अध्यायः 325

भीष्मेण युधिष्ठिरम् प्रति सुलभाजनकसंवादः ॥ 1 ॥ युधिष्ठिर उवाच 001
अपरित्यज्य गार्हस्थ्यं कुरुराजर्षिसत्तम । 001a
कः प्राप्तो भूपतिः सिद्धिं मोक्षतत्त्वं वदस्व मे ॥ 001c
सन्न्यस्यते यथाऽत्माऽयं व्यक्तस्यात्मा यथा च यत् । 002a
परं मोक्षस्य यच्चापि तन्मे ब्रूहि पितामह ॥ 002c
भीष्म उवाच 003
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 003a
जनकस्य च संवादं सुलभायाश्च भारत ॥ 003c
सन्न्यासफलिकः कश्चिद्बभूव नृपतिः पुरा । 004a
मैथिलो जनको नाम धर्मध्वज इति श्रुतः ॥ 004c
स वेदे मोक्षशास्त्रे च स्वे च शास्त्रे कृतश्रमः । 005a
इन्द्रियाणि समाधाय शशास वसुधामिमाम् ॥ 005c
तस्य वेदविदः प्राज्ञाः श्रुत्वा तां साधुवृत्तताम् । 006a
लोकेषु स्पृहयन्त्यन्ये पुरुषाः पुरुषेश्वरम् ॥ 006c
अथ धर्मयुगे तस्मिन्योगधर्ममनुष्ठिता । 007a
महीमनुचचारैका सुलभा नाम भिक्षुकी ॥ 007c
तया जगदिदं कृत्स्नमटन्त्या मिथिलेश्वरः । 008a
तत्रतत्र श्रुतो मोक्षे कथ्यमानस्त्रिदण्डिभिः ॥ 008c
साऽतिसूक्ष्मां कथां श्रुत्वा तथ्यं नेति ससंशया । 009a
दर्शने जातसङ्कल्पा जनकस्य बभूव ह ॥ 009c
तत्र सा विप्रहायाऽथ पूर्वरूपं हि योगतः । 010a
अबिभ्रदनवद्याङ्गी रूपमन्यदनुत्तमम् ॥ 010c
चक्षुर्निमेषमात्रेण लध्वस्त्रगतिगामिनी । 011a
विदेहानां पुरीं सुभ्रूर्जगाम कमलेक्षणा ॥ 011c
सा प्राप्य मिथिलां रम्यां समृद्धजनसङ्कुलाम् । 012a
भैक्ष्यचर्यापदेशेन ददर्श मिथिलेश्वरम् ॥ 012c
राजा तस्याः परं दृष्ट्वा सौकुमार्यं पुनस्तदा । 013a
केयं कस्य कुतो वेति बभूवागतविस्मयः ॥ 013c
ततोस्याः स्वागतं कृत्वा व्यादिश्य च वरासनम् । 014a
पूजितां पादशौचेन वरान्नेनाप्यतर्पयत् ॥ 014c
अथ भुक्तवतीं प्रीतां राजा तां मन्त्रिभिर्वृतः । 015a
सर्वभाष्यविदां मध्ये चोदयामास भिक्षुकीम् ॥ 015c
सुलभा त्वस्य धर्मेषु मुक्तो नेति ससंशया । 016a
सत्वं सत्वेन योगज्ञा प्रविष्टाऽभून्महीपते ॥ 016c
नेत्राभ्यां नेत्रयोरस्य रश्मीन्संयोज्य रश्मिभिः । 017a
सा स्म तं चोदयिष्यन्ती योगबन्धैर्बबन्ध ह ॥ 017c
जनकोप्युत्स्मयन्राजा भावमस्या विशेषयन् । 018a
प्रतिजग्राह भावेन भावमस्या नृपोत्तम ॥ 018c
तदेकस्मिन्नधिष्ठाने संवादः श्रूतयामयम् । 019a
छत्रादिषु विमुक्तस्य मुक्तायाश्च त्रिदण्डकैः ॥ 019c
जनक उवाच 020
भगवत्याः क्व चर्येयं कृता क्व च गमिष्यसि । 020a
कस्य च त्वं कुतो वेति पप्रच्छैनां महिपतिः ॥ 020c
श्रुते वयसि जातौ च सद्भावो नाधिगम्यते । 021a
एष्वर्थेषूत्तरं तस्मात्प्रवेद्यं मत्समागमे ॥ 021c
छत्रादिषु विशेषेषु मुक्तं मां विद्धि तत्त्वतः । 022a
स त्वां संवेत्तुमिच्छामि मानार्हा हि मताऽसि मे ॥ 022c
यस्माच्चैतन्मया प्राप्तं ज्ञानं वैशेषिकं पुरा । 023a
यस्य नान्यः प्रवक्ताऽस्ति मोक्षे तमपि मे शृणु ॥ 023c
पराशरसगोत्रस्य वृद्धस्य सुमहात्मनः । 024a
भिक्षोः पञ्चशिखस्याहं शिष्यः परमसम्मतः ॥ 024c
साङ्ख्यज्ञाने च योगे च महीपालविधौ तथा । 025a
त्रिविधे मोक्षधर्मोस्मिन्गताध्वा छिन्नसंशयः ॥ 025c
स यथा शास्त्रदृष्टेन मार्गेणेह परिभ्रमन् । 026a
वार्षिकांश्चतुरो मासान्पुरा मयि सुखोषितः ॥ 026c
तेनाहं साङ्ख्यमुख्येन सुदृष्टार्थेन तत्त्वतः । 027a
श्रावितस्त्रिविधं मोक्षं न च राज्याद्धि चालितः ॥ 027c
