अध्यायः 320

याज्ञवल्क्येन जनकम् प्रति साङ्ख्यदर्शनकथनम् ॥ 1 ॥ याज्ञवल्क्य उवाच 001
न शक्यो निर्गुणस्तात गुणीकर्तुं विशाम्पते । 001a
गुणवांश्चाप्यगुणवान्यथातत्त्वं निबोध मे ॥ 001c
गुणैर्हि गुणवानेव निर्गुणश्चागुणस्तथा । 002a
प्राहुरेवं महात्मानो मुनयस्तत्त्वदर्शिनः ॥ 002c
गुणस्वभावस्त्वव्यक्तो गुणानेवाभिवर्तते । 003a
उपयुङ्क्ते च तानेव स चैवाज्ञः स्वभावतः ॥ 003c
अव्यक्तस्तु न जानीते पुरुषोऽज्ञः स्वभावतः । 004a
न मत्तः परमोऽस्तीति नित्यमेवाभिमन्यते ॥ 004c
अनेन कारणेनैतदव्यक्तं स्यादचेतनम् । 005a
नित्यत्वाच्चाक्षरत्वाच्च क्षरत्वान्न तदन्यथा ॥ 005c
यदाऽज्ञानेन कुर्वीत गुणसर्गं पुनःपुनः । 006a
यदात्मानं न जानीते तदाऽऽत्मापि न मुच्यते ॥ 006c
कर्तृत्वाच्चापि सर्गाणां सर्गधर्मा तथोच्यते । 007a
कर्तृत्वाच्चापि योगानां योगधर्मा तथोच्यते ॥ 007c
कर्तृत्वात्प्रकृतीनां च तथा प्रकृतिधर्मिता ॥ 008ac
कर्तृत्वाच्चापि बीजानां बीजधर्मा तथोच्यते । 009a
गुणानां प्रसवत्वाच्च प्रलयत्वात्तथैव च ॥ 009c
'कर्तृत्वात्प्रलयानां तु तथा प्रलयधर्मि च । 010a
कर्तृत्वात्प्रभवाणां च तथा प्रभवधर्मि च ॥ 010c
बीजत्वात्प्रकृतित्वाच्च प्रलयत्वात्तथैव च ।' 011a
उपेक्षत्वादनन्यत्वादभिमानाच्च केवलम् ॥ 011c
मन्यन्ते यतयः सिद्धा अध्यात्मज्ञा गतज्वराः । 012a
अनित्यं नित्यमव्यक्तं व्यक्तमेतद्धि शुश्रुम ॥ 012c
अव्यक्तैकत्वमित्याहुर्नानात्वं पुरुषास्तथा । 013a
सर्वभूतदयावन्तः केवलं ज्ञानमास्थिताः ॥ 013c
अन्यः स पुरुषोऽव्यक्तस्त्वध्रुवो ध्रुवसञ्ज्ञकः । 014a
यथा मुञ्ज इषीकाणां तथैवैतद्धि जायते । 014c
'न चैव मुञ्जसंयोगादिषीका तत्र बुध्यते ॥' 014e
अन्यच्च मशकं विद्यादन्यच्चोदुम्बरं तथा । 015a
च चोदुम्बरसंयोगैर्मशकस्तत्र लिप्यते ॥ 015c
अन्य एव तथा मत्स्यस्तदन्यदुदकं स्मृतम् । 016a
न चोदकस्य स्पर्शेन मत्स्यो लिप्यति सर्वशः ॥ 016c
अन्यो ह्यग्निरुखाऽप्यन्या नित्यमेवमवेहि भोः । 017a
न चोपलिप्यते सोऽग्निरुखासंस्पर्शनेन वै ॥ 017c
पुष्करं त्वन्यदेवात्र तथाऽन्यदुदकं स्मृतम् । 018a
न चोदकस्य स्पर्शेन लिप्यते तत्र पुष्करम् ॥ 018c
एतेषां सहवासं च निवासं चैव नित्यशः । 019a
याथातथ्येन पश्यन्ति न नित्यं प्राकृता जनाः ॥ 019c
ये त्वन्यथैव पश्यन्ति न सम्यक्तेषु दर्शनम् । 020a
ते व्यक्तं निरयं घोरं प्रविशन्ति पुनःपुनः ॥ 020c
साङ्ख्यदर्शनमेतत्ते परिसङ्ख्यानमुत्तमम् । 021a
एवं हि परिसङ्ख्याय साङ्ख्याः केवलतां गताः ॥ 021c
ये त्वन्ये तत्त्वकुशलास्तेषामेतन्निदर्शनम् । 022a
अतः परं प्रवक्ष्यामि योगानामनुदर्शनम् ॥ 022c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि विंशत्यधिकत्रिशततमोऽध्यायः ॥ 320 ॥

12-320-3 गुणान्नैवातिवर्तत इति झ. पाठः ॥ 12-320-5 यदज्ञानेन कुरुते निर्गुणः सगुणः पुनरिति ड. पाठः ॥ 12-320-6 यदज्ञानं न जानीषे तदित्यव्यक्तमुच्यत इति थ. पाठः ॥ 12-320-7 कर्तृत्वाच्चैव धर्माणामिति ट. पाठः । कर्तृत्वाच्चापि योनीनां योनिधर्मेत्यथोच्यत इति ट. ड. पाठः ॥ 12-320-17 उखा मृत्पात्रविशेषः ॥