अध्यायः 329
भीष्मेण युधिष्ठिरम् प्रति व्यासकृतशुकानुशासनानुवादः ॥ 1 ॥
युधिष्ठिर उवाच 001
कथं निर्वेदमापन्नः शुको वैयासकिः पुरा । 001a
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ॥ 001c
भीष्म उवाच 002
प्राकृतेनैव वृत्तेन चरन्तमकुतोभयम् । 002a
अध्याप्य कृत्स्नं स्वाध्यायमन्वशाद्वै पिता सुतम् ॥ 002c
व्यास उवाच 003
धर्मं पुत्र निषेवस्व सुतीक्ष्णौ च हिमातपौ । 003a
क्षुत्पिपासे च वायुं च जय नित्यं जितेन्द्रियः ॥ 003c
सत्यमार्जवमक्रोधमनसूयां दमं तपः । 004a
अहिंसां चानृशंस्यं च विधिवत्परिपालय ॥ 004c
सत्ये तिष्ठ रतो धर्मे हित्वा सर्वमनार्जवम् । 005a
देवतातिथिशेषेण यात्रां प्राणस्य संलिह ॥ 005c
फेनमात्रोपमे देहे जीवे शकुनिवत्स्थिते । 006a
अनित्ये प्रियसंवासे कथं स्वपिषि पुत्रक ॥ 006c
अप्रमत्तेषु जाग्रत्सु नित्ययुक्तेषु शत्रुषु । 007a
अन्तरं लिप्यमानेषु बालस्त्वं नावबुध्यसे ॥ 007c
अहःसु गण्यमानेषु क्षीयमाणे तथाऽऽयुषि । 008a
जीविते लिख्यमाने च किमुत्थाय न धावसि ॥ 008c
ऐहलौकिकनीहन्ते मांसशोणितवर्धनम् । 009a
पारलौकिककार्येषु प्रसुप्ता भृशनास्तिकाः ॥ 009c
धर्माय येऽभ्यसूयन्ति बुद्धिमोहान्विता नराः । 010a
अपथा गच्छतां तेषामनुयाताऽपि पीड्यते ॥ 010c
ये तु तुष्टाः श्रुतिपरा महात्मानो महाबलाः । 011a
धर्म्यं पन्थानमारूढास्तानुपास्स्व च पृच्छ च ॥ 011c
उपधार्य मतं तेषां बुधानां धर्मदर्शिनाम् । 012a
नियच्छ परया बुद्ध्या चित्तमुत्पथगामि वै ॥ 012c
आद्यकालिकया बुद्ध्या दूरेश्व इति निर्भयाः । 013a
सर्वभक्ष्या न पश्यन्ति कर्मभूमिमचेतसः ॥ 013c
धर्मं निःश्रेणिमास्थाय किञ्चित्किञ्चित्समारुह । 014a
कोशकारवदात्मानं वेष्टयन्नावबुध्यसे ॥ 014c
नास्तिकं भिन्नमर्यादं कूलपातमिव स्थितम् । 015a
वामतः कुरु विस्रब्धो नरं वेणुमिवोद्धृतम् ॥ 015c
कामक्रोधग्राहवतीं पञ्चेन्द्रियजलां नदीम् । 016a
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि सन्तर ॥ 016c
मृत्युनाऽभ्याहते लोके जरया परिपीडिते । 017a
अमोघासु पतन्तीषु धर्मयानेन सन्तर ॥ 017c
तिष्ठन्तं च शयानं च मृत्युरन्वेषते यदा । 018a
निर्वृतिं लभते कस्मादकस्मान्मृत्युनाऽशितः ॥ 018c
सञ्चिन्वानकमेवैनं कामानामवितृप्तकम् । 019a
वृकीवोरणमासाद्य मृत्युरादाय गच्छति ॥ 019c
क्रमशः सञ्चितशिखो धर्मबुद्धिमयो महान् । 020a
अन्धकारे प्रवेष्टव्ये दीपो यत्नेन धार्यताम् ॥ 020c
