अध्यायः 335

जनकाभ्यनुज्ञातेन शुकेन व्यासमेत्य स्वस्य जनकेन सह संवादप्रकारकथनम् ॥ 1 ॥ व्यासस्य वैशम्पायनादिभिः सह संवादः ॥ 2 ॥ भीष्म उवाच 001
एतच्छ्रुत्वा तु वचनं कृतात्मा कृतनिश्चयः । 001a
आत्मनाऽऽत्मानमास्थाय दृष्ट्वा चात्मानमात्मना ॥ 001c
कृतकार्यः सुखी शान्तस्तूष्णीं प्रायादुदङ्मुखः । 002a
शैशिरं गिरिमुद्दिश्य सधर्मा मातरिश्वनः ॥ 002c
एतस्मिन्नेव काले तु देवर्षिर्नारदस्तथा । 003a
हिमवन्तमियाद्द्रष्टुं सिद्धचारणसेवितम् ॥ 003c
तमप्सरोगाकीर्णं गीतस्वननिनादितम् । 004a
किन्नराणां सहस्रैश्च भृङ्गराजैस्तथैव च ॥ 004c
मद्गुभिः खञ्जरीटैश्च विचित्रैर्जीवजीवकैः ॥ 005ac
चित्रवर्णैर्मयूरैश्च केकाशतविराजितैः । 006a
राजहंससमूहैश्च हृष्टैः परभृतैस्तथा ॥ 006c
पक्षिराजो गरुत्मांश्च यं नित्यमधितिष्ठति । 007a
चत्वारो लोकपालाश्च देवाः सर्षिगणास्तथा ॥ 007c
तत्र नित्यं समायान्ति लोकस्य हितकाम्यया । 008a
विष्णुना यत्र पुत्रार्थे तपस्तप्तं महात्मना ॥ 008c
तत्रैव च कुमारेण बाल्ये क्षिप्ता दिवौकसः । 009a
शक्तिर्न्यस्ता क्षितितले त्रैलोक्यमवमन्य वै ॥ 009c
तत्रोवाच जगत्स्कन्दः क्षिपन्वाक्यमिदं तदा । 010a
योऽन्योस्ति मत्तोऽभ्यधिको विप्रा यस्याधिकं प्रियाः ॥ 010c
यो ब्रह्मण्यो द्वितीयोऽस्ति त्रिषु लोकेषु वीर्यवान् । 011a
सोभ्युद्धरत्विमां शक्तिमथवा कम्पयत्विति ॥ 011c
तच्छुत्वा व्यथिता लोकाः क इमामुद्धरेदिति । 012a
अथ देवगणं सर्वं सम्भ्रान्तेन्द्रियमानसम् ॥ 012c
अपश्यद्भगवान्विष्णुः क्षिप्तं सासुरराक्षसम् । 013a
किन्न्वत्र सुकृतं कार्यं भवेदिति विचिन्तयन् ॥ 013c
अनामृष्य ततः क्षेपमवैक्षत च पावकिम् । 014a
सम्प्रगृह्य विशुद्धात्मा शक्तिं प्रज्वलितां तदा ॥ 014c
कम्पयामास सव्येन पाणिना पुरुषोत्तमः । 015a
शक्त्यां तु कम्प्यमानायां विष्णुना बलिना तदा ॥ 015c
मेदिनी कम्पिता सर्वा सशैलवनकानना । 016a
शक्तेनापि समुद्धर्तुं कम्पिता साऽभवत्तदा ॥ 016c
रक्षिता स्कन्दराजस्य धर्षणा प्रभविष्णुना । 017a
तां कम्पयित्वा भगवान्प्रह्लादमिदमब्रवीत् ॥ 017c
पश्य वीर्यं कुमारस्य नैतदन्यः करिष्यति । 018a
सोऽमृष्यमाणस्तद्वाक्यं समुद्धरणनिश्चितः ॥ 018c
जग्राह तां तदा शक्तिं न चैनामभ्यकम्पयत् । 019a
नादं महान्तं मुक्त्वा स मूर्च्छितो गिरिमूर्धनि ॥ 019c
विह्वलः प्रापतद्भूमौ हिरण्यकशिपोः सुतः । 020a
तत्रोत्तरां दिशं गत्वा शैलराजस्य पार्श्वतः ॥ 020c
तपोऽतप्यत दुर्धर्षं तात नित्यं वृषध्वजः । 021a
पावकेन परिक्षिप्तं दीप्यता यस्य चाश्रमम् ॥ 021c
आदित्यपर्वतं नाम दुर्धर्षमकृतात्मभिः । 022a
न तत्र शक्यते गन्तुं यक्षराक्षसदानवैः ॥ 022c
दशयोजनविस्तारमग्निज्वालसमावृतम् । 023a
भगवान्पावकस्तत्र स्वयं तिष्ठति वीर्यवान् ॥ 023c
सर्वान्विघ्नान्प्रशमयन्महादेवस्य धीमतः । 024a
दिव्यं वर्षसहस्रं हि पादेनैकेन तिष्ठतः ॥ 024c
देवान्सन्तापयंस्तत्र महादेवो महाव्रतः । 025a
ऐन्द्रीं तु दिशमास्थाय शैलराजस्य धीमतः ॥ 025c
विविक्ते पर्वततटे पाराशर्यो महातपाः । 026a
वेदानध्यापयामास व्यासः शिष्यान्महातपाः ॥ 026c
सुमन्तुं च महाभागं वैशम्पायनमेव च । 027a
जैमिनिं च महाप्राज्ञं पैलं चापि तपस्विनम् ॥ 027c
एभिः शिष्यैः परिवृतो व्यास आस्ते महातपाः । 028a