सोहं तामखिलां वृत्तिं त्रिविधां मोक्षसंहिताम् । 028a
मुक्तरागश्चराम्येकः पदे परमके स्थितः ॥ 028c
वैराग्यं पुनरेतस्य मोक्षस्य परमो विधिः । 029a
ज्ञानादेव च वैराग्यं जायते येन मुच्यते ॥ 029c
ज्ञानेन कुरुते यत्नं यत्नेन प्राप्यते महत् । 030a
महद्द्वन्द्वप्रमोक्षाय सा सिद्धिर्या वयोतिगा ॥ 030c
सेयं परमिका सिद्धिः प्राप्ता निर्द्वन्द्वता मया । 031a
इहैव गतमोहेन चरता मुक्तसङ्गिना ॥ 031c
यथा क्षेत्रं मृदुभूतमद्भिराप्लावितं तथा । 032a
जनयत्यङ्कुरं कर्म नृणां तद्वत्पुनर्भवम् ॥ 032c
यथा चोत्तापितं बीजं कपाले यत्रतत्र वा । 033a
प्राप्याप्यङ्कुरहेतुत्वमबीजत्वान्न जायते ॥ 033c
तद्वद्भगवताऽनेन शिखाप्रोक्तेन भिक्षुणा । 034a
ज्ञानं कृतमबीजं मे विषयेषु न जायते ॥ 034c
नामिरज्यति कस्मिंश्चिन्नानर्थे न परिग्रहे । 035a
नाभिरज्यति चैतेषु व्यर्थत्वाद्रागरोषयोः ॥ 035c
यश्च मे दक्षिणं बाहुं चन्दनेन समुक्षयेत् । 036a
सव्यं वाऽस्यापि यस्तक्षेत्समावेतावुभौ मम ॥ 036c
सुखी सोऽहमवाप्तार्थः समलोष्टाश्मकाञ्चनः । 037a
मुक्तसङ्गः स्थितो राज्ये विशिष्टोऽन्यैस्त्रिदण्डिभिः ॥ 037c
मोक्षे हि त्रिविधा निष्ठा दृष्टाऽन्यैर्मोक्षवित्तमैः । 038a
ज्ञानं लोकोत्तरं यच्च सर्वत्यागश्च कर्मणाम् ॥ 038c
ज्ञाननिष्ठां वदन्त्येके मोक्षशास्त्रविदो जनाः । 039a
कर्मनिष्ठां तथैवान्ये यतयः सूक्ष्मदर्शिनः ॥ 039c
प्रहायोभयमप्येव ज्ञानं कर्म च केवलम् । 040a
तृतीयेयं समाख्याता निष्ठा तेन महात्मना ॥ 040c
यमे च नियमे चैव कामे द्वेषे परिग्रहे । 041a
माने दम्भे तथा स्नेहे सदृशास्ते कुटुम्बिभिः ॥ 041c
त्रिदण्डादिषु यद्यस्ति मोक्षो ज्ञानेन केनचित् । 042a
छत्रादिषु कथं न स्यात्तुल्यहेतौ परिग्रहे ॥ 042c
येनयेन हि यस्यार्थः कारणेनेह कर्मणि । 043a
तत्तदालम्बते सर्वद्रव्ये स्वार्थपरिग्रहे ॥ 043c
दोषदर्शी तु गार्हस्थ्ये यो व्रजत्याश्रमान्तरे । 044a
उत्सृजन्परिगृह्णंश्च सोऽपि सङ्गान्न मुच्यते ॥ 044c
आधिपत्ये तथा तुल्ये निग्रहानुग्रहात्मके । 045a
राजभिर्भिक्षुकास्तुल्या मुच्यन्ते केन हेतुना ॥ 045c
अथ सत्याधिपत्येऽपि ज्ञानेनैवेह केवलम् । 046a
मुच्यन्ते किं न मुच्यन्ते पदे परमके स्थिताः ॥ 046c
काषायधारणं मौण्ड्यं त्रिविष्टब्धं कमण्डलुम् । 047a
लिङ्गान्युत्पथभूतानि न मोक्षायेति मे मतिः ॥ 047c
यदि सत्यपि लिङ्गेऽस्मिञ्ज्ञानमेवात्र कारणम् । 048a
निर्मोक्षायेह दुःखस्य लिङ्गमात्रं निरर्थकम् ॥ 048c
अथवा दुःखशैथिल्यं वीक्ष्य लिङ्गे कृता मतिः । 049a
किं तदेवार्थसामान्यं छत्रादिषु न लक्ष्यते ॥ 049c
आकिञ्चन्ये न मोक्षोस्ति कैञ्चन्ये नास्ति बन्धनम् । 050a
कैञ्चन्ये चेतरे चैव जन्तुर्ज्ञानेन मुच्यते ॥ 050c
तस्माद्धर्मार्थकामेषु तथा राज्यपरिग्रहे । 051a
बन्धनायतनेष्वेषु विद्ध्यबन्धे पदे स्थितम् ॥ 051c
राज्यैश्वर्यमयः पाशः स्नेहायतनबन्धनः । 052a
मोक्षाश्मनिशितेनेह च्छिन्नस्त्यागासिना मया ॥ 052c
सोहमेवं गतो मुक्तो जातास्थस्त्वयि भिक्षुकि । 053a
अयथार्थं हि ते वर्णं वक्ष्यामि शृणु तन्मम ॥ 053c
सौकुमार्यं तथा रूपं वपुरग्र्यं तथा वयः । 054a
तवैतानि समस्तानि नियमश्चेति संशयः ॥ 054c
यच्चाप्यननुरूपं ते लिङ्गस्यास्य विचेष्टितम् । 055a
मुक्तोऽयं स्यान्न वेति स्याद्धर्षितो मत्परिग्रहः ॥ 055c
