अध्यायः 334
जनकेन शुकम् प्रति मोक्षसाधनीभूताश्रमधर्मकथनपूर्वकं शुकप्रशंसनम् ॥ 1 ॥
भीष्म उवाच 001
ततः स राजा जनको मन्त्रिभिः सह भारत । 001a
पुरोहितं पुरस्कृत्य सर्वाण्यन्तःपुराणि च ॥ 001c
आसनं च पुरस्कृत्य रत्नानि विविधानि च । 002a
शिरसा चार्ध्यमादाय गुरुपुत्रं समभ्यगात् ॥ 002c
स तदासनमादाय बहुरत्नविभूषितम् । 003a
स्पर्ध्यास्तरणसंस्तीर्णं सर्वतोभद्रमृद्धिमत् ॥ 003c
पुरोधसा सङ्गृहीतं हस्तेनालभ्य पार्थिवः । 004a
प्रददौ गुरुपुत्राय शुकाय परमार्चितम् ॥ 004c
तत्रोपविष्टं तं कार्ष्णिं शास्त्रतः प्रतिपूज्य च । 005a
पाद्यं निवेद्य प्रथममर्घ्यं गां च न्यवेदयत् ॥ 005c
स च तां मन्त्रवत्पूजां प्रत्यगृह्णाद्यथाविधि । 006a
प्रतिगृह्य तु तां पूजां जनकाद्द्विजसत्तमः ॥ 006c
गां चैव समनुज्ञाय राजानमनुमान्य च । 007a
पर्यपृच्छन्महातेजा राज्ञः कुशलमव्ययम् ॥ 007c
अनामयं च राजेन्द्र शुकः सानुचरस्य ह । 008a
अनुज्ञातः स तेनाथ निषसाद सहानुगः ॥ 008c
कुशलं चाव्ययं चैव पृष्ट्वा वैयासकिं नृपः । 009a
किमागमनमित्येवं पर्यपृच्छत पार्थिवः ॥ 009c
शुक उवाच 010
पित्राऽहमुक्तो भद्रं ते मोक्षधर्मार्थकोविदः । 010a
विदेहराजो याज्यो मे जनको नाम विश्रुतः ॥ 010c
तत्र गच्छस्व वै तूर्णं यदि ते हृदि संशयः । 011a
प्रवृत्तौ वा निवृत्तौ वा स ते च्छेत्स्यति संशयम् ॥ 011c
सोहं पितुर्नियोगात्त्वामुपप्रष्टुमिहागतः । 012a
तन्मे धर्मभृतां श्रेष्ठ यथावद्वक्तुमर्हसि ॥ 012c
किं कार्यं ब्राह्मणेनेह मोक्षार्थश्च किमात्मकः । 013a
कथं च मोक्षः प्राप्तव्यो ज्ञानेन तपसाऽथवा ॥ 013c
जनक उवाच 014
यत्कार्यं ब्राह्मणेनेह जन्मप्रभृति तच्छृणु । 014a
कृतोपनयनस्तात भवेद्वेदपरायणः ॥ 014c
तपसा गुरुवृत्त्या च ब्रह्मचर्येण चाभिभो । 015a
देवतानामृषीणां चाप्यनृणो ह्यनसूयकः ॥ 015c
वेदानधीत्य नियतो दक्षिणामपवर्ज्य च । 016a
अभ्यनुज्ञामथ प्राप्य समावर्तेत वै द्विजः ॥ 016c
समावृत्तश्च गार्हस्थ्ये स्वदारनिरतो वसेत् । 017a
अनसूयुर्यथान्यायमाहिताग्निरनावृतः ॥ 017c
उत्पाद्य पुत्रं पौत्रं तु वन्याश्रमपदे वसेत् । 018a
तानेवाग्नीन्यथाशास्त्रमर्चयन्नतिथिप्रियः ॥ 018c
स वनेऽग्नीन्यथान्यायमात्मन्यारोप्य धर्मवित् । 019a
निर्द्वन्द्वो बीतरागात्मा ब्रह्माश्रमपदे वसेत् ॥ 019c
शुक उवाच 020
उत्पन्ने ज्ञानविज्ञाने प्रत्यक्षे हृदि शाश्वते । 020a
किमवश्यं निवस्तव्यमाश्रमेषु वनेषु वा ॥ 020c
एतद्भवन्तं पृच्छामि तद्भवान्वक्तुमर्हति । 021a
यथा वेदार्थतत्त्वेन ब्रूहि मे त्वं जनाधिप ॥ 021c
जनक उवाच 022
न विना ज्ञानविज्ञाने मोक्षस्याधिगमो भवेत् । 022a
न विना गुरुसम्बन्धं ज्ञानस्याधिगमः स्मृतः ॥ 022c
गुरुः प्लावयिता तस्य ज्ञानं प्लव इहोच्यते । 023a
विज्ञाय कृतकृत्यस्तु तीर्णस्तदुभयं त्यजेत् ॥ 023c
अनुच्छेदाय लोकानामनुच्छेदाय कर्मणाम् । 024a
पूर्वैराचरितो धर्मश्चातुराश्रम्यसंश्रितः ॥ 024c
अनेन क्रमयोगेन बहुजातिषु कर्मणाम् । 025a
कृत्वा शुभाशुभं कर्म मोक्षो नामेह लभ्यते ॥ 025c
भावितैः करणैश्चायं बहुसंसारयोनिषु । 026a
आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे ॥ 026c
तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः । 027a
त्रिष्वाश्रमेषु कोऽन्वर्थो भवेत्परमभीप्सतः ॥ 027c
राजसांस्तामसांश्चैव नित्यं दोषान्विवर्जयेत् । 028a
