अध्यायः 317

भीष्मेण युधिष्ठिरम् प्रति जगत्प्रलयप्रकारादिप्रतिपादकजनकयाज्ञवल्क्यसंवादानुवादः ॥ 1 ॥ याज्ञवल्क्य उवाच 001
तत्त्वानां सर्गसङ्ख्या च कालसङ्ख्या तथैव च । 001a
मया प्रोक्ताऽनुपूर्वेण संहारमपि मे शृणु ॥ 001c
यथा संहरते जन्तून्ससर्ज च पुनः पुनः । 002a
अनादिनिधनो ब्रह्मा नित्यश्चाक्षर एव च || 002c
अहःक्षयमथो बुद्ध्वा निशि स्वप्नमनास्तथा । 003a
चोदयामास भगवानव्यक्तोऽहङ्कृतं नरम् ॥ 003c
ततः शतसहस्रांशुरव्यक्तेनाभिचोदितः । 004a
कृत्वा द्वादशधाऽऽत्मानमादित्यो ज्वलदग्निवत् ॥ 004c
चतुर्विधं प्रजाजातं निर्दहत्याशु तेजसा । 005a
जराय्वण्डस्वेदजातमुद्भिज्जं स नराधिप ॥ 005c
एतदुन्मेषमात्रेण विनष्टं स्थाणुजङ्गमम् । 006a
कूर्मपृष्ठसमा भूमिर्भवत्यथ समन्ततः ॥ 006c
जगद्दग्ध्वाऽमितबलः केवलां जगतीं ततः । 007a
अम्भसा बलिना क्षिप्रमापूरयति सर्वशः ॥ 007c
ततः कालाग्निमासाद्य तदम्भो याति सङ्क्षयम् । 008a
विनष्टेऽम्भसि राजेन्द्र जाज्वलत्यनलो महान् ॥ 008c
तमप्रमेयातिबलं ज्वलमानं विभावसुम् । 009a
ऊष्माणं सर्वभूतानां सप्तार्चिषमथाञ्जसा ॥ 009c
भक्षयामास भगवान्वायुरष्टात्मको बली । 010a
विचरन्नमितप्राणस्तिर्यगूर्ध्वमधस्तथा ॥ 010c
तमप्रतिबलं भीममाकाशं ग्रसते पुनः । 011a
आकाशमप्यभिनदन्मनो ग्रसति चारिकम् ॥ 011c
मनो ग्रसति सर्वात्मा सोहङ्कारः प्रजापतिः । 012a
अहङ्कारो महानात्मा भूतभव्यभविष्यवित् ॥ 012c
तमप्यनुपमात्मानं विश्वं शम्भुः प्रजापतिः । 013a
अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ॥ 013c
सर्वतः पाणिपादं तत्सर्वतोक्षिशिरोमुखम् । 014a
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ 014c
हृदयं सर्वभूतानां पर्वणाऽङ्गुष्ठमात्रकः । 015a
अणुग्रसत्यनन्तो हि महात्मा विश्वमीश्वरः ॥ 015c
ततः समभवत्सर्वमक्षयाव्ययमव्रणम् । 016a
भूतभव्यभविष्याणां स्रष्टारमनघं तथा ॥ 016c
एषोप्ययस्ते राजेन्द्र यथावत्समुदाहृतः । 017a
अध्यात्ममधिभूतं च श्रूयतां चाधिदैवतम् ॥ 017c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तदशाधिकत्रिशततमोऽध्यायः ॥ 317 ॥

12-317-4 सन्दधेऽयं महीमिति ड. थ. पाठः ॥ 12-317-8 पुत्रान्देवानिति ड. थ. पाठः । पुत्रान्पूर्वमेव महानृषिरिति । पितॄणां पितर इति झ. पाठः ॥ 12-317-13 अन्योन्यस्य हिते रता इति झ. ध. पाठः ॥ 12-317-21 एतद्वशे हि भूतानीति ट. ड. थ. पाठः ॥