सम्पतन्देहजालानि कदाचिदिह मानुषे । 021a
ब्राह्मण्यं लभते जन्तुस्तत्पुत्र परिपालय ॥ 021c
ब्राह्मणस्य तु देहोऽयं न कामार्थाय जायते । 022a
इह क्लेशाय तपसे प्रेत्य त्वनुपमं सुखम् ॥ 022c
ब्राह्मण्यं बहुभिरवाप्यते तपोभिस्तल्लब्ध्वा न रतिपरेण हेलितव्यम् । 023a
स्वाध्याये तपसि दमे च नित्ययुक्तः मोक्षार्थी कुशलपरः सदा यतस्व ॥ 023c
अव्यक्तप्रकृतिरयं कलाशरीरः सूक्ष्मात्मा क्षणत्रुटिका निमेषरोमा । 024a
यानेतत्समबलशुक्लकृष्णनेत्रो मासाङ्गो द्रवति वयोहयो नराणाम् ॥ 024c
तं दृष्ट्वा प्रसृतमजस्रमुग्रवेगं गच्छन्तं सततमिहान्ववेक्षमाणम् । 025a
चक्षुस्ते यदि न परप्रणेतृनेयं धर्मे ते रमतु मनः परं निशाम्य ॥ 025c
येऽमी तु प्रचलितधर्मकामवृत्ताः क्रोशन्तः सततमनिष्टसम्प्रयोगात् । 026a
क्लिश्यन्तः परिगतवेदनाशरीरा बह्वीभिः सुभृशमधर्मवागुराभिः ॥ 026c
राजा सदा धर्मपरः शुभाशुभस्य गोप्ता समीक्ष्य सुकृतिनां दधाति लोकान् । 027a
बहुविधमपि चरति प्रविशति सुखमनुपगतं निरवद्यम् ॥ 027c
श्वानो भीषणकाया अयोमुखानि वयांसि बलगृध्रकुररपक्षिणां च सङ्घातम् । 028a
नरकदने रुधिरपा गुरुवचननुदमुपरतं विशन्त्यसन्तः ॥ 028c
मर्यादा नियताः स्वयम्भुवा य इहेमाः प्रभिनत्ति दश गुणा मनोऽनुगत्वात् । 029a
निवसति भृशमसुखं पितृविषयविपिनमवगाह्य स पापः ॥ 029c
यो लुब्धः सुभृशं प्रियानृतश्च मनुष्यः सततनिकृतिवञ्चनाभिरतिः स्यात् । 030a
उपनिधिभिरसुखकृत्स परमनिरयगो भृशमसुखमनुभवति दुष्कृतकर्मा ॥ 030c
उष्णां वैतरणीं महानदीमवगाढोऽसिपत्रवनभिन्नगात्रः । 031a
परशुवनशयोनिपतितो वसति च महानिरये भृशार्तः ॥ 031c
महापादनि कत्थसे न चाप्यवेक्षसे परम् । 032a
चिरस्य मृत्युकारिकामनागतां न बुध्यसे ॥ 032c
प्रयस्यतां किमास्यते समुत्थितं महद्भयम् । 033a
अतिप्रमाथि दारुणं सुखस्य संविधीयताम् ॥ 033c
पुरा मृतः प्रणीयसे यमस्य राजशासनात् । 034a
त्वमन्तकाय दारुणैः प्रयत्नमार्जवे कुरु ॥ 034c
पुरा समूलबान्धवं प्रभुर्हरत्यदुःखवित् । 035a
कियत्तवेह जीवितं यमे न चास्ति वारकः ॥ 035c
पुरा विवाति मारुतो यमस्य यः पुरःसरः । 036a
पुरैक एव नीयसे कुरुष्व साम्परायिकम् ॥ 036c
पुरा स एक एव ते प्रवाति मारुतोऽन्तकः । 037a
पुरा च विभ्रमन्ति ते दिशो महाभयागमे ॥ 037c
श्रुतिश्च सन्निरुध्यते पुरा तवेह पुत्रक । 038a
समाकुलस्य गच्छतः समाधिमुत्तमं कुरु ॥ 038c
