अध्यायः 313

भीष्मेण युधिष्ठिरम् प्रति बुद्धाबुद्धस्वरूपनिरूपकवसिष्ठकरालजनकसंवादानुवादसमापनम् ॥ 1 ॥ वसिष्ठ उवाच 001
अप्रबुद्धमथाव्यक्तमिमं गुणविधिं शृणु । 001a
गुणान्धारयते ह्येषा सृजत्याक्षिपते तथा ॥ 001c
अजस्रं त्विह क्रीडार्थं विकरोति जनाधिप । 002a
आत्मानं बहुधा कृत्वा तान्येव प्रविचक्षते ॥ 002c
एतदेवं विकुर्वाणं बुध्यमानो न बुध्यते । 003a
अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्यपि ॥ 003c
न त्वेव बुध्यतेऽव्यक्तं सगुणं वाऽथ निर्गुणम् । 004a
कदाचित्त्वेव खल्वेतदाहुरप्रतिबुद्धकम् ॥ 004c
बुध्यते यदि वाऽव्यक्तमेतद्वै पञ्चविंशकम् । 005a
बुध्यमानो भवत्येष सङ्गात्मक इति श्रुतिः । 005c
अनेनाप्रतिबुद्धेति वदन्त्यव्यक्तमच्युतम् ॥ 005e
अव्यक्तोबोधनाच्चापि बुध्यमानं वदन्त्युत । 006a
पञ्चविंशं महात्मानं न चासावपि बुध्यते ॥ 006c
षड्विंशं विमलं बुद्धमप्रमेयं सनातनम् । 007a
स तु तं पञ्चविंशं च चतुर्विंशं च बुध्यते ॥ 007c
दृश्यादृश्यौ ह्यनुगतावुभावेव महाद्युती । 008a
अव्यक्तं तत्तु तद्ब्रह्म बुध्यते तात केवलम् ॥ 008c
केवलं पञ्चविंशं च चतुर्विंशं च पश्यति । 009a
बुध्यमानो यदात्मानमन्योऽहमिति मन्यते ॥ 009c
तदा प्रकृतिमानेष भवत्यव्यक्तलोचनः । 010a
बुध्यते च परां बुद्धिं विमलाममलां यदा ॥ 010c
षड्विंशं राजशार्दूल तथा बुद्धत्वमाव्रजेत् । 011a
ततस्त्यजति सोऽव्यक्तं सर्गप्रलयधर्मि वै ॥ 011c
निर्गुणः प्रकृतिं वेद गुणयुक्तामचेतनाम् । 012a
ततः केवलधर्माऽसौ भवत्यव्यक्तदर्शनात् ॥ 012c
केवलेन समागम्य विमुक्तोऽऽत्मानमाप्नुयात् । 013a
एतं वै तत्त्वमित्याहुर्निस्तत्त्वमजरामरम् ॥ 013c
तत्त्वसंश्रयणादेष तत्त्ववान्न च मानद । 014a
पञ्चविंशतितत्त्वानि प्रवदन्ति मनीषिणः ॥ 014c
न चैष तत्त्ववांस्तात निस्तत्त्वस्त्वेष बुद्धिमान् । 015a
एष मुञ्चति तत्त्वं हि क्षिप्रं बुद्धत्वलक्षणम् ॥ 015c
षड्विंशोऽहमिति प्राज्ञो गृह्यमाणोऽजरामरः । 016a
केवलेन बलेनैव समतां यात्यसंशयम् ॥ 016c
षड्विंशेन प्रबुद्धेन बुध्यमानो ह्यबुद्धिमान् । 017a
एवं नानात्वमित्युक्तं साङ्ख्यश्रुतिनिदर्शनात् ॥ 017c
चेतनेन समेतस्य पञ्चविंशतिकस्य च । 018a
एकत्वं वै भवत्यस्य यदा बुद्ध्या न बुध्यते ॥ 018c
बुध्यमानोप्रबुद्धेन समतां याति मैथिल । 019a
सङ्गधर्मा भवत्येष निःसङ्गात्मा नराधिप ॥ 019c