न च कामसमायुक्ते युक्तेऽप्यस्ति त्रिदण्डके । 056a
न रक्ष्यते त्वया चेदं न मुक्तस्यास्ति गोपना ॥ 056c
मत्पक्षसंश्रयाच्चायं शृणु यस्ते व्यतिक्रमः । 057a
आश्रयन्त्याः स्वभावेन मम पूर्वपरिग्रहम् ॥ 057c
प्रवेशस्ते कृतः केन मम राष्ट्रे पुरेपि वा । 058a
कस्य वा सन्निकर्षात्त्वं प्रविष्टा हृदयं मम ॥ 058c
वर्णप्रवरमुख्याऽसि ब्राह्मणी क्षत्रियस्त्वहम् । 059a
नावयोरेकयोगोऽस्ति मा कृथा वर्णसङ्करम् ॥ 059c
वर्तसे मोक्षधर्मेण त्वं गार्हस्थ्येऽहमाश्रमे । 060a
अयं चापि सुकष्टस्ते द्वितीयाश्रमसङ्करः ॥ 060c
सगोत्रां वाऽसगोत्रां वा न वेद त्वां न वेत्थ माम् । 061a
सगोत्रमाविशन्त्यास्ते तृतीयो गोत्रसङ्करः ॥ 061c
अथ जीवति ते भर्ता प्रोषितोप्यथवा क्वचित् । 062a
अगम्या परभार्येति चतुर्थो धर्मसङ्करः ॥ 062c
सा त्वमेतान्यकार्याणि कार्यापेक्षा व्यवस्यसि । 063a
अविज्ञानेन वा युक्ता मिथ्याज्ञानेन वा पुनः ॥ 063c
अथवापि स्वतन्त्राऽसि स्वदोषेणेह केनचित् । 064a
यदि किञ्चिच्छ्रुतं तेऽस्ति सर्वं कृतमनर्थकम् ॥ 064c
इदमन्यत्तृतीयं ये भावस्पर्शविघातकम् । 065a
दुष्टाया लक्ष्यते लिङ्गं विवृण्वत्या प्रकाशितम् ॥ 065c
न मय्येवाभिसन्धिस्ते जयैषिण्या जये कृतः । 066a
येयं मत्परिषत्कृत्स्ना चेतुमिच्छसि तामपि ॥ 066c
तथाऽर्हतस्ततश्च त्वं दृष्टिं स्वां प्रतिमुञ्चसि । 067a
मत्पक्षप्रतिघाताय स्वपक्षोद्भवनाय च ॥ 067c
सा स्वेनामर्षजेन त्वमृद्धिमोहेन मोहिता । 068a
भूयः सृजसि योगांस्त्वं विषामृतमिवैकताम् ॥ 068c
इच्छतोरत्र यो लाभः स्त्रीपुंसोरमृतोपमः । 069a
अलाभश्चापि रक्तस्य सोपि दोषो विषोपमः ॥ 069c
मा त्याक्षीः साधु जानीष्व स्वशास्त्रमनुपालय । 070a
कृतेयं हि विजिज्ञासा मुक्तो नेति त्वया मम ॥ 070c
एतत्सर्वं प्रतिच्छन्नं मयि नार्हसि गूहितम् । 071a
सा यदि त्वं स्वकार्येण यद्यन्यस्य महीपतेः । 071c
तत्त्वमत्र प्रतिच्छन्ना मयि नार्हसि गूहितम् ॥ 071e
न राजानं मृषा गच्छेन्न द्विजातिं कथञ्चन । 072a
न स्त्रियं स्त्रीगुणोपेतां हन्युर्ह्येते मृषागताः ॥ 072c
राज्ञां हि बलमैश्वर्यं ब्रह्म ब्रह्मविदां बलम् । 073a
रूपयौवनसौभाग्यं स्त्रीणां बलमनुत्तमम् ॥ 073c
अत एतैर्बलैरेव बलिनः स्वार्थमिच्छता । 074a
आर्जवेनाभिगन्तव्या विनाशाय ह्यनार्जवम् ॥ 074c
सा त्वं जातिं श्रुतं वृत्तं भावं प्रकृतिमात्मनः । 075a
कृत्यमागमने चैव वक्तुमर्हसि तत्त्वतः ॥ 075c
भीष्म उवाच 076
इत्येतैरसुखैर्वाक्यैरयुक्तैरसमञ्जसैः । 076a
प्रत्यादिष्टा नरेन्द्रेण सुलभा न व्यकम्पत ॥ 076c
उक्तवाक्ये तु नृपतौ सुलभा चारुदर्शना । 077a
ततश्चारुतरं वाक्यं प्रचक्रामाथ भाषितुम् ॥ 077c
सुलभोवाच 078
नवभिर्नवभिश्चैव दोषैर्वाग्बुद्धिदूषणैः । 078a
अपेतमुपपन्नार्थमष्टादशगुणान्वितम् ॥ 078c
सौक्ष्म्यं साङ्ख्यक्रमौ चोभौ निर्णयः सप्रयोजनः । 079a
पञ्चैतान्यर्थजातानि वाक्यमित्युच्यते नृप ॥ 079c
एषामेकैकशोऽर्थानां सौक्ष्म्यादीनां स्वलक्षणम् । 080a
शृणु संसार्यमाणानां पदार्थपदवाक्यतः ॥ 080c
ज्ञानं ज्ञेयेषु भिन्नेषु यदा भेदेन वर्तते । 081a
तत्रातिशयिनी बुद्धिस्तत्सौक्ष्म्यमिति वर्तते ॥ 081c
दोषाणां च गुणानां च प्रमाणं प्रविभागतः । 082a
कञ्चिदर्थमभिप्रेत्य सा सङ्ख्येत्युपधार्यताम् ॥ 082c
इदं पूर्वमिदं पश्चाद्वक्तव्यं यद्विवक्षितम् । 083a
