अध्यायः 337
नारदेन शुकम् प्रति ऋषिभ्यः सनत्कुमारोक्तहितवचनानुवादः ॥ 1 ॥
भीष्म उवाच 001
एतस्मिन्नन्तरे भूते नारदः पुनरागमत् । 001a
शुकं स्वाध्यायनिरतं वेदार्थान्प्रष्टुमीप्सया ॥ 001c
देवर्षिं तु शुको दृष्ट्वा नारदं समुपस्थितम् । 002a
अर्घ्यपूर्वेण विधिना वेदोक्तेनाभ्यपूजयत् ॥ 002c
नारदोऽथाब्रवीत्प्रीतो ब्रूहि ब्रह्मविदां वर । 003a
केन त्वां श्रेयसा वत्स योजयामीति हृष्टवत् ॥ 003c
नारदस्य वचः श्रुत्वा शुकः प्रोवाच भारत । 004a
अस्मिल्ँलोके हितं यत्स्यात्तेन मां योक्तुमर्हसि ॥ 004c
नारद उवाच 005
तत्त्वं जिज्ञासतां पूर्वमृषीणां भावितात्मनाम् । 005a
सनत्कुमारो भगवानिदं वचनमब्रवीत् ॥ 005c
नास्ति विद्यासगं चक्षुर्नास्ति सत्यसमं तपः । 006a
नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् ॥ 006c
निवृत्तिः कर्मणः पापात्सततं पुण्यशीलता । 007a
सद्वृत्तिः सद्वदाचारः श्रेय एवदनुत्तमम् ॥ 007c
मानुष्यमसुखं प्राप्य यः सज्जति न मुच्यते । 008a
नालं स दुःखमोक्षाय संयोगो दुःखलक्षणम् ॥ 008c
सक्तस्य बुद्धिश्चलति मोहजालविवर्धनी । 009a
मोहजालावृतो दुःखमिह चामुत्र सोऽश्नुते ॥ 009c
सर्वोपायात्तु कामस्य क्रोधस्य च विनिग्रहः । 010a
कार्यः श्रेयोर्थिना तौ हि श्रेयोघातार्थमुद्यतौ ॥ 010c
नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेच्च मत्सरात् । 011a
विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः ॥ 011c
आनृशंस्यं परो धर्मः क्षमा च परमं बलम् । 012a
आत्मज्ञानं परं ज्ञानं न सत्याद्विद्यते परम् ॥ 012c
सत्यस्य वचनं श्रेयः सत्यादपि हितं वदेत् । 013a
यद्भूतहितमत्यन्तमेतत्सत्यं मतं मम ॥ 013c
सर्वारम्भपरित्यागी निराशीर्निष्परिग्रहः । 014a
येन सर्वं परित्यक्तं स विद्वान्स च पण्डितः ॥ 014c
इन्द्रियैरिन्द्रियार्थान्यश्चरत्यात्मवशैरिह । 015a
आसज्जमानः शान्तात्मा निर्विकारः समाहितः ॥ 015c
अत्मभूतैरतद्भूतः सह चैव विनैव च । 016a
स विमुक्तः परं श्रेयो नचिरेणाधिगच्छति ॥ 016c
अदर्शनमसंस्पर्शस्तथाऽसम्भाषणं तदा । 017a
यस्य भूतैः सह मुने स श्रेयो विन्दते परम् ॥ 017c
न हिंस्यात्सर्वभूतानि मैत्रायणगतश्चरेत् । 018a
नेदं जन्म समासाद्य वैरं कुर्वीत केनचित् ॥ 018c
आकिञ्चन्यं सुसन्तोषो निराशीस्त्वमचापलम् । 019a
एतदाहुः परं श्रेय आत्मज्ञस्य जितात्मनः ॥ 019c
परिग्रहं परित्यज्य भव तात जितेन्द्रियः । 020a
अशोकं स्थानमातिष्ठ इह चामुत्र चाभयम् ॥ 020c
निरामिषा न शोचन्ति त्यजेदामिषमात्मनः । 021a
परित्यज्यामिषं सौम्य दुःखतापाद्विमोक्ष्यसे ॥ 021c
तपोनित्येन दान्तेन मुनिना संयतात्मना । 022a
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना ॥ 022c
गुणसङ्गेष्वनासक्त एकचर्यारतः सदा । 023a
