अध्यायः 336

वैशम्पायनादिशिष्यप्रवासेन विमनसं व्यासम् प्रति नारदस्यागमनम् ॥ 1 ॥ भीष्म उवाच 001
एतच्छ्रुत्वा गुरोर्वाक्यं व्यासशिष्या महौजसः । 001a
अन्योन्यं हृष्टमनसः परिषस्वजिरे तदा ॥ 001c
उक्ताः स्मो यद्भगवता तदात्वायतिसंहितम् । 002a
तन्नो मनसि संरूढं करिष्यामस्तथा च तत् ॥ 002c
अन्योन्यं संविभाष्यैवं सुप्रीतमनसः पुनः । 003a
विज्ञापयन्ति स्म गुरुं पुनर्वाक्यविशारदाः ॥ 003c
शैलादस्मान्महीं गन्तुं काङ्क्षितं नो महामुने । 004a
वेदाननेकधा कर्तुं यदि ते रुचितं प्रभो ॥ 004c
शिष्याणां वचनं श्रुत्वा पराशरसुतः प्रभुः । 005a
प्रत्युवाच ततो वाक्यं धर्मार्थसहितं हितम् ॥ 005c
क्षितिं वा देवलोकं वा गम्यतां यदि रोचते । 006a
अप्रमादश्च वः कार्यो ब्रह्म हि प्रचुरच्छलम् ॥ 006c
तेऽनुज्ञातास्ततः सर्वे गुरुणा सत्यवादिना । 007a
जग्मुः प्रदक्षिणं कृत्वा व्यासं मूर्ध्नाऽभिवाद्य च ॥ 007c
अवतीर्य महीं तेऽथ चातुर्होत्रमकल्पयन् । 008a
संयाजयन्तो विप्रांश्च राजन्यांश्च विशस्तथा ॥ 008c
पूज्यमाना द्विजैर्नित्यं मोदमाना गृहे रताः । 009a
याजनाध्यापनरताः श्रीमन्तो लोकविश्रुताः ॥ 009c
अवतीर्णेषु शिष्येषु व्यासः पुत्रसहायवान् । 010a
तूष्णीं ध्यानपरो धीमानेकान्ते समुपाविशत् ॥ 010c
'एतस्मिन्नेव काले तु देवर्षिर्नारदस्तथा । 011a
हिमवन्तमगं द्रष्टुं सिद्धचारणसेवितम् ॥' 011c
तं ददर्शाश्रमपदे नारदः सुमहातपाः । 012a
अथैनमब्रवीत्काले मधुराक्षरया गिरा ॥ 012c
भोभो महर्षे वासिष्ठ ब्रह्मघोषो न वर्तते । 013a
एको ध्यानपरस्तूष्णीं किमास्से चिन्तयन्निव ॥ 013c
ब्रह्मघोषैर्विरहितः पर्वतोऽयं न शोभते । 014a
रजसा तमसा चैव सोमः सोपप्लवो यथा ॥ 014c
न भ्राजते यथापूर्वं निषादानामिवालयः । 015a
देवर्षिगणजुष्टोऽपि वेदध्वनिविनाकृतः ॥ 015c
ऋषयश्च हि देवाश्च गन्धर्वाश्च महौजसः । 016a
वियुक्ता ब्रह्मघोषेण न भ्राजन्ते यथा पुरा ॥ 016c
नारदस्य वचः श्रुत्वा कृष्णद्वैपायनोऽब्रवीत् । 017a
महर्षे यत्त्वया प्रोक्तं वेदवादविचक्षण ॥ 017c
एतन्मनोऽनुकूलं मे भवानर्हसि भाषितुम् । 018a
सर्वज्ञः सर्वदर्शी च सर्वत्र च कुतूहली ॥ 018c
त्रिषु लोकेषु यद्वृत्तं सर्वं तव मते स्थितम् । 019a
तदाज्ञापय विप्रर्षे ब्रूहि किं करवाणि ते ॥ 019c
यन्मया समनुष्ठेयं ब्रह्मर्षे तदुदाहर । 020a
वियुक्तस्येह शिष्यैर्मे नातिहृष्टमिदं मनः ॥ 020c
नारद उवाच 021
अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम् । 021a
मलं पृथिव्या बाह्लीकाः स्त्रीणां कौतूहलं मलम् ॥ 021c
अधीयतां भवान्वेदान्सार्धं पुत्रेण धीमता । 022a
