अध्यायः 318
याज्ञवल्क्येन जनकम् प्रति इन्द्रियतद्विषयतदभिमानिदेवताकथनम् ॥ 1 ॥ तथा सत्वादिगुणत्रयकार्यधर्मप्रतिपादनम् ॥ 2 ॥
याज्ञवल्क्य उवाच 001
पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्त्वदर्शिनः । 001a
गन्तव्यमधिभूतं च विष्णुस्तत्राधिदैवतम् ॥ 001c
पायुरध्यात्ममित्याहुर्यथातत्त्वार्थदर्शिनः । 002a
विसर्गमधिभूतं च मित्रस्तत्राधिदैवतम् ॥ 002c
उपस्थोऽध्यात्ममित्याहुर्यथायोगप्रदर्शिनः । 003a
अधिभूतं तथाऽऽनन्दो दैवतं च प्रजापतिः ॥ 003c
हस्तावध्यात्ममित्याहुर्यथासङ्ख्यानदर्शिनः । 004a
कर्तव्यमधिभूतं तु इन्द्रस्तत्राधिदैवतम् ॥ 004c
वागध्यात्ममिति प्राहुर्यथाश्रुतिनिदर्शिनः । 005a
वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवतम् ॥ 005c
चक्षुरध्यात्ममित्याहुर्यथाश्रुतिनिदर्शिनः । 006a
रूपमत्राधिभूतं तु सूर्यश्चाप्यधिदैवतम् ॥ 006c
श्रोत्रमध्यात्ममित्याहुर्यथाश्रुतिनिदर्शिनः । 007a
शब्दस्तत्राधिभूतं तु दिशश्चात्राधिदैवतम् ॥ 007c
जिह्वामध्यात्ममित्याहुर्यथाश्रुतिनिदर्शिनः । 008a
रस एवाधिभूतं तु आपस्तत्राधिदैवतम् ॥ 008c
घ्राणमध्यात्ममित्याहुर्यथाश्रुतिनिदर्शिनः । 009a
गन्ध एवाधिभूतं तु पृथिवी चाधिदैवतम् ॥ 009c
त्वगध्यात्ममिति प्राहुस्तत्त्वबुद्धिविशारदाः । 010a
स्पर्शमेवाधिभूतं तु पवनश्चाधिदैवतम् ॥ 010c
मनोऽध्यात्ममिति प्राहुर्यथा शास्त्रविशारदाः । 011a
मन्तव्यमधिभूतं तु चन्द्रमाश्चाधिदैवतम् ॥ 011c
आहङ्कारिकमध्यात्ममाहुस्तत्त्वनिदर्शिनः । 012a
अभिमानोऽधिभूतं तु बुद्धिश्चात्राधिदैवतम् ॥ 012c
बुद्धिरध्यात्ममित्याहुर्यथावदभिदर्शिनः । 013a
बोद्धव्यमधिभूतं तु क्षेत्रज्ञश्चाधिदैवतम् ॥ 013c
एषा ते व्यक्तितो राजन्विभूतिरनुदर्शिता । 014a
आदौ मध्ये तथाऽन्ते च यथा तत्त्वेन तत्त्ववित् ॥ 014c
प्रकृतिर्गुणान्विकुरुते स्वच्छन्देनात्मकाम्यया । 015a
क्रीडार्थे तु महाराज शतशोऽथ सहस्रशः ॥ 015c
यथा दीपसहस्राणि दीपान्मर्त्याः प्रकुर्वते । 016a
प्रकृतिस्तथा विकुरुते पुरुषस्य गुणान्बहून् ॥ 016c
सत्वमानन्द उद्रेकः प्रीतिः प्राकाम्यमेव च । 017a
सुखं शुद्धत्वमारोग्यं सन्तोषः श्रद्दधानता ॥ 017c
अकार्पण्यमसंरम्भः क्षमा धृतिरहिंसता । 018a
समता सत्यमानृण्यमार्जवं ह्रीरचापलम् ॥ 018c
शौचमार्दवमाचारमलौल्यं हृद्यसम्भ्रमः । 019a
इष्टानिष्टवियोगानां कृतानामविकत्थना ॥ 019c
दानेन चात्मग्रहणमस्पृहत्वं परार्थता । 020a
सर्वभूतदया चैव सत्वस्यैते गुणाः स्मृताः ॥ 020c
रजोगुणानां सङ्घातो रूपमैश्वर्यविग्रहौ । 021a
अत्यागित्वमकारुण्यं सुखदुःखोपसेवनम् ॥ 021c
परापवादेषु रतिर्विवादानां च सेवनम् । 022a
अहङ्कारस्त्वसत्कारश्चिन्ता वैरोपसेवनम् ॥ 022c
परितापोऽभिहरणं ह्रीनाशोऽनार्जवं तथा । 023a
भेदः परुषता चैव कामक्रोधो मदस्तथा ॥ 023c
दर्पो द्वेषोऽतिमानश्च एते प्रोक्ता रजोगुणाः । 024a
तामसानां तुं सङ्घातान्प्रवक्ष्याम्युपधार्यताम् ॥ 024c
मोहोऽप्रकाशस्तामिस्रमन्धतामिस्रसञ्ज्ञितम् । 025a
मरणं चान्धतामिस्रं तामिस्रं क्रोध उज्यते ॥ 025c
तमसो लक्षणानीह भक्षणाद्यभिरोचनम् । 026a
भोजनानामपर्याप्तिस्तथा पेयेष्वतृप्तता ॥ 026c
गन्धवासो विहारेषु शयनेष्वासनेषु च । 027a
दिवास्वप्ने विवादे च प्रमादेषु च वै रतिः ॥ 027c
नृत्यवादित्रगीतानामज्ञानाच्छ्रद्दधानता । 028a
द्वेषो धर्मविशेषाणामेते वै तामसा गुणाः ॥ 028c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टादशाधिकत्रिशततमोऽध्यायः ॥ 318 ॥
12-318-4 यथा तत्वनिदर्शिनः इति थ. पाठः ॥ 12-318-19 आचारमपारुष्यमपैशुनमिति ड. पाठः । इष्टापूर्तविशेषाणामिति ट. ड. पाठः ॥