शुभाशुभे पुरा कृते प्रमादकर्मविप्लुते । 039a
स्मरन्पुराऽनुतप्यसे निधत्स्व केवलं निधिम् ॥ 039c
पुरा जरा कलेवरं विजर्झरीकरोति ते । 040a
बलाङ्गरूपहारिणी निधत्स्व केवलं निधिम् ॥ 040c
पुरा शरीरमन्तको भिनत्ति रोगसायकैः । 041a
प्रसह्य जीवितक्षये तपो महत्समारभ ॥ 041c
पुरा वृका भयङ्करा मनुष्यदेहगोचराः । 042a
अभिद्रवन्ति सर्वतो यतस्व पुण्यशीलने ॥ 042c
पुरान्धकारमेककोऽनुपश्यसि त्वरस्व वै । 043a
पुरा हिरण्मयान्नगान्निरीक्षसेऽद्रिमूर्धनि ॥ 043c
पुरा कुसङ्गतानि ते सुहृन्मुखाश्च शत्रवः । 044a
विचालयन्ति दर्शनाद्घटस्व पुत्र यत्परम् ॥ 044c
धनस्य यस्य राजतो भयं न चास्ति चोरतः । 045a
मृतं च यन्न मुञ्चति समार्जयस्व तद्धनम् ॥ 045c
न तत्र संविभज्यते स्वकर्मभिः परस्परम् । 046a
यदेव यस्य यौतकं तदेव तत्र सोऽश्नृते ॥ 046c
परत्र येन जीव्यते तदेव पुत्र जीयताम् । 047a
धनं यदक्षरं ध्रुवं समार्जयस्व तत्स्वयम् ॥ 047c
न यावदेव पच्यते महाजनस्य यावकम् । 048a
अपक्व एव यावके पुरा प्रलीयसे त्वरम् ॥ 048c
न मातृपुत्रबान्धवा न संस्तुतः प्रियो जनः । 049a
अनुव्रजन्ति सङ्कटे व्रजन्तमेकपातिनम् ॥ 049c
यदेव कर्म केवलं पुराकृतं शुभाशुभम् । 050a
तदेव पुत्र यौतकं भवत्यमुत्र गच्छतः ॥ 050c
हिरण्यरत्नसञ्चयाः शुभाशुभेन सञ्चिताः । 051a
न तस्य देहसङ्क्षये भवन्ति कार्यसाधकाः ॥ 051c
न पुत्र शान्तिरस्ति ते कृताकृतस्य कर्मणः । 052a
न साक्षिकोऽऽत्मना समो नृणामिहास्ति कश्चन ॥ 052c
मनुष्यदेहशून्यकं भवत्यमुत्र गच्छतः । 053a
प्रविश्य बुद्धिचक्षुषा प्रदृश्यते हि सर्वशः ॥ 053c
इहाग्निसूर्यवायवः शरीरमाश्रितास्त्रयः । 054a
त एव तस्य साक्षिणो भवन्ति धर्मदर्शिनः ॥ 054c
अहर्निशेषु सर्वतः स्पृशत्सु सर्वचारिषु । 055a
प्रकाशगूढवृत्तिषु स्वधर्ममेव पालय ॥ 055c
अनेकपारिपान्थके विरूपरौद्रमक्षिके । 056a
स्वमेव कर्म रक्ष्यतां स्वकर्म तत्र गच्छति ॥ 056c
न तत्र संविभज्यते स्वकर्मभिः परस्परम् । 057a
तथा कृतं स्वकर्मजं तदेव भुज्यते फलम् ॥ 057c
यथाऽप्सरोगणाः फलं सुखं महर्षिभिः सह । 058a
तथाऽऽप्नुवन्ति कर्मजं विमानकामगामिनः ॥ 058c
यथेह यत्कृतं शुभं विपाप्मभिः कृतात्मभिः । 059a
तदाप्नुवन्ति मानवास्तथा विशुद्धयोनयः ॥ 059c
प्रजापतेः सलोकतां बृहस्पतेः शतक्रतोः । 060a
व्रजन्ति ते परां गतिं गृहस्थधर्मसेतुभिः ॥ 060c
सहस्रशोऽप्यनेकशः प्रवक्तुमुत्सहामहे । 061a