सात्विकं मार्गमास्थाय पश्येदात्मानमात्मना ॥ 028c
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । 029a
सम्पश्यन्नोपलिप्येत जले वारिचरो यथा ॥ 029c
पक्षिवत्प्रायणादूर्ध्वममुत्रानन्त्यमश्नुते । 030a
विहाय देहान्निर्मुक्तो निर्द्वन्द्वः प्रशमं गतः ॥ 030c
अत्र गाथाः पुरा गीताः शृणु राज्ञा ययातिना । 031a
धार्यन्तो या द्विजैस्तात मोक्षशास्त्रविशारदैः ॥ 031c
ज्योतिरात्मनि नान्यत्र सर्वजन्तुषु तत्समम् । 032a
स्वयं च शक्यते द्रष्टुं सुसमाहितचेतसा ॥ 032c
न बिभेति परो यस्मान्न बिभेति पराच्च यः । 033a
यश्च नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तु सः ॥ 033c
यदा भावं न कुरुते सर्वभूतेषु पापकम् । 034a
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥ 034c
संयोज्य मनसाऽऽत्मानमीर्ष्यामुत्सृज्य मोहनीम् । 035a
त्यक्त्वा कामं च मोहं च ततो ब्रह्मत्वमश्नुते ॥ 035c
यदा श्राव्ये च दृश्ये च सर्वभूतेषु चाप्ययम् । 036a
समो भवति निर्द्वन्द्वो ब्रह्म सम्पद्यते तदा ॥ 036c
यदा स्तुतिं च निन्दां च समत्वेनैव पश्यति । 037a
काञ्चनं चायसं चैव सुखं दुःखं तथैव च ॥ 037c
शीतमुष्णं तथैवार्थमनर्थं प्रियमप्रियम् । 038a
जीवितं मरणं चैव ब्रह्म सम्पद्यते तदा ॥ 038c
प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः । 039a
तथेन्द्रियाणि मनसा संयन्तव्यानि भिक्षुणा ॥ 039c
तमःपरिगतं वेश्म यथा दीपेन दृश्यते । 040a
तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम् ॥ 040c
एतत्सर्वं च पश्यामि त्वयि बुद्धिमतां वर । 041a
यच्चान्यदपि नोक्तं मे तत्त्वतो वेद तद्भवान् ॥ 041c
ब्रह्मर्षे विदितश्चासि विषयान्तमुपागतः । 042a
गुरोस्तव प्रसादेन तव चैवोपशिक्षया ॥ 042c
तस्यैव च प्रसादेन प्रादुर्भूतं महात्मनः । 043a
ज्ञानं दिव्यं ममापीदं तेनासि विदितो मम ॥ 043c
अधिकं तव विज्ञानमधिका च गतिस्तव । 044a
अधिकं तव चैश्वर्यं तच्च त्वं नावबुध्यसे ॥ 044c
बाल्याद्वा संशयाद्वापि भयाद्वाऽप्यविमोक्षणात् । 045a
उत्पन्ने चापि विज्ञाने नाधिगच्छति तां गतिम् ॥ 045c
व्यवसायेन शुद्धेन मद्विधैश्छिन्नसंशयः । 046a
विमुच्य हृदयग्रन्थीनासादयति तां गतिम् ॥ 046c
भवांश्चोत्पन्नविज्ञानः स्थिरबुद्धिरलोलुपः । 047a
व्यवसायादृते ब्रह्मन्नासादयति तत्परम् ॥ 047c
नास्ति ते सुखदुःखेषु विशेषो नास्ति लोलुपः । 048a
नौत्सुक्यं नृत्यगीतेषु न राग उपजायते ॥ 048c
न बन्धुष्वनुबन्धस्ते न भयेष्वस्ति ते भयम् । 049a
पश्यामि त्वां महाभाग तुल्यलोष्टाश्मकाञ्चनम् ॥ 049c
अहं त्वामनुपश्यामि ये चाप्यन्ये मनीषिणः । 050a
आस्थितं परमं मार्गमक्षयं तमनामयम् ॥ 050c
यत्फलं ब्राह्मणस्येह मोक्षार्थश्च यदात्मकः । 051a
तस्मिन्वै वर्तसे विप्र किमन्यत्परिपृच्छसि ॥ 051c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुस्त्रिंशदधिकत्रिशततमोऽध्यायः ॥ 334 ॥
12-334-7 राज्ये कुशलमव्ययमिति ध. पाठः ॥ 12-334-12 मोक्षः कर्तव्य इति ट. ड. थ. पाठः ॥ 12-334-23 आचार्यः प्रापिता तस्येति ध. पाठः ॥ 12-334-32 नान्यत्र रतं तत्रैव चैव तत् इति ध. पाठः ॥ 12-334-41 चच्चान्यदपि वेत्तव्यमिति झ. पाठः ॥ 12-334-44 अधिकं भवति ज्ञानमिति ड. थ. पाठः ॥ 12-334-46 तद्विधश्छिन्नसंशय इति ध. पाठः ॥ 12-334-48 नास्ति लोलुप इति ध. पाठः ॥