अध्यायः 332

भीष्मेण युधिष्ठिरम् प्रति शुकोत्पत्तिप्रकारकथनम् ॥ 1 ॥ भीष्म उवाच 001
स लब्ध्वा परमं देवाद्वरं सत्यवतीसुतः । 001a
अरणीं तु ततो गृह्य ममन्थाग्निचिकीर्षया ॥ 001c
अथ रूपं परं राजन्बिभ्रतीं स्वेन तेजसा । 002a
घृताचीं नामाप्सरसमपश्यद्भगवानृषिः ॥ 002c
ऋषिरप्सरसं दृष्ट्वा सहसा काममोहितः । 003a
अभवद्भगवान्व्यासो वने तस्मिन्युधिष्ठिर ॥ 003c
सा च दृष्ट्वा तदा व्यासं कामसंविग्नमानसम् । 004a
शुकी भूत्वा महाराज घृताची समुपागमत् ॥ 004c
स तामप्सरसं दृष्ट्वा रूपेणान्येन संवृताम् । 005a
शरीरजेनानुगतः सर्वगात्रातिगेन ह ॥ 005c
स तु धैर्येण महता निगृह्णन्हृच्छयं मुनिः । 006a
न शशाक नियन्तुं तद्व्यासः प्रविसृतं मनः । 006c
भावित्वाच्चैव भावस्य घृताच्या वपुषा हृतः ॥ 006e
यत्नान्नियच्छतस्तस्य मुनेरग्निचिकीर्षया । 007a
अरण्यामेव सहसा तस्य शुक्रमवापतत् ॥ 007c
सोऽविशङ्केन मनसा तथैव द्विजसत्तमः । 008a
अरणीं ममन्थ ब्रह्मर्षिस्तस्यां जज्ञे शुको नृप ॥ 008c
शुक्रे निर्मथ्यमाने स शुको जज्ञे महातपाः । 009a
परमर्षिर्महायोगी अरणीगर्भसम्भवः ॥ 009c
यथाऽध्वरे समिद्धोऽग्निर्भाति हव्यमुदावहन् । 010a
तथारूपः शुको जज्ञे प्रज्वलन्निव तेजसा ॥ 010c
बिभ्रत्पितुश्च कौरव्य रूपवर्णमनुत्तमम् । 011a
बभौ तदा भावितात्मा विधूमोऽग्निरिवज्वलन् ॥ 011c
तं गङ्गा सरितां श्रेष्ठा मेरुपृष्ठे जनेश्वर । 012a
स्वरूपिणी तदाऽभ्येत्य स्नापयामास वारिणा ॥ 012c
अन्तरिक्षाच्च कौरव्य दण्डः कृष्णाजिनं च ह । 013a
पपात भुवि राजेन्द्र शुकस्यार्थे महात्मनः ॥ 013c
जेगीयन्ते स्म गन्धर्वा ननृतुश्चाप्सरोगणाः । 014a
देवदुन्दुभयश्चैव प्रावाद्यन्त सहस्रशः ॥ 014c
विश्वावसुश्च गन्धर्वस्तथा तुम्बुरुनारदौ । 015a
हाहा हूहूश्च गन्धर्वौ तुष्टुवुः शुकसम्भवम् ॥ 015c
तत्र शक्रपुरोगाश्च लोकपालाः समागताः । 016a
देवा देवर्षयश्चैव तथा ब्रह्मर्षयोऽपि च ॥ 016c
दिव्यानि सर्वपुष्पाणि प्रववर्ष च मारुतः । 017a
जङ्गमं स्थावरं चैव प्रहृष्टमभवज्जगत् ॥ 017c
तं महात्मा स्वयं प्रीत्या देव्या सह महाद्युतिः । 018a
जतामात्रं मुनेः पुत्रं विधिनोपानयत्तदा ॥ 018c
तस्य देवेश्वरः शक्रो दिव्यमद्भुतदर्शनम् । 019a
ददौ कमण्डलुं प्रीत्या देववासांसि चाभिभो ॥ 019c
हंसाश्च शतपत्राश्च सारसाश्च सहस्रशः । 020a
प्रदक्षिणमवर्तन्त शुकाश्चाषाश्च भारत ॥ 020c
आरणेयस्ततो दिव्यं प्राप्य जन्म महाद्युतिः । 021a
तत्रैवोवास मेधावी ब्रह्मचारी समाहितः ॥ 021c
उत्पन्नमात्रं तं वेदाः सरहस्याः ससङ्ग्रहाः । 022a
उपतस्थुर्महाराज यथाऽस्य पितरं तथा ॥ 022c
बृहस्पतिं च वव्रे स वेदवेदाङ्गभाष्यवित् । 023a
उपाध्यायं महाराज धर्ममेवानुचिन्तयन् ॥ 023c
सोऽधीत्य निखिलान्वेदान्सरहस्यान्ससङ्ग्रहान् । 024a
इतिहासं च कार्त्स्न्येन धर्मशास्त्राणि चाभिभो ॥ 024c
गुरवे दक्षिणां दत्त्वा समावृत्तो महामुनिः । 025a
उग्रं तपः समारेभे ब्रह्मचारी समाहितः ॥ 025c
देवतानामृषीणां च बाल्येऽपि स महातपाः । 026a
सम्मन्त्रणीयो मान्यश्च ज्ञानेन तपसा तथा ॥ 026c
न त्वस्य रमते बुद्धिराश्रमेषु नराधिप । 027a
त्रिषु गार्हस्थ्यमूलेषु मोक्षधर्मानुदर्शिनः ॥ 027c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्वात्रिंशदधिकत्रिशततमोऽध्यायः ॥ 332 ॥

12-332-1 अरणी सहिते गृह्येति झ. पाठः । तत्र अरणी द्वे अधरोत्तरे सहिते मिथुनरूपे इत्यर्थः ॥ 12-332-4 सा च कृत्वा तदा व्यासमिति ड. ध. पाठः ॥ 12-332-9 शुक्रे निर्मथ्यमाने जातत्वात् शुक इति रेफलोपेनास्य नाम कृतम् ॥ 12-332-12 तर्पयामास वारिणेति झ. पाठः ॥ 12-332-14 खे गायन्ति स्म गन्धर्वा इति ट. पाठः ॥ 12-332-18 महात्मा महादेवः उपानयत् स्वशिष्यं कृतवानिति सम्बन्धः ॥