क्रमयोगं तमप्याहुर्वाक्यं वाक्यविदो जनाः ॥ 083c
धर्मकामार्थमोक्षेषु प्रतिज्ञाय विशेषतः । 084a
इदं तदिति वाक्यान्ते प्रोच्यते स विनिर्णयः ॥ 084c
इच्छाद्वेषभवैर्दुःखैः प्रकर्षो यत्र जायते । 085a
तत्र या नृपते वृत्तिस्तत्प्रयोजनमिष्यते ॥ 085c
तान्येतानि यथोक्तानि सौक्ष्म्यादीनि जनाधिप । 086a
एकार्थसमवेतानि वाक्यं मम निशामय ॥ 086c
उपेतार्थमभिन्नार्थं न्यायवृत्तं न चाधिकम् । 087a
नाश्लक्ष्णं न च सन्दिग्धं वक्ष्यामि परमं ततः ॥ 087c
न गुर्वक्षरसंयुक्तं पराङ्मुखपदं न च । 088a
नानृतं न त्रिवर्गेण विरुद्धं नाप्यसंस्कृतम् ॥ 088c
न न्यूनं नष्टशब्दं वा व्युत्क्रमाभिहितं न च । 089a
सदोषमभिकल्पेन निष्कारणमहेतुकम् ॥ 089c
कामात्क्रोधाद्भयाल्लोभाद्दैन्याच्चानार्यकात्तथा । 090a
ह्रीतोऽनुक्रोशतो मानान्न वक्ष्यामि कथञ्चन ॥ 090c
वक्ता श्रोता च वाक्यं च यदा त्वविकलं नृप । 091a
स ममेति विवक्षायां तदा सोर्थः प्रकाशते ॥ 091c
वक्तव्ये तु यदा वक्ता श्रोतारमवमन्यते । 092a
स्वार्थमाह परार्थं तत्तदा वाक्यं न रोहति ॥ 092c
अथ यः स्वार्थमुत्सृज्य परार्थं प्राह मानवः । 093a
विशङ्का जायते तस्मिन्वाक्यं तदपि दोषवत् ॥ 093c
यस्तु वक्ता द्वयोरर्थमविरुद्धं प्रभाषते । 094a
श्रोतुश्चैवात्मनश्चैव स वक्ता नेतरो नृप ॥ 094c
तदर्थवदिदं वाक्यमुपेतं वाक्यसम्पदा । 095a
'अविक्षिप्तमना राजन्नेकाग्रः श्रोतुमर्हसि ॥ 095c
काऽसि कस्य कुतो वेति त्वयाऽहमिति चोदिता । 096a
तत्रोत्तरमिदं वाक्यं राजन्नेकमनाः शृणु ॥' 096c
यथा जतु च काष्ठं च पांसवश्चोदबिन्दवः । 097a
सुश्लिष्टानि तथा राजन्प्राणिनामिह सम्भवः ॥ 097c
शब्दः स्पर्शो रसो रूपं गन्धः पञ्चेन्द्रियाणि च । 098a
पृथगात्मा दशात्मानं संश्लिष्टा जतुकाष्ठवत् । 098c
न चैषां चोदना काचिदस्तीत्येष विनिश्चयः ॥ 098e
एकैकस्येह विज्ञानं नास्त्यात्मनि तथा परे । 099a
न वेद चक्षुश्चक्षुष्ट्वं श्रोत्रं नात्मनि वर्तते ॥ 099c
तथैव व्यभिचारेण न वर्तन्ते परस्परम् । 100a
प्रश्लिष्टं च न जानन्ति यथाऽऽप इव पांवसः ॥ 100c
वाह्यानन्यानपेक्षन्ते गुणांस्तानपि मे शृणु । 101a
रूपं चक्षुः प्रकाशश्च दर्शने हेतवस्त्रयः ॥ 101c
यथैवात्र तथाऽन्येषु ज्ञानज्ञेयेषु हेतवः । 102a
ज्ञानज्ञेयान्तरेतस्मिन्मनो नामापरो गुणः ॥ 102c
विचारयति येनायं निश्चये साध्वसाधुनी । 103a
द्वादशस्त्वपरस्तत्र बुद्धिर्नाम गुणः स्मृतः । 103c
येन संशयपूर्वेषु बोद्धव्येषु व्यवस्यति ॥ 103e
अथ द्वादशके तस्मिन्सत्वं नामापरो गुणः । 104a
महासत्वोऽल्पसत्वो वा जन्तुर्येनानुमीयते ॥ 104c
क्षेत्रज्ञ इति चाप्यन्यो गुणस्तत्र चतुर्दशः । 105a
ममायमिति येनायं मन्यते न ममेति च ॥ 105c
अथ पञ्चदशो राजन्गुणस्तत्रापरः स्मृतः । 106a
पृथक्कालसमूहस्य सामग्र्यं तदिहोच्यते ॥ 106c
गुणस्त्वेकोऽपरस्तत्र सङ्घात इति षोडशः । 107a
आकृतिर्व्यक्तिरित्येतौ गुणो यस्मिन्समाश्रितौ ॥ 107c
सुखासुखे जन्ममृत्यू लाभालाभौ प्रियाप्रिये । 108a
इति चैकोनविंशोऽयं द्वन्द्वयोग इति स्मृतः ॥ 108c
ऊर्ध्वमेकोनविंशत्या कालो नामापरो गुणः । 109a
इतीमं विद्धि विंशत्या भूतानां प्रभवाप्ययम् ॥ 109c
विंशकश्चैव सङ्घातो महाभूतानि पञ्च च । 110a
सदसद्भावयोगौ तु गुणावन्यौ प्रकाशकौ ॥ 110c