तत्राश्रमपदं रम्यं ददर्श पितुरुत्तमम् । 028c
आरणेयो विशुद्धात्मा नभसीव दिवाकरः ॥ 028e
अथ व्यासः परिक्षिप्तं ज्वलन्तमिव पावकम् । 029a
ददृशे सुतमायान्तं दिवाकरसमप्रभम् ॥ 029c
असज्जमानं वृक्षेषु शैलेषु विषयेषु च । 030a
योगयुक्तं महात्मानं यथा बाणं गुणच्युतम् ॥ 030c
सोऽभिगम्य पितुः पादावगृह्णादरणीसुतः । 031a
यथोपजोषं तैश्चापि समागच्छन्महामुनिः ॥ 031c
ततो निवेदयामास पित्रे सर्वमशेषतः । 032a
शुको जनकराजेन संवादं प्रीतमानसः ॥ 032c
एवमध्यापयञ्शिष्यान्व्यासः पुत्रं च वीर्यवान् । 033a
उवास हिमवत्पृष्ठे पाराशर्यो महामुनिः ॥ 033c
ततः कदाचिच्छिष्यास्तं परिवार्यावतस्थिरे । 034a
वेदाध्ययनसम्पन्नाः शान्तात्मानो जितेन्द्रियाः ॥ 034c
वेदेषु निष्ठां सम्प्राप्य साङ्गेष्वपि तपस्विनः । 035a
अथोचुस्ते तदा व्यासं शिष्याः प्राञ्जलयो गुरुम् ॥ 035c
शिष्या ऊचुः 036
महता तेजसा युक्ता यशसा चापि वर्धिताः । 036a
एकं त्विदानीमिच्छामो गुरुणाऽनुग्रहं कृतम् ॥ 036c
इति तेषां वचः श्रुत्वा ब्रह्मर्षिस्तानुवाच ह । 037a
उच्यतामिति तद्वत्सा यद्वः कार्यं प्रियं मया ॥ 037c
एतद्वाक्यं गुरोः श्रुत्वा शिष्यास्ते हृष्टमानसाः । 038a
पुनः प्राञ्जलयो भूत्वा प्रणम्य शिरसा गुरुम् ॥ 038c
ऊचुस्ते सहिता राजन्निदं वचनमुत्तमम् । 039a
यदि प्रीत उपाध्यायो धन्याः स्मो मुनिसत्तम ॥ 039c
काङ्क्षामस्तु वयं सर्वे वरं दत्तं महर्षिणा । 040a
षष्ठः शिष्यो न ते ख्यातिं गच्छेदत्र प्रसीद नः ॥ 040c
चत्वारस्ते वयं शिष्या गुरुपुत्रश्च पञ्चमः । 041a
इह वेदाः प्रतिष्ठेरन्नेष नः काङ्क्षितो वरः ॥ 041c
शिष्याणां वचनं श्रुत्वा व्यासो वेदार्थतत्त्ववित् । 042a
पराशरात्मजो धीमान्परलोकार्थचिन्तकः ॥ 042c
उवाच शिष्यान्धर्मात्मा धर्म्यं नैःश्रेयसं वचः । 043a
ब्राह्मणाय सदा देयं ब्रह्म शुश्रूषवे तथा ॥ 043c
ब्रह्मलोके निवासं यो ध्रुवं समभिकाङ्क्षते । 044a
भवन्तो बहुलाः सन्तु वेदो विस्तार्यतामयम् ॥ 044c
नाशिष्ये सम्प्रदातव्यो नाव्रते नाकृतात्मनि । 045a
एते शिष्यगुणाः सर्वे विज्ञातव्या यथार्थतः । 045c
नापरीक्षितचारित्रे विद्या देया कथञ्चन ॥ 045e
यथा हि कनकं शुद्धं तापच्छेदनिकर्षणैः । 046a
परीक्षेत तथा शिष्यानीक्षेत्कुलगुणादिभिः ॥ 046c
न नियोज्याश्च वः शिष्या अनियोगे महाभये । 047a
यथामति यथापाठं तथा विद्या फलिष्यति ॥ 047c
सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु । 048a
श्रावयेच्चतुरो वर्णान्कृत्वा ब्राह्मणमग्रतः ॥ 048c
वेदस्याध्ययनं हीदं तच्च कार्यं महत्स्मृतम् । 049a
स्तुत्यर्थमिह देवानां वेदाः सृष्टाः स्वयम्भुवा ॥ 049c
यो निर्वदेत सम्मोहाद्ब्राह्मणं वेदपारगम् । 050a
सोऽभिध्यानाद्ब्राह्मणस्य पराभूयादसंशयम् ॥ 050c
यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति । 051a
तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति ॥ 051c
एतद्वः सर्वमाख्यातं स्वाध्यायस्य विधिं प्रति । 052a
उपकुर्याच्च शिष्याणामेतच्च हृदि वो भवेत् ॥ 052c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चत्रिंशदधिकत्रिशततमोऽध्यायः ॥ 335 ॥

12-335-2 शैशिरं गिरिं हिमालयम् ॥ 12-335-4 सहस्रैश्च राजहँसैस्तथैव चेति ड. पाठः ॥ 12-335-24 आसीदिति शेषः ॥