अध्यायः 324
भीष्मेण युधिष्ठिरम् प्रति दारापत्यादिषु स्नेहत्यागपूर्वकं धर्माचरणचोदकजनकपञ्चशिखसंवादानुवादः ॥ 1 ॥
युधिष्ठिर उवाच 001
ऐश्वर्यं वा महत्प्राप्य धनं वा भरतर्षभ । 001a
दीर्घमायुरवाप्याथ कथं मृत्युमतिक्रमेत् ॥ 001c
तपसा वा सुमहता कर्मणा वा श्रुतेन वा । 002a
रसायनप्रयोगैर्वा कैर्नाप्नोति जरान्तकौ ॥ 002c
भीष्म उवाच 003
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 003a
भिक्षोः पञ्चशिखस्येह संवादं जनकस्य च ॥ 003c
वैदेहो जनको राजा महर्षिं वेदवित्तमम् । 004a
पर्यपृच्छत्पञ्चशिखं छिन्नधर्मार्थसंशयम् ॥ 004c
केन वृत्तेन भगवन्नतिक्रामेज्जरान्तकौ । 005a
तपसा वाऽथवा बुद्ध्या कर्मणा वा श्रुतेन वा ॥ 005c
एवमुक्तः स वैदेहं प्रत्युवाचापरोक्षवित् । 006a
निवृत्तिर्नैतयोरस्ति नातिवृत्तिः कथञ्चन ॥ 006c
न ह्यहानि निवर्तन्ते न मासा न पुनः क्षपाः । 007a
सोयं प्रपद्यतेऽध्वानं चिराय ध्रुवमध्रुवः ॥ 007c
सर्वभूतसमुच्छेदः स्रोतसेवोह्यते सदा । 008a
ऊह्यमानं निमज्जन्तमप्लवे कालसागरे ॥ 008c
जरामृत्युमहाग्राहे न कश्चिदतिवर्तते । 009a
नैवास्य कश्चिद्भवति नासौ भवति कस्यचित् ॥ 009c
पथि सङ्गतमेवेदं दारैरन्यैश्च बन्धुभिः । 010a
नायमत्यन्तसंवासो लब्धपूर्वो हि केनचित् ॥ 010c
क्षिप्यन्ते तेनतेनैव निष्टनन्तः पुनः पुनः । 011a
कालेन जाता याता हि वायुनेवाभ्रसञ्चयाः ॥ 011c
जरामृत्यू हि भूतानां खादितारौ वृकाविव । 012a
बलिनां दुर्बलानां च ह्रस्वानां महतामपि ॥ 012c
एवम्भूतेषु भूतेषु नित्यभूताध्रवेषु च । 013a
कथं हि हृष्येज्जातेषु मृतेषु च न सञ्ज्वरेत् ॥ 013c
कुतोऽहमागतः कोऽस्मि क्व गमिष्यामि कस्य वा । 014a
कस्मिन्स्थितः क्व भविता कस्मात्किमनुशोचसि ॥ 014c
द्रष्टा स्वर्गस्य न ह्यस्ति तथैव नरकस्य च । 015a
आगमांस्त्वनतिक्रम्य दद्याच्चैव यजेत च ॥ 015c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुर्विंशत्यधिकत्रिशततमोऽध्यायः ॥ 324 ॥
12-324-14 कुतस्त्वमागतः क्वासि त्वं गमिष्यसि कस्यवेति ड. पाठः ॥