इत्येवं विंशतिश्चैव गुणाः सप्त च ये स्मृताः । 111a
विधिः शुक्रं बलं चेति त्रय एते गुणाः परे ॥ 111c
एवं विंशच्च दश च कलाः सङ्ख्यानतः स्मृताः । 112a
समग्रा यत्र वर्तन्ते तच्छरीरमिति स्मृतम् ॥ 112c
अव्यक्तं प्रकृतिं त्वासां कलानां कश्चिदिच्छति । 113a
व्यक्तं चासां तथैवान्यः स्थूलदर्शी प्रपश्यति ॥ 113c
अव्यक्तं यदि वा व्यक्तं द्वयं वाऽथ चतुष्टयम् । 114a
प्रकृतिं सर्वभूतानां पश्यन्त्यध्यात्मचिन्तकाः ॥ 114c
सेयं प्रकृतिरव्यक्ता कलाभिर्व्यक्ततां गता । 115a
ततोऽहं त्वं च राजेन्द्र ये चाप्यन्ये शरीरिणः || 115c
बिन्दुन्यासादयोऽवस्थाः शुक्रशोणितसम्भवाः । 116a
यासामेव निपातेन कललं नाम जायते ॥ 116c
कललाद्बुद्बुदोत्पत्तिः पेशी वा बुद्बुदात्स्मृता । 117a
पेश्यास्त्वङ्गाभिनिर्वृत्तिर्नखरोमाणि चाङ्गतः ॥ 117c
सम्पूर्णे नवमे मासि जन्तोर्जातस्य मैथिल । 118a
जायते नामरूपत्वं स्त्रीपुमान्वेति लिङ्गतः ॥ 118c
जातमात्रं तु तद्रूपं दृष्ट्वा ताम्रनखाङ्गुलि । 119a
कौमारं रूपमापन्नं रूपवानुपलभ्यते ॥ 119c
कौमाराद्यौवनं चापि स्थाविर्यं चापि यौवनात् । 120a
अनेन क्रमयोगेन पूर्वं पूर्वं न लभ्यते ॥ 120c
कलानां पृथगर्थानां प्रतिभेदः क्षणे क्षणे । 121a
वर्तते सर्वभूतेषु सौक्ष्म्यात्तु न विभाव्यते ॥ 121c
न चैषामप्ययो राजल्ँलक्ष्यते प्रभवो न च । 122a
अवस्थायामवस्थायां दीपस्येवार्चिषो गतिः ॥ 122c
तस्याप्येवम्प्रक्तारस्य सदश्वस्येव धावतः । 123a
अजस्रं सर्वलोकस्य कः कुतो वा न वा कुतः ॥ 123c
कस्येदं कस्य वा नेदं कुतो वेदं न वा कुतः । 124a
सम्बन्धः कोऽस्ति भूतानां स्वैरप्यवयवैरिह ॥ 124c
यथाऽऽदित्यान्मणेश्चापि वीरुद्भ्यश्चैव पावकः । 125a
जायन्त्येवं समुदयात्कलानामिह जन्तवः ॥ 125c
आत्मन्येवात्मनाऽऽत्मानं यथा त्वमनुपश्यसि । 126a
एवमेवात्मनाऽऽत्मानमन्यस्मिन्किं न पश्यसि ॥ 126c
यद्यात्मनि परस्मिंश्च समतामध्यवस्यसि । 127a
अथ मां काऽसि कस्येति किमर्थमनुपृच्छसि ॥ 127c
इदं मे स्यादिदं नेति द्वन्द्वैर्मुक्तस्य मैथिल । 128a
काऽसि कस्य कुतो वेति वचनैः किं प्रयोजनम् ॥ 128c
रिपौ मित्रेऽथ मध्यस्थे विजये सन्धिविग्रहे । 129a
कृतवान्यो महीपालः किं तस्मिन्मुक्तलक्षणम् ॥ 129c
त्रिवर्गं सप्तधा न्यस्तं यो न वेदेह कर्मसु । 130a
सङ्गवान्यस्त्रिवर्गे च किं तस्मिन्मुक्तलक्षणम् ॥ 130c
प्रिये वाऽप्यप्रिये वाऽपि दुर्बले बलवत्यपि । 131a
यस्य नास्ति समं चक्षुः किं तस्मिन्मुक्तलक्षणम् ॥ 131c
तदयुक्तस्य ते मोक्षे योऽभिमानो भवेन्नृप । 132a
सुहृद्भिः सन्निवार्यस्तेऽविरक्तस्येव भेषजम् ॥ 132c
तानि तान्यनुसन्दृश्य सङ्गस्थानान्यरिन्दम । 133a
आत्मनाऽऽत्मनि सम्पश्य किमन्यन्मुक्तलक्षणम् ॥ 133c
इमान्यन्यानि सूक्ष्माणि मोक्षमाश्रित्य केनचित् । 134a
चतुरङ्गप्रवृत्तानि सङ्गस्थानानि मे शृणु ॥ 134c
य इमां पृथिवीं कृत्स्नामेकच्छत्रां प्रशास्ति ह । 135a
एकमेव स वै राजा पुरमध्यावसत्युत ॥ 135c
तत्पुरे चैकमेवास्य गृहं यदधितिष्ठति । 136a
गृहे शयनमप्येकं निशायां यत्र लीयते ॥ 136c
शय्यार्धं तस्य चाप्यत्र स्त्रीपूर्वमधितिष्ठति । 137a
तदनेन प्रसङ्गेन फलेनाल्पेन युज्यते ॥ 137c
एवमेवोपभोगेषु भोजनाच्छादनेषु च । 138a
गुणेष्वपरिमेयेषु निग्रहानुग्रहं प्रति ॥ 138c
परतन्त्रः सदा राजा स्वल्पे सोऽपि प्रसज्जते । 139a
