अध्यायः 327
आसुरिम् प्रति कपिलेन व्यक्ताव्यक्ततत्वनिरूपणम् ॥ 1 ॥
'कपिल उवाच 001
यद्भवानाह किं व्यक्तिं किमव्यक्तमिति अत्र ब्रूमः ॥ 001AB
अव्यक्तमग्राह्यमतर्क्यमपरिमेयमव्यक्तं व्यक्तमुपलक्ष्यते यथर्तवो मूर्तयस्तेषु पुष्पफलैर्व्यक्तिरुपलक्ष्यते तद्वद्व्यक्तगुणैरुपलक्ष्यते ॥ 002AB
प्राग्गतं प्रत्यग्गतमूर्ध्वमधस्तिर्यक्च शतश्चानुग्राह्यत्वात्साऽकृतिः ॥ 003AB
व्यक्त उत्तमो रजः सत्वं तत्प्रधानं तत्वमक्षमजरमित्येवमादीन्यव्यक्तनामानि भवन्ति । 004A
एवमाह ॥ 004B
अव्यक्तं बीजधर्माणं महाग्राहमचेतनम् । 005a
तस्मादेकगुणो जज्ञे तद्व्यक्तं तत्वमीश्वरः ॥ 005c
तदेतदव्यक्तम् । प्रस्नवा धारणादानस्वभावमापोधारणे प्रजनने दाने गुणानां प्रकृतिः सपराप्रमत्तं तदेतदस्मिन्कार्यकरणे ॥ 006AB
यदप्युक्तं किमव्यक्तमिति तत्र ब्रूमः । व्यक्तं नामाऽऽसुरे यत्पूर्वमव्यक्तादुत्पन्नतत्वमीश्वरमप्रतिबुद्धगुणस्थमेतत्पुरुषसञ्ज्ञिकं महदित्युक्तं बुद्धिरिति च । सत्ता स्मृतिर्धृतिर्मेधा व्यवसायः समाधिप्राप्तिरित्येवमादीनि व्यक्तपर्याये नामानि वदन्त्येवमाह ॥ 007AB
मम व्यक्तादुपात्तासिद्धिरागता संयमश्च महद्यतः । 008a
परसर्गश्च दीप्त्यर्थमौत्सुक्यं च परं तथा ॥ 008c
यदेषोर्ध्वस्रोताभिर्महत्वादप्रतिबुद्धत्वाच्चात्मनः प्रकरोत्यहङ्कारमव्यक्ताव्यक्ततरम् ॥ 009AB
यदप्युक्तं किमव्यक्ततरमिति अत्र ब्रूमः ॥ 010AB
व्यक्ताव्यक्ततरं नाम तृतीयं पुरुषसञ्ज्ञकम् । 011a
तदेतदुभयोर्विरिञ्चवैरिञ्चयोरेकैक उत्पत्तिः ॥ 011c
विरिञ्चोऽभिमानिन्यविवेक ईर्ष्या कामः क्रोधो लोभो मदो दर्पो ममकारश्चैतान्यहङ्कारपर्यायनामानि भवन्त्येवमाह ॥ 012AB
अहं कर्तेत्यहङ्कर्ता ससृजे विश्वमीश्वरः । 013a
तृतीयमेनं पुरुषमभिमानगुणं विदुः ॥ 013c
अहङ्काराद्युगपदुन्मादयामास पञ्च महाभूतानि शब्दस्पर्शरूपरसगन्धलक्षणानि । तान्येव बुद्ध्यन्त इत्येवमाह ॥ 014AB
भूतसङ्घमहङ्काराद्यो विद्वानवबुध्यसे । 015a
अभिमानमतिक्रम्य महान्तं प्रतितिष्ठते ॥ 015c
भूतेषु चाप्यहङ्कारमश्वरूपस्तथोच्यते । 016a
पुनर्विषयहेत्वर्थे स मनस्सञ्ज्ञकः स्मृतः ॥ 016c
विखराद्वैखरं युगपदिन्द्रियैः सहोत्पादयति । श्रोत्रं घ्राणं चक्षुर्जिह्वा त्वगित्येतानि शब्दस्पर्शरूपरसगन्धानवबुध्यन्त इति पञ्च बुद्धीन्द्रियाणि वदन्त्येवमाहुराचार्याः ॥ 017AB
वाग्घस्तौ पादपायुरानन्दश्चेति पञ्चेन्द्रियाणि विशेषमादित्योश्वीनि नक्षत्राणीत्येतानीन्द्रियाणां पर्यायनामानि वदन्त्येवमाह ॥ 018AB
अहङ्कारात्तथा भूतान्युत्पाद्य महदात्मनोः । 019a
वैखरत्वं ततो राज्ञा वैखर्यो विषयात्मकः ॥ 019c
विकारस्थमहङ्कारमवबुध्याथ मानवः । 020a
महदैश्वर्यमाप्नोति यावदाचन्द्रतारकम् ॥' 020c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तविंशत्यधिकत्रिशततमोऽध्यायः ॥ 327 ॥