अध्यायः 331
भीष्मेण युधिष्ठिरम् प्रति शुकोत्पत्तिप्रकारकथनारम्भः ॥ 1 ॥ तथा पुत्रार्थं व्यासतपश्चर्याकथनम् ॥ 2 ॥
युधिष्ठिर उवाच 001
कथं व्यासस्य धर्मात्मा शुको जज्ञे महातपाः । 001a
सिद्धिं च परमां प्राप्तस्तन्मे ब्रूहि पितामह ॥ 001c
कस्यां चोत्पादयामास शुकं व्यासस्तपोधनः । 002a
न ह्यस्य जननीं विद्मो जन्म चाग्र्यं महात्मनः ॥ 002c
कथं च बालस्य सतः सूक्ष्मज्ञाने रता मतिः । 003a
यथा नान्यस्य लोकेऽस्मिन्द्वितीयस्येह कस्यचित् ॥ 003c
एतदिच्छाम्यहं श्रोतुं विस्तरेण महामते । 004a
न हि मे तृप्तिरस्तीह शृण्वतोऽमृतमुत्तमम् ॥ 004c
माहात्म्यमात्मयोगं च विज्ञानं च शुकस्य ह । 005a
यथावदानुपूर्व्येण तन्मे ब्रूहि पितामह ॥ 005c
भीष्म उवाच 006
न हायनैर्न पलितैर्न वित्तैर्न च बन्धुभिः । 006a
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥ 006c
तपोमूलमिदं सर्वं यन्मां पृच्छसि पाण्डव । 007a
तदिन्द्रियाणि संयम्य तपो भवति नान्यथा ॥ 007c
इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् । 008a
सन्नियम्य तु तान्येव सिद्धिमाप्नोति मानवः ॥ 008c
अश्वमेधसहस्रस्य वाजपेयशतस्य च । 009a
योगस्य कलया तात न तुल्यं विद्यते फलम् ॥ 009c
अत्र ते वर्तयिष्यामि जन्मयोगफलं तथा । 010a
शुकस्याग्र्यां गतिं चैव दुर्विदामकृतात्मभिः ॥ 010c
मेरुशृङ्गे किल पुरा कर्णिकारवनायुते । 011a
विजहार महादेवो भीमैर्भूतगणैर्वृतः ॥ 011c
शैलराजसुता चैव देवी तत्राभवत्पुरा । 012a
तत्र दिव्यं तपस्तेपे कृष्णद्वैपायनः प्रभुः ॥ 012c
योगेनात्मानमाविश्य योगधर्मपरायणः । 013a
धारयन्स तपस्तेपे पुत्रार्थं कुरुसत्तम ॥ 013c
अग्नेर्भूमेरपां वायोरन्तरिक्षस्य वा विभो । 014a
वीर्येण सम्मितः पुत्रो मम भूयादिति स्म ह ॥ 014c
सङ्कल्पेनाथ मौनेन दुष्प्रापमकृतात्मभिः । 015a
वरयामास देवेशमास्थितस्तप उत्तमम् ॥ 015c
अतिष्ठन्मारुताहारः शतं किल समाः प्रभुः | 016a
आराधयन्महादेवं बहुरूपमुमापतिम् ॥ 016c
तत्र ब्रह्मर्षयश्चैव सर्वे देवर्षयस्तथा । 017a
लोकपालाश्च लोकेशं साध्याश्च वसुभिः सह ॥ 017c
आदित्याश्चैव रुद्राश्च दिवाकरनिशाकरौ । 018a
मारुतो मरुतश्चैव सागराः सरितस्तथा ॥ 018c
अश्विनौ देवगन्धर्वास्तथा नारदपर्वतौ । 019a
विश्वावसुश्च गन्धर्वः सिद्धाश्चाप्सरसां गणाः ॥ 019c
तत्र रुद्रो महादेवः कर्णिकारमयीं शुभाम् । 020a
धारयाणः स्रजं भाति ज्योत्स्नामिव निशाकरः ॥ 020c
तस्मिन्दिव्ये वने रम्ये देवदेवर्षिसङ्कुले । 021a
आस्थितः परमं योगमृषिः पुत्रार्थमच्युतः ॥ 021c
न चास्य हीयते प्राणो न ग्लानिरुपजायते । 022a
त्रयाणामपि लोकानां तदद्भुतमिवाभवत् ॥ 022c
जटाश्च तेजसा तस्य वैश्वानरशिखोपमाः । 023a
प्रज्वलन्त्यः स्म दृश्यन्ते युक्तस्यामिततेजसः ॥ 023c
मार्कण्डेयो हि भगवानेतदाख्यातवान्मम । 024a
स देवचरितानीह कथयामास मे तदा ॥ 024c
एता अद्यापि कृष्णस्य तपसा तेन दीपिताः । 025a
अग्निवर्णा जटास्तात प्रकाशन्ते महात्मनः ॥ 025c
एवंविधेन तपसा तस्य भक्त्या च भारत । 026a
महेश्वरः प्रसन्नात्मा चकार मनसा मतिम् ॥ 026c
'ततस्तस्य महादेवो दर्शयामास साम्बिकः ।' 027a
उवाच चैवं भगवांस्त्र्यम्बकः प्रहसन्निव । 027c
एवंविधस्ते तनयो द्वैपायन भविष्यति ॥ 027e
यथा ह्यग्निर्यथा वायुर्यथा भूमिर्यथा जलम् । 028a
यथाऽऽकाशस्तथा शुद्धो भविता ते सुतो महान् ॥ 028c
तद्भावभावी तद्बुद्धिस्तदाऽऽत्मा तदपाश्रयः । 029a
तेजसाऽऽवृत्य लोकांस्त्रीन्यशः प्राप्स्यति ते सुतः ॥ 029c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकत्रिंशदधिकत्रिशततमोऽध्यायः ॥ 331 ॥
12-331-2 कथं चोत्पादयामासेति ध. पाठः ॥ 12-331-3 सूक्ष्मज्ञाने स्थिता मतिरिति ध. पाठः ॥ 12-331-12 देवी भर्त्राभवत्पुरेति ध. पाठः ॥ 12-331-15 सङ्कल्पेनाथ योगेनेति झ. पाठः ॥ 12-331-18 वसवो मरुतश्चैवेति झ. पाठः ॥ 12-331-22 हीयते वर्णम् इति ध. पाठः ॥ 12-331-25 कृष्णस्य व्यासस्य ॥ 12-331-29 यशः प्राप्स्यति केवलमिति ट. ड. ध. पाठः ॥