ब्राह्मणो नचिरादेव सुखमायात्यनुत्तमम् ॥ 023c
द्वन्द्वारामेषु भूतेषु य एको रमते मुनिः । 024a
विद्धि प्रज्ञानतृप्तं तं ज्ञानतृप्तो न शोचति ॥ 024c
शुभैर्लभति देवत्वं व्यामिश्रेर्जन्म मानुषम् । 025a
अशुभैश्चाप्यधोजन्म कर्मभिर्लभतेऽवशः ॥ 025c
तत्र मृत्युवशो दुःखैः सततं समभिद्रुतः । 026a
संसारे पच्यते जन्तुस्तत्कथं नावबुध्यसे ॥ 026c
अहिते हितसञ्ज्ञस्त्वमध्रुवे ध्रुवसञ्ज्ञकः । 027a
अनर्थे चार्थसञ्ज्ञस्त्वं किमर्थं नावबुध्यसे ॥ 027c
संवेष्ट्यमानं बहुभिर्मोहात्तन्तुभिरात्मजैः । 028a
कोशकार इवात्मानं वेष्टयन्नावबुध्यसे ॥ 028c
अलं परिग्रहेणेह दोषवान्हि परिग्रहः । 029a
कृमिर्हि कोशकारस्तु बध्यते स परिग्रहात् ॥ 029c
पुत्रदारकुटुम्बेषु सक्ताः सीदन्ति जन्तवः । 030a
सरःपङ्कार्णवे मग्ना जीर्णा वनगजा इव ॥ 030c
महाजालसमाकृष्टान्स्थले मत्स्यानिवोद्धृतान् । 031a
मोहजालसमाकृष्टान्पश्य जन्तून्सुदुःखितान् ॥ 031c
कुटुम्बं पुत्रदारांश्च शरीरं सञ्चयाश्च ये । 032a
पारक्यमध्रुवं सर्वं किं स्वं सुकृतदुष्कृतम् ॥ 032c
यदा सर्वान्परित्यज्य गन्तव्यमवशेन ते । 033a
अनर्थे किं प्रसक्तस्त्वं समर्थं नानुतिष्ठसि ॥ 033c
अविश्रान्तमनालम्बमपाथेयमदैशिकम् । 034a
तमःकान्तारमध्वानं कथमेको गमिष्यसि ॥ 034c
न हि त्वां प्रस्थितं कश्चित्पृष्ठतोऽनुगमिष्यति । 035a
सुकृतं दुष्कृतं च त्वां यास्यन्तमनुयास्यतः ॥ 035c
विद्या कर्म च शौचं च ज्ञानं च बहुविस्तरम् । 036a
अर्थार्थमनुसार्यन्ते सिद्धार्थश्च विमुच्यते ॥ 036c
निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः । 037a
छित्त्वैतां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ॥ 037c
रूपकूलां मनःस्रोतां स्पर्शद्वीपां रसावहाम् । 038a
गन्धपङ्कां शब्दजलां स्वर्गमार्गदुरावहाम् ॥ 038c
क्षमारित्रां सत्यमयीं धर्मस्थैर्यपदाङ्कुराम् । 039a
त्यागवाताध्वगां शीघ्रां नौतार्यां तां नदीं तरेत् ॥ 039c
त्यज धर्ममधर्मं च उभे सत्यानृते त्यज । 040a
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज ॥ 040c
त्यज धर्ममसङ्कल्पादधर्मं चाप्यलिप्सया । 041a
उभे सत्यानृते बुद्ध्या बुद्धिं परमनिश्चयात् ॥ 041c
अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् । 042a
चर्मावनद्धं दुर्गन्धिं पूर्णं मूत्रपुरीषयोः ॥ 042c
जराशोकसमाविष्टं रोगायतनमातुरम् । 043a
रजस्वलमनित्यं च भूतावासमिमं त्यज ॥ 043c
इदं विश्वं जगत्सर्वमजगच्चापि यद्भवेत् । 044a
महाभूतात्मकं सर्वं महद्यत्परमाणु च ॥ 044c
'महाभूतानि खं वायुरग्निरापस्तथा मही । 045a
षष्ठं तु चेतना या तु आत्मा सप्तममुच्यते ।' 045c
अष्टमं तु मनो ज्ञेयं बुद्धिस्तु नवमी स्मृता ॥ 045e
इन्द्रियाणि च पञ्चैव तमः सत्वं रजस्तथा । 046a