निःसङ्गात्मानमासाद्य षड्विंशकमजं विभुम् । 020a
विभुस्त्यजति चाव्यक्तं यदा त्वेतद्विबुध्यते ॥ 020c
चतुर्विंशं महाभाग षड्विंशस्य प्रबोधनात् । 021a
एष ह्यप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ ॥ 021c
प्रोक्तो बुद्धश्च तत्त्वेन यथाश्रुतिनिदर्शनात् । 022a
नानात्वैकत्वमेतावद्द्रष्टव्यं शास्त्रदृष्टिभिः ॥ 022c
मशकोदुम्बरे यद्वदन्यत्वं तद्वदेतयोः । 023a
मत्स्योदके यथा तद्वदन्यत्वमुपलभ्यते ॥ 023c
एवमेवावगन्तव्यं नानात्वैकत्वमेतयोः । 024a
एतद्धि मोक्ष इत्युक्तमव्यक्तज्ञानसञ्ज्ञितम् ॥ 024c
पञ्चविंशतिकस्यास्य योऽयं देहेषु वर्तते । 025a
एष मोक्षयितव्येति प्राहुरव्यक्तगोचरात् ॥ 025c
सोयमेवं विमुच्येत नान्यथेति विनिश्चयः । 026a
परेण परधर्मा च भवत्येष समेत्य वै ॥ 026c
विशुद्धधर्मा शुद्धेन बुद्धेन च स बुद्धिमान् । 027a
विमुक्तधर्मा मुक्तेन समेत्य पुरुषर्षभ ॥ 027c
वियोगधर्मिणा चैव वियोगात्मा भवत्यथ । 028a
विमोक्षिणा विमोक्षश्च समेत्येह तथा भवेत् ॥ 028c
शुद्धधर्मा शुचिश्चैव भवत्यमितदीप्तिमान् । 029a
विमलात्मा च भवति समेत्य विमलात्मना ॥ 029c
केवलात्मा तथा चैव केवलेन समेत्य वै । 030a
स्वतन्त्रश्च स्वतन्त्रेण स्वतन्त्रत्वमवाप्नुते ॥ 030c
एतावदेतत्कथितं मया ते तथ्यं महाराज यथार्थतत्त्वम् । 031a
अमत्सरत्वं प्रतिगृह्य चार्थं सनातनं ब्रह्म विशुद्धमाद्यम् ॥ 031c
नावेदनिष्ठस्य जनस्य राजन्प्रदेयमेतत्परमं त्वया भवेत् । 032a
विवित्समानाय विबोधकारणं प्रबोधहेतोः प्रणतस्य शासनम् ॥ 032c
न देयमेतच्च तथाऽनृतात्मने शठाय क्लीबाय न जिह्मबुद्धये । 033a
न पण्डितज्ञानपरोपतापिने देयं त्वयेदं विनिबोध यादृशे ॥ 033c
श्रद्धान्वितायाथ गुणान्विताय परापवादाद्विरताय नित्यम् । 034a
विशुद्धयोगाय बुधाय चैव क्रियावते च क्षमिणे हिताय ॥ 034c
विविक्तशीलाय विधिप्रियाय विवादहीनाय बहुश्रुताय । 035a
विजानते चैव दमक्षमावते शक्ताय चैकात्मशमाय देहिनाम् ॥ 035c
एतैर्गुणैर्हीनतमे न देयमेतत्परं ब्रह्म विशुद्धमाहुः । 036a
न श्रेयसा योक्ष्यति तादृशे कृतं धर्मप्रवक्तारमपात्रदानात् ॥ 036c
पृथ्वीमिमां यद्यपि रत्नपूर्णां दद्यान्न देयं त्विदमव्रताय । 037a
जितेन्द्रियायैतदसंशयं ते भवेत्प्रदेयं परमं नरेन्द्र ॥ 037c
कराल मा ते भयमस्तु किञ्चिदेतच्छ्रुतं ब्रह्म परं त्वयाऽद्य । 038a
