अध्यायः 316
भीष्मेण युधिष्ठिरम् प्रति अण्डादिसृष्टिप्रकारादिप्रतिपादकजनकयाज्ञवल्क्यसंवादानुवादः ॥ 1 ॥
याज्ञवल्क्य उवाच 001
अव्यक्तस्य नरश्रेष्ठ कालसङ्ख्यां निबोध मे । 001a
पञ्चकल्पसहस्राणि द्विगुणान्यहरुच्यते ॥ 001c
रात्रिरेतावती चास्य प्रतिबुद्धो नराधिप । 002a
सृजत्योषधिमेवाग्रे जीवनं सर्वदेहिनाम् ॥ 002c
ततो ब्रह्माणमसृजद्धैरण्याण्डसमुद्भवम् । 003a
सा मूर्तिः सर्वभूतानामित्येवमनुशुश्रुम ॥ 003c
संवत्सरमुषित्वाण्डे निष्क्रम्य च महामुनिः । 004a
सन्दधेऽर्धं महीं कृत्स्नां दिवमर्धं प्रजापतिः ॥ 004c
द्यावापृथिव्योरिज्येष राजन्वेदेषु पठ्यते । 005a
तयोः शकलयोर्मध्यमाकाशमकरोत्प्रभुः ॥ 005c
एतस्यापि च सङ्ख्यानं वेदवेदाङ्गपारगैः । 006a
दशकल्पसहस्राणि पादोनान्यहरुच्यते ॥ 006c
रात्रिमेतावतीं चास्य प्राहुरध्यात्मचिन्तकाः । 007a
सृजत्यहङ्कारमृषिर्भूतं दिव्यात्मकं तथा ॥ 007c
चतुरश्चापरान्पुत्रान्देहात्पूर्वं महानृषिः । 008a
ते वै पितृभ्यः पितरः श्रूयन्ते राजसत्तम ॥ 008c
देवाः पितॄणां च सुता देवैर्लोकाः समावृताः । 009a
चराचरा नरश्रेष्ठ इत्येवमनुशुश्रुम ॥ 009c
परमेष्ठी त्वहङ्कारोऽसृजद्भूतानि पञ्चधा । 010a
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ 010c
एतस्यापि निशामाहुस्तृतीयमथ कुर्वतः । 011a
पञ्च कल्पसहस्राणि तावदेवाहरुच्यते ॥ 011c
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः । 012a
एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु ॥ 012c
यैराविष्टानि भूतानि अहन्यहनि पार्थिव । 013a
अन्योन्यं स्पृहयन्त्येते अन्योन्यस्याहिते रताः ॥ 013c
अन्योन्यमतिवर्तन्ते अन्योन्यस्पर्धिनस्तथा । 014a
ते वध्यमाना ह्यन्योन्यं गुणैर्हारिभिरव्ययाः ॥ 014c
इहैव परिवर्तन्ते तिर्यग्योनिप्रवेशिनः । 015a
त्रीणि कल्पसहस्राणि एतेषामहरुच्यते ॥ 015c
रात्रिरेतावती चैव मनसश्च नराधिप । 016a
मनश्चरति राजेन्द्र चरितं सर्वमिन्द्रियैः ॥ 016c
न चेन्द्रियाणि पश्यन्ति मन एवात्र पश्यति । 017a
चक्षुः पश्यति रूपाणि मनसा तु न चक्षुषा ॥ 017c
मनसि व्याकुले चक्षुः पश्यन्नपि न पश्यति । 018a
अथेन्द्रियाणि सर्वाणि पश्यन्तीत्यभिचक्षते ॥ 018c
मनस्युपरते राजन्निन्द्रियोपरमो भवेत् ॥ 019ac
न चेन्द्रियव्युपरमे मनस्युपरमो भवेत् । 020a
एवं मनःप्रधानानि इन्द्रियाणि प्रभावयेत् ॥ 020c
इन्द्रियाणां तु सर्वेषामीश्वरं मन उच्यते । 021a
एतद्विशन्ति भूतानि सर्वाणीह महायशः ॥ 021c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षोडशाधिकत्रिशततमोऽध्यायः ॥ 316 ॥
12-316-4 सन्दधेऽयं महीमिति ड. थ. पाठः ॥ 12-316-8 पुत्रान्देवानिति ड. थ. पाठः । पुत्रान्पूर्वमेव महानृषिरिति । पितॄणां पितर इति झ. पाठः ॥ 12-316-13 अन्योन्यस्य हिते रता इति झ. ध. पाठः ॥ 12-316-21 एतद्वशे हि भूतानीति ट. ड. थ. पाठः ॥