सन्धिविग्रहयोगे च कुतो राज्ञः स्वतन्त्रता ॥ 139c
स्त्रीषु क्रीडाविहारेषु नित्यमस्यास्वतन्त्रता । 140a
मन्त्रे चामात्यसहिते कुतस्तस्य स्वतन्त्रता ॥ 140c
यदा ह्याज्ञापयत्यन्यांस्तत्रास्योक्ता स्वतन्त्रता । 141a
अवशः कार्यते तत्र तस्मिंस्तस्मिन्गुणे स्थितः ॥ 141c
स्वप्नकामो न लभते स्वप्तुं कार्यार्थिभिर्जनैः । 142a
शयने चाप्यनुज्ञातः सुप्त उत्थाप्यतेऽवशः ॥ 142c
स्नाह्यालभ पिब प्राश जुहुध्यग्नीन्यजेत्यपि । 143a
वदस्व शृणु चापीति विवशः कार्यते परैः ॥ 143c
अभिगम्याभिगम्यैवं याचन्ते सततं नराः । 144a
न चाप्युत्सहते दातुं वित्तरक्षी महाजनान् ॥ 144c
दाने कोशक्षयोऽप्यस्य वैरं चास्य प्रयच्छतः । 145a
क्षणेनास्योऽपवर्तन्ते दोषा वैराग्यकारकाः ॥ 145c
प्राज्ञाञ्शूरांस्तथा वैद्यानेकस्थानपि शङ्कते । 146a
भयमप्यभये राज्ञो यैश्च नित्यमुपास्यते ॥ 146c
तथा चैते प्रदुष्यन्ति राजन्ये कीर्तिता मया । 147a
तथैवास्य भयं तेभ्यो जायते पश्य यादृशम् ॥ 147c
सर्वः स्वेस्वे गृहे राजा सर्वः स्वेस्वे गृहे गृही । 148a
निग्रहानुग्रहौ कुर्वंस्तुल्यो जनक राजभिः ॥ 148c
पुत्रा दारास्तथैवात्मा कोशो मित्राणि सञ्चयाः । 149a
परैः साधारणा ह्येते तैस्तैरेवास्य हेतुभिः ॥ 149c
हतो देशः पुरं दग्धं प्रधानः कुञ्जरो मृतः । 150a
लोकसाधारणेष्वेषु मिथ्याज्ञानेन तप्यते ॥ 150c
अमुक्तो मानसैर्दुःखैरिच्छाद्वेषप्रियोद्भवैः । 151a
शिरोरोगादिभी रोगैस्तथैव विनिपातिभिः ॥ 151c
द्वन्द्वैस्तैस्तैरुपहतः सर्वतः परिशङ्कितः । 152a
बहुभिः प्रार्थितं राज्यमुपास्ते गणयन्निशाः ॥ 152c
तदल्पसुखमत्यर्थं बहुदुःखमसारवत् । 153a
तृणाग्निज्वलनप्रख्यं फेनबुद्बुदसन्निभम् ॥ 153c
को राज्यमभिपद्येत प्राप्य चोपशमं लभेत् । 154a
ममेदमिति यच्चेदं पुरं राष्ट्रं च मन्यसे ॥ 154c
बलं कोशममात्यांश्च कस्यैतानि न वा नृप । 155a
मित्रामात्यपुरं राष्ट्रं दण्डः कोशो महीपतिः ॥ 155c
'सप्ताङ्गश्चैष सङ्घातो राज्यमित्युच्यते नृप ।' 156a
सप्ताङ्गस्यास्य राज्यस्य त्रिदण्डस्येव तिष्ठतः । 156c
अन्योन्यगुणयुक्तस्य कः केन गुणतोऽधिकः ॥ 156e
तेषुतेषु हि कालेषु तत्तदङ्गं विशिष्यते । 157a
येन यत्सिध्यते कार्यं तत्प्राधान्याय कल्पते ॥ 157c
सप्ताङ्गश्चैव सङ्घातस्त्रयश्चान्ये नृपोत्तम । 158a
सम्भूय दशवर्गोऽयं भुङ्क्ते राज्यं हि राजवत् ॥ 158c
यश्च राजा महोत्साहः क्षत्रधर्मे रतो भवेत् । 159a
स तुष्येद्दशभागेन ततस्त्वन्यो दशावरैः ॥ 159c
नास्त्यसाधारणो राजा नास्ति राज्यमराजकम् । 160a
राज्येऽसति कुतो धर्मो धर्मेऽसति कुतः परम् ॥ 160c
योप्यत्र परमो धर्मः पवित्रं राजराज्ययोः । 161a
पृथिवी दक्षिणा यस्य सोऽश्वमेधो न विद्यते ॥ 161c
साऽहमेतानि कर्माणि राजदुःखानि मैथिल । 162a
समर्था शतशो वक्तुमथवाऽपि सहस्रशः ॥ 162c
स्वदेहे नाभिषङ्गो मे कुतः परपरिग्रहे । 163a
न मामेवंविधां युक्तामीदृशं वक्तुमर्हसि ॥ 163c
ननु नाम त्वया मोक्षः कृत्स्नः पञ्चशिखाच्छ्रुतः । 164a
सोपायः सोपनिषदः सोपासङ्गः सनिश्चयः ॥ 164c
तस्य ते मुक्तसङ्गस्य पाशानाक्रम्य तिष्ठतः । 165a
छत्रादिषु विशेषेषु पुनः सङ्गः कथं नृप ॥ 165c
श्रुतं ते न श्रुतं मन्ये मृषा वाऽपि श्रुतं श्रुतम् । 166a
अथवा श्रुतसङ्काशं श्रुतमन्यच्छ्रुतं त्वया ॥ 166c
अथापीमासु सञ्ज्ञासु लौकिकीषु प्रतिष्ठसे । 167a