इत्येष सप्तदशको राशिरव्यक्तसञ्ज्ञकः ॥ 046c
सर्वैरिहेन्द्रियार्थैश्च व्यक्ताव्यक्तैर्हि संहितः । 047a
चतुर्विंशक इत्येष व्यक्ताव्यक्तमयो गणः ॥ 047c
एतैः सर्वैः समायुक्तः पुमानित्यभिधीयते । 048a
त्रिवर्गं तु सुखं दुःखं जीवितं मरणं तथा ॥ 048c
य इदं वेद तत्त्वेन स वेद प्रभवाप्ययौ । 049a
पारम्पर्येह बोद्धव्यं ज्ञानानां यच्च किञ्चन ॥ 049c
इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्थितिः । 050a
अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् ॥ 050c
इन्द्रियैर्नियतैर्देही धाराभिरिव तर्प्यते । 051a
लोके विततमात्मानं लोकांश्चात्मनि पश्यति ॥ 051c
परावरदृशः शक्तिर्ज्ञानमूला न नश्यति । 052a
पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा ॥ 052c
ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते । 053a
ज्ञानेन विविधान्क्लेशानतिवृत्तस्य मोहजान् ॥ 053c
लोके बुद्धिप्रकाशेन लोकमार्गो न रिष्यते । 054a
अनादिनिधनज्ञं तमात्मनि स्थितमव्ययम् ॥ 054c
अकर्तारममूर्तं च भगवानाह तीर्थवित् । 055a
यो जन्तुः स्वकृतैस्तैस्तैः कर्मभिर्नित्यदुःखितः ॥ 055c
स दुःखप्रतिघातार्थं हन्ति जन्तूननेकधा । 056a
ततः कर्म समादत्ते पुनरन्यन्नवं बहु ॥ 056c
तप्यतेऽथ पुनस्तेन भुक्त्वा पथ्यमिवातुरः । 057a
अजस्रमेव मोहान्धो दुःखेषु सुखसञ्ज्ञितः ॥ 057c
बध्यते मथ्यते चैव कर्मभिर्मन्थवत्सदा । 058a
ततो निबद्धः स्वां योनिं कर्मणामुदयादिह ॥ 058c
परिभ्रमति संसारं चक्रवद्बहुवेदनः । 059a
सत्वं निर्वृत्तबन्धस्तु निवृत्तश्चापि कर्मतः ॥ 059c
सर्ववित्सर्वजित्सिद्धौ भव भावविवर्जितः । 060a
संयमेन नवं बन्धं निवर्त्य तपसो बलात् । 060c
सम्प्राप्ता बहवः सिद्धिमप्यबाधां सुखोदयाम् ॥ 060e
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तत्रिंशदधिकत्रिशततमोऽध्यायः ॥ 337 ॥
12-337-1 वेदार्थान्वक्तुमीप्सयेति ड. पाठः ॥ 12-337-6 नास्ति सत्यात्परं तप इति ध. पाठः ॥ 12-337-8 यः सज्जति स मुह्यतीति झ. पाठः ॥ 12-337-13 सत्यस्य पालनं श्रेय इति ट. पाठः ॥ 12-337-15 इन्द्रियैरिन्द्रियार्थेभ्य इति ट. ड. पाठः ॥ 12-337-24 पञ्चानामेषु भूतेषु य एको रमते मुनिरिति ट. पाठः ॥ 12-337-36 विद्या कर्म च शौर्यं चेति ट. ड. पाठः ॥ 12-337-39 क्षमैवाऽरित्राणि नौचालनदण्डा यस्याम् । धर्मस्थैर्यवटारकाम् इति झ. पाठः । तत्र धर्मस्थैर्यं वटारका नौकाकर्षणरज्जुर्यस्यां तामित्यर्थः । योगवाताध्वगां कृत्वेति ट. पाठः । नावं कृत्वा नदीं तरेदिति ध. पाठः ॥ 12-337-44 महद्यत्परमाणुवदिति ट. थ. पाठः ॥ 12-337-54 रिष्यते हिंस्यते ॥ 12-337-55 तीर्थविन्मोक्षोपायवित् ॥ 12-337-60 संयमेन धारणाध्यानसमाध्यात्मकेन । नवं दृष्टिमात्रेणोत्पन्नम् ॥