अध्यायः 333
शुकेन व्यासाज्ञया तत्वजिज्ञासया मिथिलास्थं जनकम् प्रत्यागभनम् ॥ 1 ॥
भीष्म उवाच 001
स मोक्षमनुचिन्त्यैव शुकः पितरमभ्यगात् । 001a
प्राहाभिवाद्य च गुरुं श्रेयोर्थी विनयान्वितः ॥ 001c
मोक्षधर्मेषु कुशलो भगवान्प्रब्रवीतु मे । 002a
यथा मे मनसः शान्तिः परमा सम्भवेत्प्रभो ॥ 002c
श्रुत्वा पुत्रस्य तु वचः परमर्षिरुवाच तम् । 003a
अधीहि पुत्र मोक्षं वै धर्मांश्च विविधानपि ॥ 003c
पितुर्नियोगाज्जग्राह शुको धर्मभृतां वरः । 004a
योगशास्त्रं च निखिलं कापिलं चैव भारत ॥ 004c
स तं ब्राह्म्या श्रिया युक्तं ब्रह्मतुल्यपराक्रमम् । 005a
मेने पुत्रं यदा व्यासो मोक्षधर्मविशारदम् ॥ 005c
उवाच गच्छेति तदा जनकं मिथिलेश्वरम् । 006a
स ते वक्ष्यति मोक्षार्थं निखिलं मिथिलेश्वरः ॥ 006c
पितुर्नियोगादगमन्मैथिलं जनकं नृपम् । 007a
प्रष्टुं धर्मस्य निष्ठां वै मोक्षस्य च परायणम् ॥ 007c
उक्तश्च मानुषेण त्वं पथा गच्छेत्यविस्मितः । 008a
न प्रभावेण गन्तव्यमन्तरिक्षचरेण वै ॥ 008c
आर्जवेनैव गन्तव्यं न सुखान्वेषिणा तथा । 009a
नान्वेष्टव्या विशेषास्तु विशेषा हि प्रसङ्गिनः ॥ 009c
अहङ्कारो न कर्तव्यो याज्ये तस्मिन्नराधिपे । 010a
स्थातव्यं च वशे तस्य स ते छेत्स्यति संशयम् ॥ 010c
स धर्मकुशलो राजा मोक्षशास्त्रविशारदः । 011a
याज्यो मम स यद्ब्रूयात्तत्कार्यमविशङ्कया ॥ 011c
एवमुक्तः स धर्मात्मा जगाम मिथिलां मुनिः । 012a
पद्भ्यां शक्तोन्तरिक्षेण क्रान्तुं पृथ्वीं ससागराम् ॥ 012c
स गिरींश्चाप्यतिक्रम्य नदीतीर्थसरांसि च । 013a
बहुव्यालमृगाकीर्णा ह्यटवीश्च वनानि च ॥ 013c
मेरोर्हरेश्च द्वे वर्षे वर्षं हैमवतं ततः । 014a
क्रमेणैवं व्यतिक्रम्य भारतं वर्षमासदत् ॥ 014c
स देशान्विविधान्पश्यंश्चीनहूणनिषेवितान् । 015a
आर्यावर्तमिमं देशमाजगाम महामुनिः ॥ 015c
पितुर्वचनमाज्ञाय तमेवार्थं विचिन्तयन् । 016a
अध्वानं सोऽतिचक्राम खचरः खे पतविव ॥ 016c
पत्तनानि च रम्याणि स्फीतानि नगराणि च । 017a
रत्नानि च विचित्राणि पश्यन्नपि न पश्यति ॥ 017c
उद्यानानि च रम्याणि तथैवायतनानि च । 018a
पुण्यानि चैव तीर्थानि सोत्यक्रामदथाध्वगः ॥ 018c
सोचिरेणैव कालेन विदेहानाससाद ह । 019a
रक्षितान्धर्मराजेन जनकेन महात्मना ॥ 019c
तत्र ग्रामान्बहून्पश्यन्बह्वन्नरसभोजनान् । 020a
पल्लीघोषान्समृद्धांश्च बहुगोकुलसङ्कुलान् ॥ 020c
स्फीतांश्च शालियवसैर्हंससारससेवितान् । 021a
पद्मिनीभिश्च शतशः श्रीमतीभिरलङ्कृतान् ॥ 021c
स विदेहानतिक्रम्य समृद्धजनसेवितान् । 022a
मिथिलोपवनं रम्यमाससाद समृद्धिमत् ॥ 022c
हस्त्यश्वरथसङ्कीर्णं नरनारीसमाकुलम् । 023a
पश्यन्नपश्यन्निव तत्समतिक्रामदच्युतः ॥ 023c
मनसा तं वहन्भारं तमेवार्थं विचिन्तयन् । 024a
आत्मारामः प्रसन्नात्मा मिथिलामाससाद ह ॥ 024c
तस्या द्वारं समासाद्य द्वारपालैर्निवारितः । 025a
स्थितो ध्यानपरो मुक्तो विदितः प्रविवेश ह ॥ 025c
स राजमार्गमासाद्य समृद्धजनकसङ्कुलम् । 026a
पार्थिवक्षयमासाद्य निःशङ्कः प्रविवेश ह ॥ 026c
तत्रापि द्वारपलास्तमुग्रवाचा न्यषेधयन् । 027a
तथैव च शुकस्तत्र निर्मन्युः समतिष्ठत ॥ 027c
