अध्यायः 330

भीष्मेण युधिष्ठिरम् प्रति सर्वथा धर्मस्य कर्तव्यताकथनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
यद्यस्ति दत्तमिष्टं वा तपस्तप्तं तथैव च । 001a
गुरूणां वाऽपि शुश्रूषा तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच 002
आत्मनाऽनर्थयुक्तेन पापे निविशते मनः । 002a
स कर्म कलुषं कृत्वा क्लेशे महति धीयते ॥ 002c
दुर्भिक्षादेव दुर्भिक्षं क्लेशात्क्लेशं भयाद्भयम् । 003a
मृतेभ्यः प्रमृता यान्ति दरिद्राः पापकर्मिणः ॥ 003c
उत्सवादुत्सवं यान्ति स्वर्गात्स्वर्गं सुखात्सुखम् । 004a
श्रद्दधानाश्च दान्ताश्च धनस्थाः शुभकारिणः ॥ 004c
व्यालकुञ्जरदुर्गेषु सर्पचोरभयेषु च । 005a
हस्तावापेन गच्छन्ति नास्तिकाः किमतःपरम् ॥ 005c
प्रियदेवातिथेयाश्च वदान्याः प्रियसाधवः । 006a
क्षेम्यमात्मवता मार्गमास्थिता हस्तदक्षिणाः ॥ 006c
पुलाका इव धान्येषु पूत्यण्डा इव पक्षिषु । 007a
तद्विधास्ते मनुष्येषु येषां धर्मो न कारणम् ॥ 007c
सुशीघ्रमपि धावन्तं विधानमनुधावति । 008a
शेते सह शयानेन येनयेन यथाकृतम् ॥ 008c
पापं तिष्ठति तिष्ठन्तं धावन्तमनुधावति । 009a
करोति कुर्वतः कर्म च्छायेवानुविधीयते ॥ 009c
येनयेन यथा यद्यत्पुरा कर्म सुनिश्चितम् । 010a
तत्तदेव नरो भुङ्क्ते नित्यं विहितमात्मना ॥ 010c
समानकर्मनिक्षेपं विधानपरिरक्षणम् । 011a
भूतग्राममिमं कालः समन्तादपकर्षति ॥ 011c
अचोद्यमानानि यथा पुष्पाणि च फलानि च । 012a
स्वं कालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥ 012c
समानश्चावमानश्च लाभालाभौ जयाजयौ । 013a
प्रवृत्ता न निवर्तन्ते निधनान्ताः पदेपदे ॥ 013c
आत्मना विहितं दुःखमात्मना विहितं सुखम् । 014a
गर्भशय्यामुपादाय भजते पूर्वदेहिकम् ॥ 014c
बालो युवा वा वृद्धश्च यत्करोति शुभाशुभम् । 015a
तस्यां तस्यामवस्थायां भुङ्क्ते जन्मनिजन्मनि ॥ 015c
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । 016a
तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥ 016c
मलिनं हि यथा वस्त्रं पश्चाच्छुध्यति वारिणा । 017a
उपवासैः प्रतप्तानां दीर्घं सुखमनन्तकम् ॥ 017c
दीर्घकालेन तपसा सेवितेन तपोवने । 018a
धर्मनिर्धूतपापानां संसिध्यन्ते मनोरथाः ॥ 018c
शकुनानामिवाकाशे मत्स्यानामिव चोदके । 019a
पदं यथा न दृश्येत तथा पुण्यकृतां गतिः ॥ 019c
अलमन्यैरुपालब्धैः कीर्तितैश्च व्यतिक्रमैः । 020a
पेशलं चानुरूपं च कर्तव्यं हितमात्मनः ॥ 020c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रिंशदधिकत्रिशततमोऽध्यायः ॥ 330 ॥

12-330-6 आस्थिता हृतदक्षिणा इति ध. पाठः ॥ 12-330-10 तत्तदेवोत्तरं भुङ्क्ते इति झ. पाठः ॥ 12-330-13 लाभोऽलाभः क्षयाक्षयाविति झ. पाठः ॥ 12-330-14 भुज्यते पूर्वदैहिकमिति ध. पाठः ॥