अध्यायः 326
आसुरिणा कपिलम् प्रति अव्यक्तादितत्वविषयकप्रश्नः ॥ 1 ॥
'*युधिष्ठिर उवाच 001
अव्यक्तव्यक्ततत्वानां निश्चयं भरतर्षभ । 001a
वक्तुमर्हसि कौरव्य देवस्याजस्य या कृतिः ॥ 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीमं संवादं गुरुशिष्ययोः । 002a
कपिलस्यासुरेश्चैव सर्वदुःखविमोक्षणम् ॥ 002c
अासुरिरुवाच 003
अव्यक्तव्यक्ततत्वानां निश्चयं बुद्धिनिश्चयम् । 003a
भगवन्नमितप्रज्ञ वक्तुमर्हसि मेऽर्थितः ॥ 003c
किं व्यक्तं किमव्यक्तं किं व्यक्ताव्यक्तं किमिति तत्वानि । 004a
किमाद्यं मध्यमं च तत्वानां किमध्यात्माधिभूतदैवतं च ॥ 004c
किन्नु सर्गाप्ययं कति सर्गाः किं भूतं किं भविष्यं किं भव्यं च किं ज्ञानम् । 005a
को ज्ञाता किं बुद्धं किमप्रबुद्धं किं बुध्यमानं कति पर्वाणि ॥ 005c
कति स्रोतांसि कति कर्मयोनयः किमेकत्वं नानात्वम् । 006a
किं सहवासं निवासं किं विद्याविद्यमिति ॥' 006c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षड्विंशत्यधिकत्रिशततमोऽध्यायः ॥ 326 ॥
- एतदादयस्त्रयोऽध्यायाः ध. पुस्तके एव वर्तन्ते ।