विधुन्वन्ब्रह्मघोषेण रक्षोभयकृतं तमः ॥ 022c
भीष्म उवाच 023
नारदस्य वचः श्रुत्वा व्यासः परमधर्मवित् । 023a
तथेत्युक्त्वाऽथ संहृष्टो वेदाभ्यासे दृढव्रतः ॥ 023c
'*उवाच च महाप्राज्ञं नारदं पुनरेव हि ॥ 024ac
मलं पृथिव्या बाह्लीका इत्युक्तमधुना त्वया । 025a
कीदृशाश्चैव बाह्लीका ब्रूहि मे वदतां वर ॥ 025c
नारद उवाच 026
अस्यां पृथिव्यां चत्वारो देशाः पापजनैर्वृताः । 026a
युगन्धरस्तु प्रथमस्तथा भूतिलकः स्मृतः ॥ 026c
अच्युतच्छल इत्युक्तस्तृतीयः पापकृत्तमः । 027a
चतुर्थस्तु महापापो बाह्लीक इति सञ्ज्ञितः ॥ 027c
मृगोष्ट्रगर्दभक्षीरं पिबन्त्यस्य युगन्धरे । 028a
एवकर्णास्तु दृश्यन्ते जना वै ह्यच्युतस्थले ॥ 028c
मेहन्ति च मलं पापा विसृजन्ति जलेषु वै । 029a
नित्यं भूतिलकेत्यन्नं तज्जलं च पिबन्ति च ॥ 029c
हरिवाह्यास्तु वाहीका न स्मरन्ति हरिं क्वचित् । 030a
ऐहलौकिकमोक्षं ते मांसशोणितवर्धनाः । 030c
वृथा जाता भविष्यन्ति बाह्लीका इति विश्रुताः ॥ 030e
पुष्कराहारनिरताः पिशाचा यदभाषते । 031a
मुसुण्ठीं परिगृह्योग्रां तच्छृणुष्व महामुने ॥ 031c
ब्राह्मणीं बहुपुत्रां तां पुष्करे स्नातुमागताम् । 032a
युगन्धरे पयः पीत्वा ह्युचिता ह्यच्युतस्थले ॥ 032c
तथा भूतिलके स्नात्वा बाह्लीकांश्च निरीक्ष्य वै । 033a
आगताऽसि तथा स्नातुं कथं स्वर्गं न गच्छसि ॥ 033c
इत्युक्त्वा ब्राह्मणीभाण्डं पोथयित्वा मुसुण्ठिना । 034a
उवाच क्रोधताम्राक्षी पिशाची तीर्थपालिका ॥ 034c
एतत्तु ते दिवावृत्तं रात्रौ वृत्तमथान्यथा । 035a
गच्छ बाह्लीकसंसर्गादशुचित्वं न संशयः ॥ 035c
यद्द्विषन्ति महात्मानं न स्मरन्ति जनार्दनम् । 036a
न तेषां पुण्यतीर्थेषु गतिः संसर्गिणामपि ॥ 036c
उद्युक्ता ब्राह्मणी भीता प्रतियाता सुतैः सह । 037a
स्वदेहस्था जजापैवं सपुत्रा ध्यानतत्परा ॥ 037c
अनन्तस्य हरेः शुद्धं नाम वै द्वादशाक्षरम् । 038a
वत्सरत्रितये पूर्णे ब्राह्मणी पुनरागता ॥ 038c
सपुत्रा पुष्करद्वारं पिशाच्याह तथागतम् । 039a
नमस्ते ब्राह्मणि शुभे पूताऽहं तव दर्शनात् ॥ 039c
कुरु तीर्थाभिषेकं च सपुत्रा पापवर्जिता । 040a
हरेर्नाम्ना च मां साध्वी जलेन स्प्रष्टुमर्हसि ॥ 040c
इत्युक्ता ब्राह्मणी हृष्टा पुत्रैः सह शुभव्रता । 041a
जलेन प्रोक्षयामास द्वादशाक्षरसंयुतम् ॥ 041c
तत्क्षणादभवच्छुद्धा पिशाची दिव्यरूपिणी । 042a
अप्सरा ह्यभवद्दिव्या गता स्वर्लोकमुत्तमम् ॥ 042c
ब्राह्मणी चैव कालेन वासुदेवपरायणा । 043a
सपुत्रा चागता स्थानमच्युतस्य शुभं परम् ॥ 043c
एतत्ते कथितं विद्वन्मुने कालोऽयमागतः ॥ 044ac