अबुद्धिमोहनं पुनः प्रभुस्तु तेन पावकः ॥ 061c
गता त्रिरष्टवर्षता ध्रुवोऽसि पञ्चविंशकः । 062a
कुरुष्व धर्मसञ्चयं वयो हि तेऽतिवर्तते ॥ 062c
पुरा करोति सोऽन्तकः प्रमादगोमुखां चमूम् । 063a
यथागृहीतमुत्थितस्त्वरस्व धर्मपालने ॥ 063c
यथा त्वमेव पृष्ठतस्त्वमग्रतो गमिष्यसि । 064a
तथा गतिं गमिष्यतः किमात्मना परेण वा ॥ 064c
यदेकपातिनां सतां भवत्यमुत्र गच्छताम् । 065a
भयेषु साम्परायिकं निधत्स्व केवलं निधिम् ॥ 065c
सतूलमूलबान्धवं प्रभुर्हरत्यसङ्गवान् । 066a
न सन्ति यस्य वारकाः कुरुष्व धर्मसन्निधिम् ॥ 066c
इदं निदर्शनं मया तवेह पुत्र सम्मतम् । 067a
स्वदर्शनानुमानतः प्रवर्णितं कुरुष्व तत् ॥ 067c
ददाति यः स्वकर्मणा धनानि यस्यकस्यचित् । 068a
अबुद्धिमोहजैर्गुणैः स एक एव युज्यते ॥ 068c
शुभं समस्तमश्नुते प्रकुर्वतः शुभाः क्रियाः । 069a
तदेतदर्थदर्शनं कृतज्ञमर्थसंहितम् ॥ 069c
निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः । 070a
छित्त्वैतां सुकृतो यान्ति नैनां छिदन्ति दुष्कृतः ॥ 070c
किं ते धनेन किं बन्धुभिस्ते किं ते पुत्रैः पुत्रक यो मरिष्यसि । 071a
आत्मानमन्विच्छ गुहां प्रविष्टं पितामहास्ते क्व गताश्च सर्वे ॥ 071c
श्वः कार्यमद्ये कुर्वीत पूर्वाह्णे चापराह्णिकम् । 072a
न हि प्रतीक्षते मृत्युः कृतं वाऽस्य न वाऽकृतम् ॥ 072c
अनुगम्य विनाशान्ते निवर्तन्ते ह बान्धवाः । 073a
अग्नौ प्रक्षिप्य पुरुषं ज्ञातयः सुहृदस्तथा ॥ 073c
नास्तिकान्निरनुक्रोशान्नरान्पापमते स्थितान् । 074a
वामतः कुरु विस्रब्धं परं प्रेप्सुरतन्द्रितः ॥ 074c
एवमभ्याहते लोके कालेनोपनिपीडिते । 075a
सुमहद्धैर्यमालम्ब्य धर्मं सर्वात्मना कुरु ॥ 075c
अथेमं दर्शनोपायं सम्यग्यो वेत्ति मानवः । 076a
सम्यक् स्वधर्मं कृत्वेह परत्र सुखमश्नुते ॥ 076c
न देहभेदे मरणं विजानतां न च प्रणाशः स्वनुपालिते पथि । 077a
धर्मं हि यो बर्धयते स पण्डितो य एव धर्माच्च्यवते स दह्यते ॥ 077c
प्रयुक्तयोः कर्मपथि स्वकर्मणोः फलं प्रयोक्ता लभते यथाविधि । 078a
निहीनकर्मा निरयं प्रपद्यते त्रिविष्टपं गच्छति धर्मपारगः ॥ 078c
सोपानभूतं स्वर्गस्य मानुष्यं प्राप्य दुर्लभम् । 079a
तथाऽऽत्मानं समादध्याद्भ्रश्यते न पुनर्यथा ॥ 079c
यस्य नोत्क्रामति मतिः स्वर्गमार्गानुसारिणी । 080a
तमाहुः पुण्यकर्माणमशोच्यं मित्रबान्धवैः ॥ 080c
यस्य नोपहता बुद्धिर्निश्चये ह्यवलम्बते । 081a
