अध्यायः 322

याज्ञवल्क्येन जनकम् प्रति प्राणिनामुत्क्रमणस्थानविशेषप्रयोज्यफलविशेषकथनम् ॥ 1 ॥ तथा प्राणिनां मरणसूचकदुःशकुनकथनम् ॥ 2 ॥ याज्ञवल्क्य उवाच 001
तथैवोत्क्रमतां स्थानं शृणुष्वावहितो नृप । 001a
पद्भ्यामुत्क्रममाणस्य वैष्णवं स्थानमुच्यते ॥ 001c
जङ्घाभ्यां तु वसून्देवानाप्नुयादिति नः श्रुतम् । 002a
जानुभ्यां च महाभागान्साध्यान्देवानवाप्नुयात् ॥ 002c
पायुनोत्क्रममाणस्तु मैत्रं स्थानमवाप्नुयात् । 003a
पृथिवीं जघनेनाथ ऊरुभ्यां च प्रजापतिम् ॥ 003c
पार्श्वाभ्यां मरुतो देवान्नासाभ्यामिन्दुमेव च । 004a
बाहुभ्यामिन्द्रमित्याहुरुरसा रुद्रमेव च ॥ 004c
ग्रीवया तु मुनिश्रेष्ठं नरमाप्नोत्यनुत्तमम् । 005a
विश्वेदेवान्मुखेनाथ दिशः श्रोत्रेण चाप्नुयात् ॥ 005c
घ्राणेन गन्धवहनं नेत्राभ्यां सूर्यमेव च । 006a
भ्रूभ्यां चैवाश्विनौ देवौ ललाटेन पितॄनथ ॥ 006c
ब्रह्माणमाप्नोति विभुं मूर्ध्ना देवाग्रजं तथा । 007a
एतान्युत्क्रमणस्थानान्युक्तानि मिथिलेश्वर ॥ 007c
अरिष्टानि प्रवक्ष्यामि विहितानि मनीषिभिः । 008a
संवत्सराद्विमोक्षस्तु सम्भवेत शरीरिणः ॥ 008c
योऽरुन्धतीं न पश्येत दृष्टपूर्वा कदाचन । 009a
तथैव ध्रुवमित्याहुः पूर्णेन्दुं दीपमेव च ॥ 009c
खण्डाभासं दक्षिणतस्तेऽपि संवत्सरायुषः । 010a
परचक्षुषि चात्मानं ये न पश्यन्ति पार्थिव ॥ 010c
आत्मच्छायाकृतीभूतं तेऽपि संवत्सरायुषः । 011a
अतिद्युतिरतिप्रज्ञा अप्रज्ञा चाद्युतिस्तथा ॥ 011c
प्रकृतेर्विक्रियापत्तिः षण्मासान्मृत्युलक्षणम् । 012a
दैवतान्यवजानाति ब्राह्मणैश्च विरुध्यते ॥ 012c
कृष्णश्यावच्छविच्छायः षण्मासान्मृत्युलक्षणम् । 013a
शीर्णनाभिं यथा चक्रं छिद्रं सोमं प्रपश्यति ॥ 013c
तथैव च सहस्रांशुं सप्तरात्रेण मृत्युभाक् । 014a
शवगन्धमुपाघ्राति सुरभिं प्राप्य यो नरः || 014c
देवतायतनस्थस्तु सप्तरात्रेण मृत्युभाक् | 015a
कर्णनासावनमनं दन्तदृष्टिविरागिता ॥ 015c
सञ्ज्ञालोपो निरूष्मत्वं सद्योमृत्युनिदर्शनम् । 016a
अकस्माच्च स्रवेद्यस्य वाममक्षि नराधिप ॥ 016c
मूर्धतश्चोत्पतेद्धूमः सद्योमृत्युनिदर्शनम् । 017a
एतावन्ति त्वरिष्टानि विदित्वा मानवोऽऽत्मवान् ॥ 017c
निशि चाहनि चात्मानं योजयेत्परमात्मनि । 018a
प्रतीक्षमाणस्तत्कालं यः कालः प्रकृतो भवेत् ॥ 018c
अथास्य नेष्टं मरणं स्थातुमिच्छेदिमां क्रियाम् । 019a
सर्वगन्धान्रसांश्चैव धारयीत समाहितः ॥ 019c
'तथा मृत्युमुपादाय तत्परेणान्तरात्मना ।' 020a
स साङ्ख्यधारणं चैव विदित्वा मनुजर्षभ । 020c
जयेच्च मृत्युं योगेन तत्परेणान्तरात्मना ॥ 020e
गच्छेत्प्राप्याक्षयं कृत्स्नमजन्म शिवमव्ययम् । 021a
शाश्वतं स्थानमचलं दुष्प्रापमकृतात्मभिः ॥ 021c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्वाविंशत्यधिकत्रिशततमोऽध्यायः ॥ 322 ॥

12-322-8 संवत्सरवियोगस्य सम्भवे नु इति ध. पाठः ॥ 12-322-10 खण्डभागं दक्षिणत इति थ. पाठः ॥ 12-322-13 छिद्रं छिद्रवन्तम् ॥ 12-322-14 सुरभिद्रव्ये शवगन्धग्रह इत्यर्थः ॥