अध्यायः 314

भीष्मेण युधिष्ठिरम् प्रति श्रेयःसाधनधर्मप्रतिपादकजनकानुशासनानुवादः ॥ 1 ॥ भीष्म उवाच 001
मृगयां विचरन्कश्चिद्विजने जनकात्मजः । 001a
वने ददर्श विप्रेन्द्रमृषिं वंशधरं भृगोः ॥ 001c
तमासीनमुपासीनः प्रणम्य शिरसा मुनिम् । 002a
पश्चादनुमतस्तेन पप्रच्छ वसुमानिदम् ॥ 002c
भगवन्किमिदं श्रेयः प्रेत्य चापीह वा भवेत् । 003a
पुरुषस्याध्रुवे देहे कामस्य वशवर्तिनः ॥ 003c
सत्कृत्य परिपृष्टः सन्सुमहात्मा महातपाः । 004a
निजगाद ततस्तस्मै श्रेयस्करमिदं वचः ॥ 004c
ऋषिरुवाच 005
मनसः प्रतिकूलानि प्रेत्य चेह नचेच्छसि । 005a
भूतानां प्रतिकूलेभ्यो निवर्तस्य यतेन्द्रियः ॥ 005c
धर्मः सदा हितः पुंसां धर्मश्चैवाश्रयः सताम् । 006a
धर्माल्लोकास्त्रयस्तात प्रवृत्ताः सचराचराः ॥ 006c
स्वादुकामुक कामानां वैतृष्ण्यं किं न गच्छसि । 007a
मधु पश्यसि दुर्बुद्धे प्रपातं नानुपश्यसि ॥ 007c
यथा ज्ञाने परिचयः कर्तव्यस्तत्फलार्थिना । 008a
तथा धर्मे परिचयः कर्तव्यस्तत्फलार्थिना ॥ 008c
असता धर्मकामेन विशुद्धं कर्म दुष्करम् । 009a
सता तु धर्मकामेन सुकरं कर्म दुष्करम् ॥ 009c
वने ग्राम्यसुखाचारो यथाग्राम्यस्तथैव सः । 010a
ग्रामे वनसुखाचारो यथा वनचरस्तथा ॥ 010c
मनोवाक्कर्मगे धर्मे कुरु श्रद्धां समाहितः । 011a
निवृत्तौ वा प्रवृत्तौ वा सम्प्रधार्य गुणागुणान् ॥ 011c
नित्यं च बहु दातव्यं साधुभ्यश्चानसूयता । 012a
प्रार्थितं ब्राह्मणेभ्यश्च सत्कृतं देशकालयोः ॥ 012c
शुभेन विधिना लब्धमर्हाय प्रतिपादयेत् । 013a
क्रोधमुत्सृज्य दत्त्वाऽथ नानुतप्येन्न कीर्तयेत् ॥ 013c
अनृशंसः शुचिर्दान्तः सत्यवागार्जवे स्थितः । 014a
योनिकर्मविशुद्धश्च पात्रं स्याद्वेदविद्द्विजः ॥ 014c
संस्कृता चैकपत्नी च जात्या योनिरिहेष्यते । 015a
ऋग्यजुःसामगो विद्वान्षट्कर्मा पात्रमुच्यते ॥ 015c
स एव धर्मः सोऽधर्मस्तं तं प्रति नरं भवेत् । 016a
पात्राकर्मविशेषेण देशकालाववेक्ष्य च ॥ 016c
लीलयाऽल्पं यथा गात्रात्प्रमृज्यात्तु रजः पुमान् । 017a
बहुयत्नेन च महत्पापनिर्हरणं तथा ॥ 017c
विरिक्तस्य यथा सम्यग्घृतं भवति भेषजम् । 018a
तथा निर्हृतदोषस्य प्रेत्य धर्मः सुखावहः ॥ 018c
मानसं सर्वभूतेषु वर्तते वै शुभाशुभम् । 019a
अशुभेभ्यः समाक्षिप्य शुभेष्वेवावधारय ॥ 019c
सर्वं सर्वेण सर्वत्र क्रियमाणं च पूजय । 020a
स्वधर्मे यत्र रागस्ते कामं धर्मो विधीयताम् ॥ 020c
अधृतात्मन्धृतौ तिष्ठ दुर्बद्धे बुद्धिमान्भव । 021a
अप्रशान्तः प्रशाम्य त्वमप्राज्ञः प्राज्ञवच्चर ॥ 021c
तेजसा शक्यते प्राप्तुमुपायः सहचारिणा । 022a
इह च प्रेत्य च श्रेयस्तस्य मूलं धृतिः परा ॥ 022c
राजर्षिरधृतिः स्वर्गात्पतितो हि महाभिषः । 023a
ययातिः क्षीणपुण्योपि धृत्या लोकानवाप्तवान् ॥ 023c
तपस्विनां धर्मवतां विदुषां चोपसेवनात् । 024a
प्राप्स्यसे विपुलां बुद्धिं तथा श्रेयोऽभिपत्स्यसे ॥ 024c
भीष्म उवाच 025
स तु स्वभावसम्पन्नस्तच्छ्रुत्वा मुनिभाषितम् । 025a
विनिवर्त्य मनः कामाद्धर्मे बुद्धिं चकार ह ॥ 025c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुर्दशाधिकत्रिशततमोऽध्यायः ॥ 314 ॥

12-314-5 वैतृष्णं को न गच्छति इति ध. पाठः । किं न पृच्छसीति थ. पाठः ॥ 12-314-15 एकस्यैव पत्नी एकपत्नी नत्वन्यपूर्वा । जात्याः पुत्रोत्पत्तेः योनिः स्थानम् ॥