अध्यायः 315

भीष्मेण युधिष्ठिरम् प्रति भूतसृष्टिप्रकारादिप्रतिपादकजनकयाज्ञवल्क्यसंवादानुवादः ॥ 1 ॥ युधिष्ठिर उवाच 001
धर्माधर्मविमुक्तं यद्विमुक्तं सर्वसंशयात् । 001a
जन्ममृत्युविमुक्तं च विमुक्तं पुण्यपापयोः ॥ 001c
यच्छिवं नित्यमभयं नित्यमक्षरमव्ययम् । 002a
शुचि नित्यमनायासं तद्भवान्वक्तुमर्हति ॥ 002c
भीष्म उवाच 003
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् । 003a
याज्ञवल्क्यस्य संवादं जनकस्य च भारत ॥ 003c
याज्ञवल्क्यमृषिश्रेष्ठं दैवरातिर्महायशाः । 004a
पप्रच्छ जनको राजा प्रश्नं प्रश्नविदांवरः ॥ 004c
जनक उवाच 005
कतीन्द्रियाणि विप्रर्षे कति प्रकृतयः स्मृताः । 005a
किमव्यक्तं परं ब्रह्म तस्माच्च परतस्तु किम् ॥ 005c
प्रभवं चाप्ययं चैव कालसङ्ख्यां तथैव च । 006a
वक्तुमर्हसि विप्रेन्द्र त्वदनुग्रहकाङ्क्षिणः ॥ 006c
अज्ञानात्परिपृच्छामि त्वं हि ज्ञानमयो निधिः । 007a
तदहं श्रोतुमिच्छामि सर्वमेतदसंशयम् ॥ 007c
याज्ञवल्क्य उवाच 008
श्रूयतामवनीपाल यदेतदनुपृच्छसि । 008a
योगानां परमं ज्ञानं साङ्ख्यानां च विशेषतः ॥ 008c
न तवाविदितं किञ्चिन्मां तु जिज्ञासते भवान् । 009a
पृष्टेन चापि वक्तव्यमेष धर्मः सनातनः ॥ 009c
अष्टौ प्रकृतयः प्रोक्ता विकाराश्चापि षोडश । 010a
आसां तु सप्त व्यक्तानि प्राहुरध्यात्मचिन्तकाः ॥ 010c
अव्यक्तं च महांश्चैव तथाऽहङ्कार एव च । 011a
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ 011c
एताः प्रकृतयस्त्वष्टौ विकारानपि मे शृणु । 012a
श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् ॥ 012c
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च । 013a
वाक्च हस्तौ च पादौ च पायुर्मेढ्रं तथैव च ॥ 013c
एते विशेषा राजेन्द्रा महाभूतेषु पञ्चसु । 014a
बुद्धीन्द्रियाण्यथैतानि सविशेषाणि मैथिल ॥ 014c
मनः षोडशकं प्राहुरध्यात्मगतिचिन्तकाः । 015a
त्वं चैवान्ये च विद्वांसस्तत्त्वबुद्धिविशारदाः ॥ 015c
अव्यक्ताच्च महानात्मा समुत्पद्यति पार्थिव । 016a
प्रथमं सर्गमित्येतदाहुः प्राधानिकं बुधाः ॥ 016c
महतश्चाप्यहङ्कार उत्पद्यति नराधिप । 017a
द्वितीयं सर्गमित्याहुरेतद्बुद्ध्यात्मकं स्मृतम् ॥ 017c
अहङ्काराच्च सम्भूतं मनो भूतगुणात्मकम् । 018a
तृतीयः सर्ग इत्येष आहङ्कारिक उच्यते ॥ 018c
मनसस्तु समुद्भूता महाभूता नराधिप । 019a
चतुर्थं सर्गमित्येतन्मानसं चिन्तनात्मकम् ॥ 019c
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च । 020a
पञ्चमं सर्गमित्याहुर्भौतिकं भूतचिन्तकाः ॥ 020c
श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् । 021a
सर्गं तु षष्ठमित्याहुर्बहुचिन्तात्मकं स्मृतम् ॥ 021c
अधः श्रोत्रेन्द्रियग्राम उत्पद्यति नराधिप । 022a
सप्तमं सर्गमित्याहुरेतदैन्द्रियकं स्मृतम् ॥ 022c
ऊर्ध्वं स्रोतस्तथा तिर्यगुत्पद्यति नराधिप । 023a
अष्टमं सर्गमित्याहुरेतदार्जवकं स्मृतम् ॥ 023c
तिर्यक्स्रोतस्त्वधःस्रोत उत्पद्यति नराधिप । 024a
नवमं सर्गमित्याहुरेतदार्जवकं बुधाः ॥ 024c
एते वै नव सर्गा हि तत्त्वानि च नराधिप । 025a
चतुर्विंशतिरुक्तानि यथाश्रुतिनिदर्शनम् ॥ 025c
अत ऊर्ध्वं महाराज गुणस्यैतस्य तत्त्वतः । 026a
महात्मभिरनुप्रोक्तां कालसङ्ख्यां निबोध मे ॥ 026c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चदशाधिकत्रिशततमोऽध्यायः ॥ 315 ॥