गमिष्येऽहं महाप्राज्ञ आगमिष्यामि वै पुनः । 045a
इत्युक्त्वा स जगामाथ नारदो वदतांवरः ॥ 045c
द्वैपायनस्तु भगवांस्तच्छ्रुत्वा मुनिसत्तमात् । 046a
'शुकेन सह पुत्रेण वेदाभ्यासमथाकरोत् । 046c
स्वरेणोच्चैः सशैक्ष्येण लोकानापूरयन्निव ॥ 046e
तयोरभ्यसतोरेव नानाधर्मप्रवादिनोः । 047a
वातोऽतिमात्रं प्रववौ समुद्रानिलवेजितः ॥ 047c
ततोऽनध्याय इति तं व्यासः पुत्रमवारयत् । 048a
शुको वारितमात्रस्तु कौतूहलसमन्वितः ॥ 048c
अपृच्छत्पितरं ब्रह्मन्कुतो वायुरभूदयम् । 049a
आख्यातुमर्हति भवान्वायोः सर्वं विचेष्टितम् ॥ 049c
शुकस्यैतद्वचः श्रुत्वा व्यासः परमधर्मवित् । 050a
अनध्यायनिमित्तेऽस्मिन्निदं वचनमब्रवीत् ॥ 050c
दिव्यं ते चक्षुरुत्पन्नं स्वस्थं ते निश्चलं मनः । 051a
तमसा रजसा चापि त्यक्तः सत्वे व्यवस्थितः ॥ 051c
आदर्शे स्वामिव च्छायां पश्यस्यात्मानमात्मना । 052a
न्यस्यात्मनि स्वयं चेतो बुद्ध्या समनुचिन्तय ॥ 052c
देवयानपथो विष्णुः पितृयानपथो रविः । 053a
द्वावेतौ प्रेत्य पन्थानौ दिवं चाधश्च गच्छतः ॥ 053c
पृथिव्यामन्तरिक्षे च यत्र संवान्ति वायवः । 054a
सप्तैते वायुमार्गा वै तान्निबोधानुपूर्वशः ॥ 054c
तत्र देवगणाः साध्याः सम्बभूवुर्महाबलाः । 055a
तेषामप्यभवत्पुत्रः समानो नाम दुर्जयः ॥ 055c
उदानस्तस्य पुत्रोऽभूद्व्यानस्तस्याभवत्सुतः । 056a
अपानश्च ततो ज्ञेयः प्राणश्चापि ततोऽपरः ॥ 056c
अनपत्योऽभवत्प्राणो दुर्धर्षः शत्रुतापनः । 057a
पृथक्कर्माणि तेषां तु प्रवक्ष्यामि यथातथम् ॥ 057c
प्राणिनां सर्वतो वायुश्चेष्टां वर्तयते पृथक् । 058a
प्राणनाच्चैव भूतानां प्राण इत्यभिधीयते ॥ 058c
प्रेरयत्यभ्रसङ्घातान्धूमजांश्चोष्मजांश्च यः । 059a
प्रथमः प्रथमे मार्गे आवहो नाम योऽनिलः ॥ 059c
अम्बरे स्नेहमभ्रेभ्यस्तटिद्भ्यश्च महाद्युतिः । 060a
प्रवहो नाम संवाति द्वितीयश्च सतोयदः ॥ 060c
उदयं ज्योतिषां शश्वत्सोमादीनां करोति यः । 061a
अन्तर्देहेषु चोदानं यं वदन्ति मनीषिणः ॥ 061c
यश्चतुर्भ्यः समुद्रेभ्यो वायुर्धारयते जलम् । 062a
उद्धृत्याददते चापो जीमूतेभ्योऽम्बरेऽनिलः ॥ 062c
योऽद्भिः संयोज्य जीमूतान्पर्जन्याय प्रयच्छति । 063a
उद्वहो नाम वर्षिष्ठस्तृतीयः स सदागतिः ॥ 063c
समुह्यमाना बहुधा येन नीताः पृथग्घनाः । 064a
वर्षमोक्षकृतारम्भास्ते भवन्ति घनाघनाः ॥ 064c
संहता येन चाविद्धा भवन्ति नदनान्तराः । 065a
रक्षणार्थाय सम्भूता मेघत्वमुपयान्ति च ॥ 065c
योऽसौ वहति देवानां विमानानि विहायसा । 066a
चतुर्थः संवहो नाम वायुः स गिरिमर्दनः ॥ 066c