स्वर्गे कृतावकाशस्य नास्ति तस्य महद्भयम् ॥ 081c
तपोवनेषु ये जातास्तत्रैव निधनं गताः । 082a
तेषामल्पतरो धर्मः कामभोगानजानताम् ॥ 082c
यस्तु भोगान्परित्यज्य शरीरेण तपश्चरेत् । 083a
न तेन किञ्चिन्न प्राप्तं तन्मे बहुमतं फलम् ॥ 083c
मातापितृसहस्राणि पुत्रदारशतानि च । 084a
अनागतान्यतीतानि कस्य ते कस्य वा वयम् ॥ 084c
अहमेको न मे कश्चिन्नाहमन्यस्य कस्यचित् । 085a
न तं पश्यामि यस्याहं तन्न पश्यामि यो मम ॥ 085c
न तेषां भवता कार्यं न कार्यं तव तैरपि । 086a
स्वकृतैस्तानि जातानि भवांश्चैव गमिष्यति ॥ 086c
इह लोके हि धनिनां परोऽपि स्वजनायते । 087a
स्वजनस्तु दरिद्राणां जीवतामपि नश्यति ॥ 087c
सञ्चिनोत्यशुभं कर्म कलत्रापेक्षया नरः । 088a
ततः क्लेशमवाप्नोति परत्रेह तथैव च ॥ 088c
पश्यति च्छिन्नभूतं हि जीवलोकं स्वकर्मणा । 089a
तत्कुरुष्व तथा पुत्र कृत्स्नं यत्समुदाहृतम् ॥ 089c
तदेतत्सम्प्रदृश्यैव कर्म भूमिं प्रपश्यतः । 090a
शुभान्याचरितव्यानि परलोकमभीप्सता ॥ 090c
मासर्तुसञ्ज्ञापरिवर्तकेन सूर्याग्निना रात्रिदिवेन्धनेन । 091a
स्वकर्मनिष्ठाफलसाक्षिकेण भूतानि कालः पचति प्रसह्य ॥ 091c
धनेन किं यन्न ददाति नाश्नुते बलेन किं येन रिपुं न बाधते । 092a
श्रुतेन किं येन न धर्ममाचरेत्किमात्मना यो न जितेन्द्रियो वशी ॥ 092c
भीष्म उवाच 093
इदं द्वैपायनवचो हितमुक्तं निशम्य तु । 093a
शुको गतः परित्यज्य पितरं मोक्षदैशिकम् ॥ 093c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनत्रिंशदधिकत्रिशततमोऽध्यायः ॥ 329 ॥
12-329-2 स्वाध्यायमन्वशिक्षयत स्वयमिति ट. थ. ध. पाठः ॥ 12-329-5 हित्वा सङ्गमनार्जवमिति प्राणस्य लेलिहेति च. ध. पाठः । संलिह स्पृश । स्वाद्वस्वादुविवेकं मा कार्षीरित्यर्थः ॥ 12-329-6 आमपात्रोपमे इति ध. पाठः । स्वपिषि पुरुषार्थसाधने न प्रवर्तसे ॥ 12-329-7 शत्रुषु कामादिषु । अन्तरं छिद्रम् ॥ 12-329-8 न धावसि देवं गुरुं वा शरणं न यासि । जीविते लिह्यमाने चेति ध. पाठः । जीविते लुल्यमाने चेति ट. पाठः ॥ 12-329-10 अपथा अपथेन । बुद्धिमोहपरायणा इति ट. थ. पाठः ॥ 12-329-13 आद्यकालिकया वर्तमानमात्रदर्शिन्या ॥ 12-329-15 कूलपातं महानदीपूरम् । रणरेणुमिवोत्थितमिति घ. पाठः । रथरेणुमिवेति ध. पाठः । रथरेणुं यथा वामतः कुर्वन्ति वामभागे कुर्वन्ति वर्जयन्तीत्यर्थ इति रत्नगर्भः । खररेणुमिति ट. थ. पाठः ॥ 