अध्यायः 321
याज्ञवल्क्येन जनकम् प्रति योगनिरूपणम् ॥ 1 ॥
याज्ञवल्क्य उवाच 001
साङ्ख्यज्ञानं मया प्रोक्तं योगज्ञानं निबोध मे । 001a
यथाश्रुतं यथादृष्टं तत्त्वेन नृपसत्तम ॥ 001c
नास्ति साङ्ख्यसमं ज्ञानं नास्ति योगसमं बलम् । 002a
तावुभावेकचर्यौ तावुभावनिधनौ स्मृतौ ॥ 002c
पृथक्पृथक्प्रपश्यन्ति येऽप्यबुद्धिरता नराः । 003a
वयं तु राजन्पश्याम एकमेव तु निश्चयात् ॥ 003c
यदेव योगाः पश्यन्ति तत्साङ्ख्यैरपि दृश्यते । 004a
एकं साङ्ख्यं च योगं च यः पश्यति स तत्त्ववित् ॥ 004c
रुद्रप्रधानानपरान्विद्धि योगानरिन्दम । 005a
तेनैव चाथ देहेन विचरन्ति दिशो दश ॥ 005c
यावद्धि प्रलयस्तात सूक्ष्मेणाष्टगुणेन ह । 006a
योगेन लोकान्विचरन्सुखं सन्न्यस्य चानघ ॥ 006c
तावदेवाष्टगुणिनं योगप्राहुर्मनीषिणः । 007a
सूक्ष्ममष्टगुणं प्राहुर्नेतरं नृपसत्तम ॥ 007c
द्विगुणं योगकृत्यं तु योगानां प्राहुरुत्तमम् । 008a
सगुणं निर्गुणं चैव यथाशास्त्रनिदर्शनम् ॥ 008c
धारणं चैव मनसः प्राणायामश्च पार्थिव । 009a
एकाग्रता च मनसः प्राणायामस्तथैव च ॥ 009c
प्राणायामो हि सगुणो निर्गुणं धारयेन्मनः । 010a
यद्यदृश्यति मुञ्चन्वै प्राणान्मैथिलसत्तम । 010c
वाताधिक्यं भवत्येव तस्मात्तं न समाचरेत् ॥ 010e
निशायाः प्रथमे यामे चोदना द्वादश स्मृताः । 011a
मध्ये स्वप्नात्परे यामे द्वादशैव तु चोदनाः ॥ 011c
तदेवमुपशान्तेन दान्तेनैकान्तशीलिना । 012a
आत्मारामेण बुद्धेन योक्तव्योऽऽत्मा न संशयः ॥ 012c
पञ्चानामिन्द्रियाणां तु दोषानाक्षिप्य पञ्चधा । 013a
शब्दं रूपं तथा स्पर्शं रसं गन्धं तथैव च ॥ 013c
प्रतिभामपवर्गं च प्रतिसंहृत्य मैथिल । 014a
इन्द्रियग्राममखिलं मनस्यभिनिवेश्य ह ॥ 014c
मनस्तथैवाहङ्कारे प्रतिष्ठाप्य नराधिप । 015a
अहङ्कारं तथा बुद्धौ बुद्धिं च प्रकृतावपि ॥ 015c
एवं हि परिसङ्ख्याय ततो ध्यायन्ति केवलम् । 016a
विरजस्कमलं नित्यमनन्तं शुद्धमव्रणम् ॥ 016c
तस्थुषं पुरुषं नित्यमभेद्यमजरामरम् । 017a
शाश्वतं चाव्ययं चैव ईशानं ब्रह्म चाव्ययम् ॥ 017c
युक्तस्य तु महाराज लक्षणान्युपधारय । 018a
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् ॥ 018c
निर्वाते तु यथा दीपो ज्वलेत्स्नेहसमन्वितः । 019a
निश्चलोर्ध्वशिखस्तद्वद्युक्तमाहुर्मनीषिणः ॥ 019c
पाषाण इव मेघोत्थैर्यथा बिन्दुभिराहतः । 020a
नालं चालयितुं शक्यस्तथा युक्तस्य लक्षणम् ॥ 020c
शक्तदुन्दुभिनिर्घोषैर्विधिधैर्गीतवादितैः । 021a
क्रियमाणैर्न कम्पेत युक्तस्यैतन्निदर्शनम् ॥ 021c
तैलपात्रं यथा पूर्णं कराभ्यां गृह्य पूरुषः । 022a
सोपानमारुहेद्भीतस्तर्ज्यमानोऽसिपाणिभिः ॥ 022c
संयतात्मा भयात्तेषां न पात्राद्बिन्दुमुत्सृजेत् । 023a
तथैवोत्तरमागम्य एकाग्रमनसस्तथा ॥ 023c
स्थिरत्वादिन्द्रियाणां तु निश्चलत्वात्तथैव च । 024a
एवं युक्तस्य तु मुनेर्लक्षणान्युपलक्षयेत् ॥ 024c
स्वयुक्तः पश्यते ब्रह्म यत्तत्परममव्ययम् । 025a
महतस्तमसो मध्ये स्थितं ज्वलनसन्निभम् ॥ 025c
एतेन केवलं याति त्यक्त्वा देहमसाक्षिकम् । 026a
कालेन महता राजञ्श्रुतिरेषा सनातनी ॥ 026c
एतद्धि योगं योगानां किमन्यद्योगलक्षणम् । 027a
विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः ॥ 027c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकविंशत्यधिकत्रिशततमोऽध्यायः ॥ 321 ॥
12-321-2 तावुभावेकपक्षौ तु इति ट. पाठः ॥ 12-321-3 येऽल्पबुद्धिपरायणा इति ट. ड. पाठः ॥ 12-321-6 सुखं वसति चानघेति ट. ड. पाठः ॥ 12-321-8 निर्गुणं योगकृत्यं त्विति ट. पाठः ॥ 12-321-10 दृश्यते यत्र मुञ्जन्वै इति ट. ड. थ. पाठः ॥ 12-321-14 मनस्यगिर एव चेति ड. पाठः । पूतिकामुपसर्गं चेति ड. थ. पाठः ॥ 12-321-24 ह्रियमाणैर्न कम्पेयुरिति ड. पाठः ॥ 12-321-26 कालेन केवलं जानञ्श्रुतिरेषा सनातनीति ड. पाठः ॥