अभिषङ्गावरोधाभ्यां बद्धस्त्वं प्राकृतो यथा ॥ 167c
सत्वेनानुप्रवेशो हि योऽयं त्वयि कृतो मया । 168a
किं तवापकृतं तत्र यदि मुक्तोऽसि सर्वशः ॥ 168c
नियमो ह्येषु धर्मेषु यतीनां शून्यवासिता । 169a
शून्यमावासयन्त्या च मया किं कस्य दूषितम् ॥ 169c
न पाणिभ्यां न बाहुभ्यां पादोरुभ्यां न चानघ । 170a
न गात्रावयवैरन्यैः स्पृशामि त्वां नराधिप ॥ 170c
कुले महति जातेन ह्रीमता दीर्घदर्शिना । 171a
नैतत्सदसि वक्तव्यं सद्वाऽसद्वा मिथः कृतम् ॥ 171c
ब्राह्मणा गुरवश्चेमे तथा मान्या गुरूत्तमाः । 172a
त्वं चाथ गुरुरप्येषामेवमन्योन्यगौरवम् ॥ 172c
तदेवमनुसन्दृश्य वाच्यावाच्यं परीक्षता । 173a
स्त्रीपुंसोः समवायोऽयं त्वया वाच्यो न संसदि ॥ 173c
यथा पुष्करपर्णस्थं जलं तत्पर्णसंस्थितम् । 174a
तिष्ठत्यस्पृशती तद्वत्त्वयि वत्स्यामि मैथिल ॥ 174c
यदि चाद्य स्पृशन्त्या मे स्पर्शं जानासि कञ्चन । 175a
ज्ञानं कृतमबीजं ते कथं तेनेह भिक्षुणा ॥ 175c
स गार्हस्थ्याच्च्युतश्च त्वं मोक्षं चानाप्य दुर्विदम् । 176a
उभयोरन्तराले वै वर्तसे मोक्षवादिकः ॥ 176c
न हि मुक्तस्य मुक्तेन ज्ञस्यैकत्वपृथक्त्वयोः । 177a
भावाभावसमायोगे जायते वर्णसङ्करः ॥ 177c
वर्णाश्रमाः पृथक्त्वेन दृष्टार्थस्यापृथक्त्वतः । 178a
नान्यदन्यदिति ज्ञात्वा नान्यदन्यत्र वर्तते ॥ 178c
पापौ कुण्डं तथा कुण्डे पयः पयसि मक्षिका । 179a
आश्रिताश्रययोगेन पृथक्त्वेनाश्रिताः पुनः ॥ 179c
न तु कुण्डे पयोभावः पयश्चापि न मक्षिका । 180a
स्वयमेवाश्रयन्त्येते भावा न तु पराश्रयम् ॥ 180c
पृथक्त्वादाश्रमाणां च वर्णान्यत्वे तथैव च । 181a
परस्परपृथक्त्वाच्च कथं ते वर्णसङ्करः ॥ 181c
नास्मि वर्णोत्तमा जात्या न वैश्या नावरा तथा । 182a
तव राजन्सवर्णाऽस्मि शुद्धयोनिरविप्लुता ॥ 182c
प्रधानो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः । 183a
कुले तस्य समुत्पन्नां सुलभां नाम विद्धि माम् ॥ 183c
द्रोणश्च शतशृङ्गश्च वक्रद्वारश्च पर्वतः । 184a
मम सत्रेषु पूर्वेषां चिता मघवता सह ॥ 184c
साहं तस्मिन्कुले जाता भर्तर्यसति मद्विधे । 185a
विनीता मोक्षधर्मेषु चराम्येका मुनिव्रतम् ॥ 185c
नास्मि सत्रप्रतिच्छन्ना न परस्वाभिमानिनी । 186a
न धर्मसङ्करकरी स्वधर्मेऽस्मि दृढव्रता ॥ 186c
नास्थिरा स्वप्रतिज्ञायां नासमीक्ष्य प्रवादिनी । 187a
नासमीक्ष्यागता चेह त्वत्सकाशं जनाधिप ॥ 187c
मोक्षे ते भावितां बुद्धिं श्रुत्वाऽहं कुशलैषिणी । 188a
तव मोक्षस्य चाप्यस्य जिज्ञासार्थमिहागता ॥ 188c
न वर्गस्था ब्रवीम्येतत्स्वपक्षपरपक्षयोः । 189a
मुक्तो विमुच्यते यश्च शान्तौ यश्च न शाम्यति ॥ 189c
यथा शून्ये पुराऽगारे भिक्षुरेकां निशां वसेत् । 190a
तथाऽहं त्वच्छरीरेऽस्मिन्निमां वत्स्यामि शर्वरीम् ॥ 190c
साऽहं मानप्रदानेन वागातिथ्येन चार्चिता । 191a
सुप्ता सुशरणं प्रीता श्वो गमिष्यामि मैथिल ॥ 191c
भीष्म उवाच 192
इत्येतानि स वाक्यानि हेतुमन्त्यर्थवन्ति च । 192a
श्रुत्वा नाधिजगौ राजा किञ्चिदन्यदतः परम् ॥ 192c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चविंशत्यधिकत्रिशततमोऽध्यायः ॥ 325 ॥