यथावदुक्तं परमं पवित्रं विशोकमत्यन्तमनादिमध्यम् ॥ 038c
अगाधजन्मामरणं च राजन्निरामयं वीतभयं शिवं च । 039a
समीक्ष्य मोहं त्यज बाऽद्य सर्वज्ञानस्य तत्त्वार्थमिदं विदित्वा ॥ 039c
अवाप्तमेतद्धि मया सनातनाद्धिरण्यगर्भाद्यजतो नराधिप । 040a
प्रसाद्य यत्नेन तमुग्रतेजसं सनातनं ब्रह्म यथाऽद्य वै त्वया ॥ 040c
पृष्टस्त्वया चास्मि यथा नरेन्द्र तथा मयेदं त्वयि चोक्तमद्य । 041a
तथाऽवाप्तं ब्रह्मणो मे नरेन्द्र महाज्ञानं मोक्षविदां परायणम् ॥ 041c
भीष्म उवाच 042
एतदुक्तं परं ब्रह्म यस्मान्नावर्तते पुनः । 042a
पञ्चविंशो महाराज परमर्षिनिदर्शनात् ॥ 042c
पुनरावृत्तिमाप्नोति परं ज्ञानमवाप्य च । 043a
नावबुध्यति तत्त्वेन बुध्यमानोऽजरामरम् ॥ 043c
एतन्निःश्रेयसकरं ज्ञानं ते परमं मया । 044a
कथितं तत्त्वतस्तात श्रुत्वा देवर्षितो नृप ॥ 044c
हिरण्यगर्भादृषिणा वसिष्ठेन महात्मना । 045a
वसिष्ठादृषिशार्दूलान्नारदोऽवाप्तवानिदम् ॥ 045c
नारदाद्विदितं मह्यमेतद्ब्रह्म सनातनम् । 046a
मा शुचः कौरवेन्द्र त्वं श्रुत्वैतत्परमं पदम् ॥ 046c
येन क्षराक्षरे वित्ते भयं तस्य न विद्यते । 047a
विद्यते तु भयं तस्य यो नैतद्वेत्ति पार्थिव ॥ 047c
अविज्ञानाच्च मूढात्मा पुनःपुनरुपाद्रवत् । 048a
प्रेत्य जातिसहस्राणि मरणान्तान्युपाश्नुते ॥ 048c
देवलोकं तथा तिर्यङ्मनुष्यमपि चाश्नुते । 049a
यदि शुध्यति कालेन तस्मादज्ञानसागरात् ॥ 049c
'उत्तीर्णोऽस्मादगाधात्स परमाप्नोति शोभनम् ।' 050a
अज्ञानसागरो घोरो ह्यव्यक्तोऽगाध उच्यते । 050c
अहन्यहनि मज्जन्ति यत्र भूतानि भारत ॥ 050e
यस्मादगाधादव्यक्तादुत्तीर्णस्त्वं सनातनात् । 051a
तस्मात्त्वं विरजाश्चैव वितमस्कश्च पार्थिव ॥ 051c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रयोदशाधिकत्रिशततमोऽध्यायः ॥ 313 ॥

12-313-3 अव्यक्तबोधनं चैनमिति ड. थ. पाठः । अव्यक्तबोधनाच्चैनमिति ट. पाठः ॥ 12-313-9 चतुर्विंशं न पश्यतीति झ. पाठः ॥ 12-313-10 बुद्ध्यते विमलं बुद्धविशुद्धमचलोपममिति ध. पाठः ॥ 12-313-11 षड्ंविशो राजशार्दूलेति झ. पाठः । प्रलयधर्मिणि इति थ. पाठः ॥ 12-313-13 एतद्वै तत्वमिति ध. पाठः ॥ 12-313-15 क्षिप्रं बुद्ध्या सुलक्षणमिति ड. थ. पाठः । क्षिप्रं बुद्ध्वा स्वलक्षणमिति ट. पाठः ॥ 12-313-18 एकत्वं चैव तत्वस्येति ध. पाठः ॥ 12-313-47 वित्ते विज्ञाते ॥