12-329-17 अमोघासु आयुर्हरणेन सफलासु रात्रिषु । धर्मपोतेन सञ्चरेति ध. पाठः । जरया परिवारित इति ट. थ. पाठः ॥ 12-329-18 मृत्युरन्वेति ते यदेति ट. थ. ध. पाठः । निवृत्तिं लम्भसे यस्मात्तस्मात्त्वं मृत्युनाशित इति ध. पाठः ॥ 12-329-19 सञ्चिन्वानकं धनादिसञ्चयपरम् ॥ 12-329-20 अन्धकारे संसारे । दीपो ज्ञानम् ॥ 12-329-22 इह क्लेशाय महते प्रेत्यानन्तसुखाय चेति ध. पाठः ॥ 12-329-24 शुक्लकृष्णौ पक्षौ ॥ 12-329-25 चक्षुर्ज्ञानं परप्रणेतृनेयम् । अन्धवत् यदि न भवसीत्यर्थः । परं परलोकम् आत्मानं वा ॥ 12-329-26 परिगतं प्राप्तं वेदनाशरीरं यमलोके यातनाशरीरं यैस्ते तथाभूता भवन्तीति शेषः ॥ 12-329-28 श्वान इति नराणां कदनं यत्र तस्मिन्नरके । रुधिरपाः कीटाः । गुरूणां मातृपितृप्रभृतीनां वचनं नुदति दूरीकरोति तम् उपतरं मृतम् । श्वानो भीषिकयेति ध. पाठः ॥ 12-329-29 पितृविषये यमलोके विपिनमसिपत्रवनं तदेवावगाह्य तत्रैव निवसति ॥ 12-329-30 निकृतिर्नीचकर्म वञ्चनाचौर्यादि । उपनिधिभिश्छलेन । अपकीर्तिभिरशुभकृतः कृत्स्नं परमनिरययातनाभृशमसुखमनुभवति दुष्कृतकर्मेति ट. पाठः ॥ 12-329-32 महापदानि ब्रह्मादीनां स्थानानि दृष्ट्वा कत्थसे धन्योऽहमिति श्लाघसे परन्तु ब्रह्म नावेक्षसे । मृत्युकारिकां जराम् ॥ 12-329-33 प्रयास्यतां मोक्षमार्गेण प्रस्थातव्यम् । सुखस्य प्रमाथि संविधीयतां प्रयत्यताम् ॥ 12-329-34 अन्तकाय अयतिसुखाय । दारुणैः कृच्छ्रादितपोभिः ॥ 12-329-42 वृकाः कामादयः ॥ 12-329-43 हिरण्मयवृक्षदर्शनं मरणचिह्नम् ॥ 12-329-44 ते त्वाम् ॥ 12-329-45 तद्धनं विद्याम् ॥ 12-329-46 यौतकं विवाहाप्तं धनं दायादाग्राह्यम् ॥ 12-329-48 यावके घृतखण्डमिश्रे यवपिवष्टविकारे त्वरं त्वरायुक्तं यथा स्यात्तथा प्रलीयसे म्रियसे । भोगान्भुक्त्वा मोक्षे यत्नं करिष्यामीति न मन्तव्यमिति भावः ॥ 12-329-55 यथेन्द्रियेषु सर्वतः श्रुतेष्विति ध. पाठः ॥ 12-329-58 तथाऽऽप्नुवन्ति कर्मतो विबुद्धिमोहनं पुनरिति ट. ध. पाठः ॥ 12-329-66 कुरुष्व धर्मसञ्चयमिति ध. पाठः ॥ 12-329-72 नहि तद्वेद कस्याद्यमृत्युसेनाभिवीक्षते इति ध. पाठः । को हि तद्वेद यस्याद्यमृत्युसेनाभिवीक्षत इति ट. थ. पाठः ॥ 12-329-79 सृज्यते न पुनर्यथेति ध. पाठः । म्रियते न पुनर्यथेति ट. पाठः ॥ 12-329-83 तदेव बहुलं मतमिति ट. ध. पाठः ॥ 12-329-93 हितयुक्तमिति ध. पाठः । मोक्षदैशिकं मोक्षोपदेष्टारम् ॥