12-325-2 अव्ययस्य यथात्मा च व्यक्तस्यात्मा यथा च यदिति ध. पाठः ॥ 12-325-4 सन्न्यासफलं सम्यग्दर्शनं तदस्यास्तीति सन्न्यासफलिकः ॥ 12-325-5 स्वे शास्त्रे दण्डनीतौ ॥ 12-325-7 अनुष्ठिता कर्तरिक्तः ॥ 12-325-8 मोक्षे मोक्षशास्त्रे निष्णात इति शेषः ॥ 12-325-9 नेति नवेति ॥ 12-325-10 ततः सा विप्रभार्याश्च पूर्वरूपवियोगत इति ट. ड. पाठः ॥ 12-325-11 लघु शीघ्रमस्त्रगत्या गच्छतीति सा । विदेहानां पदमिति ड. पाठः ॥ 12-325-15 भाष्यविदां सूत्रार्थज्ञानां मध्ये । अथ भुक्तवती प्रीता राजानं मन्त्रिभिर्वृतमिति । चोदयामास भिक्षुकीति च. झ. पाठः ॥ 12-325-16 सुलभाऽयं स्वधर्मेषु इति ध. पाठः ॥ 12-325-18 भावमाशयमेनं मूकं करिष्यामीत्येवंरूपम् । विशेषयन्नभिभवन् ॥ 12-325-20 भवत्याचक्ष्व वार्षेयं कुतः क्व च गमिष्यसि इति ड. थ. पाठः ॥ 12-325-29 मोक्षस्य परमो निधिरिति ध. पाठः ॥ 12-325-30 सा सिद्धिर्या च योगितेति थ. पाठः ॥ 12-325-42 ज्ञानेन कस्यचिदिति झ. पाठः ॥ 12-325-45 आधिपत्ये तथा तुल्ये निग्रहानुग्रहात्मकाः । राजानो भिक्षुकाचार्या मुच्यन्ते इति ड. ध. पाठः ॥ 12-325-46 मुच्यन्ते सर्वपापेभ्यो देहे परमके स्थिता इति झ. पाठः ॥ 12-325-47 लिङ्गान्यन्यार्थभूतानीति ट. ड. थ. पाठः ॥ 12-325-49 छत्रादिषु न लभ्यत इति ट. ड. पाठः ॥ 12-325-54 नचैतानि समस्तानीति ध. पाठः ॥ 12-325-58 सन्निसर्गात्त्वम् इति ध. पाठः ॥ 12-325-60 द्वितीयो वर्णसङ्कर इति ड. पाठः ॥ 12-325-62 प्रेरिता तेन गच्छसीति ध. पाठः ॥ 12-325-63 कार्यार्थज्ञा व्यवस्यसीति ध. पाठः ॥ 12-325-65 तद्वक्तव्यं प्रकाशितमि ड. पाठः ॥ 12-325-67 अर्हतः पूज्यान् उद्दिश्य ॥ 12-325-70 माप्राक्षीरिति ध. पाठः ॥ 12-325-87 नापेतार्थं न भिन्नार्थं नापवृत्तं न चाधिकमिति ड. पाठः ॥ 12-325-89 न निष्ठानमहेतुकमिति ड. पाठः ॥ 12-325-90 दैन्यादन्याय्यकात्तथेति ड. पाठः ॥ 12-325-93 निःशङ्को जायते तस्मिन्निति ध. पाठः ॥ 12-325-100 प्रश्लिष्टा नाभिजायन्ते यथाद्भिरिव पांसव इति ड. पाठः ॥ 12-325-103 अथ त्रयोदशे तस्मिन्बुद्धिर्नाम गुणः स्मृत इति ध. पाठः ॥ 12-325-106 पृथक्कलासमूहस्येति झ. पाठः ॥ 12-325-111 विधिः शुद्धं बलं चेतीति ध. पाठः ॥ 12-325-114 अव्यक्तां यदि वा व्यक्तां द्वयीमथ चतुष्टयीमिति ट. थ. पाठः ॥ 12-325-122 न चैषामप्यथो राजन्निति ट. पाठः । न चासामप्यथो राजन्निति ड. पाठः ॥ 12-325-128 इदं मे स्यादिदं चेति इति ड. थ. पाठः ॥ 12-325-130 सप्तधा व्यस्तमिति ड. पाठः ॥ 12-325-141 तस्मिंस्तस्मिन्क्षणे स्थित इति झ. पाठः ॥ 12-325-151 तथैवाभिनियन्तृभिरिति झ. पाठः ॥ 12-325-152 बहुप्रत्यर्थिकं राज्यमिति झ. ध. पाठः ॥ 12-325-168 अङ्गनानुप्रवेशोऽपि इति ध. पाठः ॥ 12-325-169 नियमो ह्येषु वर्णेष्विति झ. पाठः ॥ 12-325-174 जलं तत्पत्रसञ्ज्ञितमिति ध. पाठः । तत्पर्णमस्पृशदिति झ. पाठः ॥ 12-325-175 यदि वाप्यस्पृशन्त्या मे इति ट. ड. ध. पाठः ॥ 12-325-176 मोक्षं चावाप्य दुर्लभमिति ड. थ. पाठः ॥ 12-325-178 पृथक्त्वे च दृष्टास्यार्थाः पृथक्कृता इति ट. ड. पाठः ॥ 12-325-184 द्रोणादयः पर्वता मम पूर्वेषां सत्रेषु मघवता सह चिताश्चयने इष्टकास्थाने निवेशिता इत्यर्थः । चित्यां मघवता सहेति थ. पाठः ॥ 12-325-185 भर्तर्यसति मद्गृहे इति ध. पाठः ॥ 12-325-186 सत्रप्रतिच्छन्ना कपटसन्न्यासिनी । न परस्वापहारिणीति झ. पाठः ॥ 12-325-189 मुक्तो व्यायच्छते यश्चेति झ. पाठः ॥