मनसः परम् । 023a
न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम् ॥ 023c
सञ्चिन्वानकमेवैनं कामानामवितृप्तकम् । 024a
व्याघ्रः पशुमिवासाद्य मृत्युरादाय गच्छति ॥ 024c
तथाऽप्युपायं सम्पश्येद्दुःखस्य परिमोक्षणे । 025a
अशोचन्नारभेतैव युक्तश्चाव्यसनी भवेत् ॥ 025c
शब्दे स्पर्शे च रूपे च गन्धेषु च रसेषु च । 026a
नोपभोगात्परं किञ्चिद्धनिनो वाऽधनस्य च ॥ 026c
प्राक्सम्प्रयोगाद्भूतानां नास्ति दुःखं परायणम् । 027a
विप्रयोगात्तु सर्वस्य न शोचेत्प्रकृतिस्थितः ॥ 027c
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा । 028a
चक्षुःश्रोत्रे च मनसा मनो वाचं च विद्यया ॥ 028c
प्रणयं प्रतिसंहृत्य सस्निग्धेष्वितरेषु च । 029a
विचरेदसमुन्नद्धः स सुखी स च पण्डितः ॥ 029c
अध्यात्मरतिरासीनो निरपेक्षो निरामिषः । 030a
आत्मनैव सहायेन यश्चरेत्स सुखी भवेत् ॥ 030c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टत्रिंशदधिकत्रिशततमोऽध्यायः ॥ 338 ॥

12-338-1 शान्तिपरमिति ध. पाठः ॥ 12-338-5 ताननाद्रियमाणस्य स्नेहबन्ध इति ध. पाठः ॥ 12-338-8 शोकस्थानं हि विद्यत इति झ. ट. पाठः ॥ 12-338-9 द्वावनर्थौ इष्टस्त्र्यादिदेहविनाशः स्वशरीरतापश्च । शेषग्रन्थः स्पष्टार्थो व्याख्यातप्रायश्चेति न व्याख्यायते ॥ 12-338-11 दुःखोपघातैः शारीरैर्मानसैश्चाप्युपस्थिते इति ध. पाठः ॥ 12-338-12 चिन्त्यमानं हि नापैतीति ध. पाठः ॥ 12-338-18 दुःखेन चापि त्यजते पालने न च ते सुखमिति ध. पाठः ॥ 12-338-23 भूतेष्वभावं सञ्चिन्त्य ये बुद्ध्या तमसः परमिति ध. पाठः ॥ 12-338-27 नास्ति दुःखमनामयमिति ट. थ. ध. पाठः ॥