न चातपाध्वसन्तप्तः क्षुत्पिपासाश्रमान्वितः । 028a
प्रताम्यति ग्लायति वा नापैति च तथाऽऽतपात् ॥ 028c
तेषां तु द्वारपालानामेकः शोकसमन्वितः । 029a
मध्यङ्गतमिवादित्यं दृष्ट्वा शुकमवस्थितम् ॥ 029c
पूजयित्वा यथान्यायमभिवाद्य कृताञ्जलिः । 030a
प्रावेशयत्ततः कक्ष्यां प्रथमां राजवेश्मनः ॥ 030c
तत्रासीनः शुकस्तात मोक्षमेवान्वचिन्तयत् । 031a
छायायामातपे चैव समदर्शी समद्युतिः ॥ 031c
तं मुहूर्तादिवागम्य राज्ञो मन्त्री कृताञ्जलिः । 032a
प्रावेशयत्ततः कक्ष्यां द्वितीयां राजवेश्मनः ॥ 032c
तत्रान्तःपुरसम्बद्धं महच्चैत्ररथोपमम् । 033a
सुविभक्तजलाक्रीडं रम्यं पुष्पितपादपम् ॥ 033c
तं दर्शयित्वा स शुकं मन्त्री जनकमुत्तमम् । 034a
अर्हमासनमादिश्य निश्चक्राम ततः पुनः ॥ 034c
तं चारुवेषाः सुश्रोण्यस्तरुण्यः प्रियदर्शनाः । 035a
सूक्ष्मरक्ताम्बरधरास्तप्तकाञ्चनभूषणाः ॥ 035c
संलापालापकुशला नृत्तगीतविशारदाः । 036a
स्मितपूर्वाभिभाषिण्यो रूपेणाप्सरसां समाः ॥ 036c
भावोपचारकुशला भावज्ञाः सत्वकोविदाः । 037a
परं पञ्चाशतं नार्यो वारमुख्याः समाद्रवन् ॥ 037c
पाद्यादीनि प्रतिग्राह्य पूजया परयाऽर्चयन् । 038a
कालोपपन्नेन तदा स्वाद्वन्नेनाभ्यतर्पयन् ॥ 038c
तस्य भुक्तवतस्तात तदन्तःपुरकाननम् । 039a
सुरम्यं दर्शयामासुरेकैकश्येन भारत ॥ 039c
क्रीडन्त्यश्च हसन्त्यश्च गायन्त्यश्चापि ताः शुभम् । 040a
उदारसत्वं सत्वज्ञाः स्त्रियः पर्यचरंस्तथा ॥ 040c
आरणेयस्तु शुद्धात्मा निःसन्देहस्त्रिकर्मकृत् । 041a
वश्येन्द्रियो जितक्रोधो न हृष्यति न कुप्यति ॥ 041c
तस्मै शय्यासनं दिव्यं वरार्हं रत्नभूषितम् । 042a
स्पर्ध्यास्तरणसङ्कीर्णं ददुस्ताः परमस्त्रियः ॥ 042c
पादशौचं तु कृत्वैव शुक्रः सन्ध्यामुपास्य च । 043a
निषसादासने पुण्ये तमेवार्थं विचिन्तयन् ॥ 043c
पूर्वरात्रे तु तत्रासौ हुत्वा ध्यानपरायणः । 044a
मध्यरात्रे यथान्यायं निद्रामाहारयत्प्रभुः || 044c
ततो मुहूर्तादुत्थाय कृत्वा शौचमनन्तरम् । 045a
स्त्रीभिः परिवृतो धीमान्ध्यानमेवान्वपद्यत ॥ 045c
अनेन विधिना कार्ष्णिस्तदहःशेषमच्युतः । 046a
तां च रात्रिं नृपकुले वर्तयामास भारत ॥ 046c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रयस्त्रिंशदधिकत्रिशततमोऽध्यायः ॥ 333 ॥
12-333-1 मोक्षं मोक्षशास्त्रम् । अनुचिन्त्य उपादेयत्वेन ज्ञात्वा ॥ 12-333-3 धर्मांश्च त्रिविधानपीति ध. पाठः ॥ 12-333-4 शुको वेदविदांवर इति ट. ड. पाठः ॥ 12-333-5 मोक्षविद्याविशारदमिति ट. पाठः ॥ 12-333-6 मोक्षार्थं मोक्षशास्त्रार्थम् । मोक्षार्थं निखिलेन विशेषत इति ट. ड. थ. पाठः ॥ 12-333-14 मेरोर्वर्षमिलावृतम् । हरेर्वर्षं हरिवर्षाख्यम् । हैमवन्तं वर्षं किम्पुरुषाख्यम् ॥ 12-333-24 तं भारं जिज्ञासाख्यम् । अर्थं मोक्षम् ॥ 12-333-28 नोपैति च तथा रुषमिति ड. ध. पाठः ॥ 12-333-37 कालोपचारकुशला इति ड. पाठः ॥ 12-333-41 आरणेयः अरणिजः शुकः ॥ 12-333-42 देवार्हं रत्नभूषितमिति झ. पाठः ॥ 12-333-44 भूत्वा ध्यानपरायण इति झ. पाठः । अर्धरात्रे यथान्यायमिति ध. पाठः ॥ 12-333-46 कार्ष्णिः शुकः । अच्युतो धैर्यादिति शेषः ॥