येन वेगवता तूर्णं रूक्षेणारुजता रसान् । 067a
वायुना विहता मेघा न भवन्ति बलाहकाः ॥ 067c
दारुणोत्पातसञ्चारो नभसः स्तनयित्नुमान् । 068a
पञ्चमः स महावेगो विवहो नाम मारुतः ॥ 068c
यस्मिन्पारिप्लवा दिव्या भवन्त्यापो विहायसा । 069a
पुण्यं चाकाशगङ्गायास्तोयं विष्टभ्य तिष्ठति ॥ 069c
दूरात्प्रतिहतो यस्मिन्नेकरश्मिर्दिवाकरः । 070a
यो निरंशुः सहस्रस्य येन भाति वसुन्धरा ॥ 070c
यस्मादाप्यायते सोमो योनिर्दिव्योऽमृतस्य यः । 071a
षष्ठः परिवहो नाम स वायुर्जयतांवरः ॥ 071c
सर्वप्राणभृतां प्राणान्योऽनुकाले निरस्यति । 072a
यस्य वर्त्मानुवर्तेते मृत्युवैवस्वतावुभौ ॥ 072c
सम्यगन्वीक्षतां बुद्ध्या शान्तयाऽध्यात्मचिन्तकाः । 073a
ध्यानाभ्यासाभिरामाणां योऽमृतत्वाय कल्पते ॥ 073c
यं समासाद्य वेगेन दिशामन्तं प्रपेदिरे । 074a
दक्षस्य दशपुत्राणां सहस्राणि प्रजापतेः ॥ 074c
येन सृष्टः पराभूतो यात्येव न निवर्तते । 075a
परावहो नाम परो वायुः स दुरतिक्रमः ॥ 075c
एवमेतेऽदितेः पुत्रा मारुताः परमाद्भुताः । 076a
अनारतं ते संवान्ति सर्वगाः सर्वधारिणः ॥ 076c
एतत्तु महदाश्चर्यं यदयं पर्वतोत्तमः । 077a
कम्पितः सहसा तेन वायुनाऽतिप्रवायता ॥ 077c
विष्णोर्निःश्वासवातोऽयं यदा वेगसमीरितः । 078a
सहसोदीर्यते तात जगत्प्रव्यथते तदा ॥ 078c
तस्माद्ब्रह्मविदो ब्रह्म नाधीयन्तेऽतिवायति । 079a
वायोर्वायुभयं ह्युक्तं ब्रह्म तत्पीडितं भवेत् ॥ 079c
एतावदुक्त्वा वचनं पराशरसुतः प्रभुः । 080a
उक्त्वा पुत्रमधीष्वेति व्योमगङ्गामगात्तदा ॥ 080c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षट्त्रिंशदधिकत्रिशततमोऽध्यायः ॥ 336 ॥

12-336-2 तदात्वायतिसंहितम् तदात्वे तत्काले आयतौ उत्तरकाले च संहितं सम्यक्हितम् ॥ 12-336-14 सोपप्लवो राहुग्रस्तः ॥ 12-336-15 वेदध्वनिनिराकृत इति झ. ट. पाठः ॥ 12-336-19 तदाज्ञापय देवर्षे इति ड. पाठः ॥ 12-336-21 पृथिव्या वाहीका इति ड. पाठः ॥ 12-336-22 अधीयता भवानिति झ. ड. पाठः । रजोभयकृतं तम इति ध. पाठः ॥ 12-336-47 समुद्रानिलवेगित इति ट. ड. पाठः ॥ 12-336-49 पितरं प्रह्ल इति ट. ड. पाठः । अपृच्छत्पितरं पुत्र इति ध. पाठः ॥ 12-336-52 व्यस्यात्मनि स्वयं वेदानिति झ. पाठः ॥ 12-336-61 अन्तर्देहेषु चोदानं द्वितीयश्च ततोऽनिल इति ध. पाठः ॥ 12-336-71 सोमः क्षीणः सम्पूर्णमण्डल इति झ. पाठः ॥ 12-336-78 विष्णोर्निश्वासभूतोयमिति ध. पाठः ॥ 12-336-79 ब्रह्मविदो वेदानिति झ. पाठः ॥

  • 23 तमश्लेकादुपरि 44 तमश्लोकात्पूर्वं वर्तमानाः सार्धविंशतिश्लोका ध. पुस्तक एव दृश्यन्ते ।